"सिद्धगङ्गा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q7508029
No edit summary
पङ्क्तिः २:
सिद्धगङ्गा (Siddaganga) [[कर्णाटक]]राज्यस्य [[तुमकूरु]]मण्डले विद्यमानं किञ्चन क्षेत्रम् । प्रसिद्धः सिद्धगङ्गामठः शिवशरणानां पुण्यक्षेत्रं विद्यते । आधुनिककाले सिद्धगङ्गायाः नाम विश्र्वाद्यन्तं प्रसृतम् अस्ति । अत्र चलद्देवः इति कथ्यमानः कर्मयोगी [[शिवकुमारस्वामी]] वसति । शिवकुमारस्वामिनः कारणतः सिद्धगङ्गा उल्लेखार्हा जाता । सिद्धगङ्गां परितः प्रेक्षणीयानि स्थानानि बहूनि सन्ति ।
'''रामदेवरबेट्ट , सिद्धगङ्गा , सिद्धरबेट्ट , देवरायपट्टस्य शिवालयः , गूळूरू , बेळगुम्ब , गुब्बि एडेयूरु , कुप्पूद्र''' इत्यादीनि स्थलानि प्रेक्षणीयानि सन्ति । ऐतिहासिकदृष्ट्या पौराणिकदृष्ट्या एतानि प्रसिद्धानि । एतादृशैः पवित्रस्थानैः परिवृतमस्ति सिद्धगङगाक्षेत्रम् । एतदेकं पुण्यक्षेत्रम् । एतत् [[तुमकूरु]]मण्डले अस्ति । [[बेङ्गळूरु]]तः ४० कि.मी दूरे अस्ति । एतत् क्षेत्रं प्रति सर्वमतीयाः अपि भक्त्या आगच्छन्ति । प्रायशः सर्वैरपि सिद्धगङ्गाक्षेत्रं दृष्टम् । एका गाथा [[कर्णाटक|कर्णाटके]] प्रचलति सिद्धगङ्गां गच्छति चेत् गुहे (एकविधाहारविशेषः) ऋणं न भवति । अर्थात् यथेष्टं भोजनप्रसादः लभ्यते इति । एतदेकं मुक्तिदायकं स्थानम् [[गोसलसिद्धेश्वरः]] [[तोण्टदलिङ्गेश्र्वरः]] इत्यादयः विरक्ताः अत्र शान्तिं प्रतिष्ठापितवन्तः । सहस्राधिकाः छात्राः अत्र पठन्ति । नित्यदासोहकारणतः एतत् क्षेत्रं समाजस्य विशिष्टोपकारकम् अस्ति ।
 
==इतिहासः==
एकदा ग्रीष्मकाले जलाभावः आसीत् । गिरौ जलम् अभिकेषार्थं न प्राप्तमेव । पानार्थमेव जलं नासीत् अभिषेकार्थं कुतः? तदा एषः तपस्वी तपोनिरतं श्रीतोण्टदलिङगेश्र्वरं दृष्ट्वा नमस्कृतवान् । निवेदितवान् "देव, तृषा जायते । अभिषेकार्थं जलं नास्ति । कुत्रापि जलं नास्ति" इति । एषा प्रार्थना तोण्टदलिङगेश्र्वरेण श्रुता । सः [[शिवः|शिवं]] प्रार्थितवान् । तदा तस्य पुरतः [[गङ्गा]] उद्भूता । तदा तपस्वी गङ्गायां स्नात्वा तृषां च परिहृत्य स्थितवान् । तस्मिन्नेव समये सिद्धलिङ्गेश्वरेण ज्वालिते दीपस्तम्भे तैलं न्यूनं जातम् । सद्यः एव दीपः तैलाभावात् निर्वाप्यते इति स्थितिः आगता । तदा गङ्गाजलं तत्र पूरितम् । पुनश्र्च दीपः प्रज्वलितः ।
Line ११ ⟶ १२:
[[File:SIT college.jpg|thumb|तान्त्रिकमहाविद्यालयः,सिद्धगङ्गा]]
 
सिद्धगङ्गायाः इतिहासे [[उद्यानशिवयोगी|उद्यानशिवयोगिनां]] नाम अपि प्रमुखम् अस्ति । एते स्वामिनः ज्ञानिनः । एते अन्नदासोहं, ज्ञानदासोहं, महोत्सवम् इत्यादिकं प्रचालितवन्तः । मठस्य प्रगतौ कारणीभूताः एते । [[१९०१]] तमे वर्षे अत्र यात्रामहोत्सवः आरब्धः । अद्यापि बहुसम्यक् महोत्सवः सिद्धगङ्गायां प्रचलति । श्री[[शिवकुमारस्वामी|श्रीशिवकुमारस्वामिनां]] काले महोत्सवः वैभवपूर्वकं प्रचलति । महोत्सवे कनीयांसः , वयस्काः , ज्येष्ठाः , धनिकाः , दरिद्राः , विभिन्नजातीयाः भेदभावं विना आगच्छन्ति । सिद्धगङ्गदेवेन अनुगृहीताश्र्च भवन्ति । हेरम्बकविः "सिद्धलिङ्गेश्र्वरसाङ्गत्ये "सिद्धगङ्गाजलस्य महिमानं वर्णितवान् । सिद्धगङ्गायाः माहात्म्यं कर्णाटकात् बहिरपि प्रसृतम् अस्ति ।
