"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३८:
[[भारतम्|भारतदेशस्य]] प्रधानार्थिककेन्द्रेषु बेङ्गळूरुनगरस्य गणनीय स्थनम् अस्ति । प्रतिवर्षं ६०सहस्रकोटिरूप्यकाणां व्यवहारः सम्भवति । महानगरस्य अस्य अर्थक्षेत्रे तु भारत् एलेक्रानिक्स लिमिटेड्, हिन्दुस्तान् एरोनटिक्स लिमिटेड् न्याशनल् एरोस्पेस् ल्याबोरेटरीस्, भरत् हेव्वी एलेक्ट्रानिक्स लिमिटेड् भारत् अर्थ मूवर्स् लिमिटेड्, इण्डियन् स्फेस् रिसर्च् टूल्स् इत्यादीनां महोद्यमसंस्थानां योगदानं महत् वर्तते । इन्फार्मेशन् टेक्नोलजि उद्यमे तु भारते एव अस्य महानगरस्य प्राथम्यं वर्तते । [[भारतम्|भारतदेशस्य]] ऎटि निर्यातस्य ३३% योगदानं बेङ्गळूरुनगरस्य ऎटिसंस्थायाः एव सन्ति । भारतस्य इन्फोसिस्, विप्रो,सिमेन्स्, टाटा कन्सल्टेन्सी, इत्याद्यानां बृहत्ऎटिउद्यमसंस्थानां प्रधानकेन्द्रं बेङ्गळूरुनगरे एव अस्ति । बयोटेक्नालजि अपि अत्र प्रसिद्धा अस्ति । [[भारतम्|भारतस्य]] बृहत्तमः उद्यमः बयोकान् अपि अत्र एव अस्ति । कन्नड चलच्चित्रोद्यमः अपि बृहत्प्रमाणेन कार्यव्यापृतः अस्ति । सहस्रशः जनाः अस्मिन् क्षेत्रे व्यस्ताः सन्ति । एते उद्यमिनः प्रजाभ्यः सदभिरुचिदं मनोरञ्जनं यच्छन्ति । कोटिशः धनव्यवहारः अपि राज्यस्य आर्थिकसमृद्धये लाभाय भवति ।
==वायुमर्गसञ्चारः==
[[File:Bangalore Airport.jpg|thumb|200px|'''बेङ्गळूरु अन्ताराष्ट्रिय विमाननिस्थानकम्''']]
बेङ्गळुरुमहानगरात् बहिर्भागे बेङ्गळूरु अन्ताराष्ट्रिय विमाननिस्थानकम् क्रि.श.[[२००८]] तमे वर्षे आरब्धम् अस्ति । इतः विश्वस्य सर्वे देशाः गम्याः भवति । वायुसञ्चारस्य जनसङ्ख्यां, निस्थानकस्य वैशाल्यं, सञ्चाद्विमानसङ्ख्यां च परिगणय्य एतत् [[भारतम्|भारतस्य]] चतुर्थं बृहत् निस्थानम् इति उद्घुष्टम् । महानगरस्य केन्द्रात् विमाननिस्थानपर्यन्तं गमनागमनं कर्तुं सुगमा राजमार्गव्यवस्था कल्पिता अस्ति ।
 
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्