"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Bot: Migrating 76 interwiki links, now provided by Wikidata on d:q22424 (translate me) |
No edit summary |
||
पङ्क्तिः १:
[[चित्रम्:IndiaPunjab.png|thumb|'''पञ्जाबराज्यम्''']]
'''पंजाब''' ('''ਪੰਜਾਬ''') (Punjab) [[भारतम्|भारतस्य]]
पञ्चानां नदीनां भूमिः इत्यतः पञ्जाब् इति कथ्यते ।
[[चंडीगढ़]] (ਚੰਡੀਗੜ੍ਹ)
पञ्जाबराज्ये अनेकानि निसर्गरमणीयानि सांस्कृतिकानि ऐतिहासिकानि धार्मिकानि च प्रेक्षणीयस्थानानि सन्ति । सिन्धूप्रपातसंस्कृतेः अवशेषस्थानं रुपारः
==कार्बुसियर् पत्तनम्==
एतस्य विशिष्टनगरं सुन्दरनगरं, इति प्रसिद्धिः अस्ति । नगरनिर्माणस्य कश्चन विशिष्टः इतिहासः अस्ति । [[भारतम्|भारतपाकिस्तानयोः]] विभागसमये लाहोरनगरं पाकिस्तानदेशे गतमभवत् । तदा उत्तमनगरं निर्मीय पञ्जाबप्रान्ते राजधानी निर्माणाय चिन्तम् आरब्धा अभवत् । एव नगरारम्भः [[भारतसर्वकारः|भारतसर्वकारेण]] चिन्तितः अभवत् । प्रथमप्रधानमन्त्री श्री [[जवाहरलाल नेह्रू|जवहरलाल]] महोदयः क्रिस्ताब्दे [[१९५३]] तमे वर्षे नगरारम्भ कृतवान् । क्रिस्ताब्दे [[१९६६]] तमे वर्षे हरियाणा राज्यस्योदयः अभवत । त् अस्यापि राजधानी आवश्यकः आसीत् । एव उभयोः राज्ययोः एकनगरे राजधानीकार्याणि’ प्रचलन्ति उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । नगरनिर्माता अभियन्ता वास्तु शिल्पी कार्बुसियर् नगरयोजनां रूपितवान् । प्रतिकालम् अनुरूपाः सूचनाः दत्तवान् । एतेन अद्यपि नगरयोजना निर्मातारः नगरभ्यासि जनाः नूतनवास्तुसिला ज्ञातुम् इच्छुकाः अत्रागत्य अध्ययनं कुर्वन्ति । मरुस्थले पुष्पाणि कथं विकासितानि इति कुतूहलेन वास्तुतन्त्रज्ञाः अद्यापि चकिताः सन्ति । चण्डीगडनगरस्य रचनं ग्रिड् स्टैल्
==राकगार्डन्==
अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । [[भारतम्|भारते]] एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.[[१९५०]] तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.[[१९७६]] तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति । विमानमार्गः - [[देहली|दिल्लीतः]] विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी. दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं [[देहली]]तः प्रस्थास्यति । [[शिम्ला]],[[मनाली]], धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।
==अमृतसरस्य स्वर्णमन्दिरम्==
[[चित्रम्:Hamandir Sahib (Golden Temple).jpg|thumb|'''स्वर्णमन्दिरम्''']]
विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । [[भारतम्|भारतदेशे]] स्थितेषु श्रेष्ठनगरेषु [[अमृतसर|अमृतसरनगरम्]] अन्यतमम् । एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.[[१५७७]] तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः [[सिखमतम्|सिख्खमतस्य]] पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् [[सिख्खमतम्|सिख्खमतस्य]] वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । [[सिख्खमतम्|सिख्खमतीयानां]] स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। [[अमृतसर|अमृतसरनगरे]] लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.[[१८०५]] -[[१८०९]] तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं [[देहली]]तः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –[[देहली]]तः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, [[देहली]] इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।
==जलियन् वालाबाग् हत्याकाण्डस्थानम्==
[[चित्रम्:Martyrs well at Jallianwala Bagh.jpg|thumb]]
[[अमृतसर|अमृतसरस्य]] स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे [[१९१९]] तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।
== अन्यनगराणि ==
* [[अमृतसर]]
Line २५ ⟶ २९:
* [[फीरोजपुर]]
* [[कपूरथला]]
==वीथिका==
<gallery>
Line ४१ ⟶ ४६:
</gallery>
==बाह्यानुबन्धः==
*{{Official website|http://punjabgovt.nic.in|name=Official website of Punjab, India}}
*{{Official website|http://www.theworldofsun.com/sochlo/|name=Great people of Punjab, India}}
|