[[महाशिवरात्रिः|शिवरात्रौ]] सिद्धलिङ्गेश्र्वरनाम्नि यात्रामहोत्सवः प्रचलति । दशदिनानि उत्सवः भवति । अन्तिमदिने कल्याण्याम् [[उडुपोत्सवः]] भवति । [[पञ्चब्रह्मोत्सवः]] अपि भवति । एतत् द्रष्टुं लक्षाधिकाः जनाः आगच्छन्ति । सिद्धगङ्गायाम् अनेके गुहाः सन्ति । तत्र सप्त अथवा अष्ट उत्तमस्थितौ सन्ति । क्रि.श १३००-१३५० सिद्धगङ्गायां मठः स्थापितः स्यात् इति पण्डितः एरेसीमे अभिप्रैति । सिद्धगङ्गाक्षेत्रं कर्मयोगिनां [[शिवकुमारस्वामी|शिवकुमारस्वामिनां]] कारणतः जगत्प्रसिद्धं जातम् ।
शिवकुमारस्वामी [[१९०८]] तमे वर्षे एप्रील् प्रथमदिनाङ्के जन्म प्राप्तवान् । एतस्य माता गङ्गय्या पिता होन्नय्यः । [[१९३०]] तमस्य वर्षस्य मार्च २ दिनाङ्के श्रीमन्निरञ्जनस्वरूपिशिवकुमारस्वामीति नामाङकनं श्री उद्दान शिवयोगिना कृतम् ।
[[शिवकुमारस्वामी|शिवकुमारस्वामीजी]] बहुपरिश्रमेण मठं वर्धितवान् । इदानीमत्र अष्टसहस्राधिकच्छात्राः विद्याभ्यासं कुर्वन्ति । शिवकुमारस्वामिनः सर्वमतसिद्धान्तानपि अङ्गीकुर्वन्ति । सर्वे स्वमतं सम्यक् पालयन्ति चेत् सर्वत्र शान्तिः आनन्दश्र्च भविष्यति इति तेषाम् अभिप्रायः । [[१९६६]] तमे वर्षे क्षामकाले एतैः कृतं दासोहं पश्यामश्र्चेत् स्वामिनां दृढसङ्कल्पः, अलौकिकशक्ति:, व्यक्तित्वं च ज्ञायते । मठे इदानीं प्रतिदिनं १०० तः १५० पल्लमितात् धान्यात् अन्नं वा पिष्टं वा कुर्वन्ति । एतत् अनेकराष्ट्रनायकाः दृष्टवन्तः । एतत्तु श्रीचरणानां तपोबलम् । सिद्धगङ्गायाः महत्त्वं, सिद्धलिङ्गेश्र्वरस्य कृपा इति भाव्यते । धारवाडविश्र्वविद्यालयः [[१९६६]] तमे वर्षे स्वमिभ्यः "गौरवडाक्टरेट्पदवीम्" अयच्छत् । एते "कर्णाटकरत्नप्रशस्तिना" पुरस्कृताः सन्ति । शतायुषिणामेतेषां क्रियाशीलता आश्र्चर्यं जनयति ।
वज्रस्य वज्रमेव यथा उपमानं भवति तथैव स्वामिनाम् अन्यत् उपमानं न लभ्यते । तोलयितुं न शक्यते अन्यैः सह । सिद्धगङ्गा तु तीर्थक्षेत्रंतीर्थक्षेत्रम् , शिक्षणक्षेत्रंशिक्षणक्षेत्रम् , दासोहक्षेत्रंदासोहक्षेत्रम् , शरणक्षेत्रम् इति कारणतः कर्णाटकस्य[[कर्णाटक]]स्य सर्वान् भक्तान् आकर्षति । इदानीं सिद्धगङ्गामठस्य उत्तराधिकारी श्री [[सिद्धलिङ्गस्वामी]] । एतस्य पूर्वाश्रमस्य नाम विश्र्वनाथः । शरणदम्पत्योः सदाशिवशिवरुद्रम्मयोः अन्तिमः पुत्रः । एतस्य जन्म २२-७-[[१९६३]] तमे वर्षे कञ्चगलुबण्डेमठे अभवत् । एषः [[शिवकुमारस्वामी|शिवकुमारस्वामिनाम्]] अनुग्रहं प्राप्तवान् । [[१९८८]] मार्च ३१ तमे वर्षे सिद्धगङ्गामठस्य उत्तराधिकारी जातः । मठस्य प्रत्येकस्मिन् कार्ये उत्साहेन भागं स्वीकुर्वन् अस्ति एषः। शिवशरणक्षेत्रेषु अद्य सिद्धगङ्गा प्रभाविनी अस्ति । एतस्य क्षेत्रस्य दर्शनेन सर्वे स्वदु:खादिकं विस्मरन्ति । १२ शतके बसवादिभिः शिवशरणैः प्रज्वालितः प्रदीपः अद्य विश्र्वमेव प्रकाशयति । प्रज्वलतां तीर्थक्षेत्राणां सन्दर्शनेन पापानि नष्टानि भवन्ति । अस्माकं व्यक्तित्वं प्रज्वलति । एकैकः अपि जीवने एकदा वा शिवशरणक्षेत्रं पश्यति चेत् उत्तमम् । एतत् काशीक्षेत्रदर्शनस्य पुण्यं ददाति
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/सिद्धगङ्गा" इत्यस्माद् प्रतिप्राप्तम्