"अग्निपुराणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
अग्निपुराणम् (Agnipurana)
पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।
|