"भौतिकशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''भौतविज्ञानं''' तु भौतिकस्य विज्ञानस्य एषः भागः यत्र प्राकृतिकाध्ययनं प्रवर्तते। आङ्ग्लभाषायाम्[[आङ्ग्लभाषा]]याम् अस्य नाम, ‘Physics’ इति अस्ति। अस्य पदस्य मूलं तु, ‘Fusis’ इति नामकं ग्रीक् भाषापदम्। तस्यां भाषायाम् अस्य पदस्य अर्थः, ‘प्रकृतिः’‘[[प्रकृतिः]]’ इति भवति। ‘अरिस्टाटल्’‘[[अरिस्टाटल्]]’ नामकः [[विज्ञानी]] प्रथमतः अस्य नाम्नः उपयोगं कृतवान्। प्रकृतिः नियमबद्धा वैभवसंपन्ना च वर्तते। अत्र दिनरात्रि, ऋतूना परिवर्तनं, [[भूमिः|भूमेः]] रचना इत्यादिषु सर्वत्र नियमबद्धता दृश्यते। अत्र सन्ति केचन मूलभूतनियमाः येषां तु अपवादः न दृश्यते। भौतशास्त्रं एतेषां नियमानाम् अन्वेषणम् अध्ययनं च करोति।
==भौतशास्त्रस्य विभागाः==
प्रथमतः भौतशास्त्रं स्थूलं स्वल्पविस्तृतं चासीत्। विज्ञानिनाम् अन्वेषणसामर्थ्येन कालक्रमेण व्यवर्धत। क्रिस्ताब्दीय एकोनविंशतितमशताब्दपर्यन्तं यत् ज्ञानं सङ्कलितमासीत् तत् [[पुरातनभौतिकविज्ञानम्|पुरातनभौतिकविज्ञानं]] (Classical Physics) नाम्ना प्रसिद्धमस्ति। तदनन्तरं भौतविज्ञाने परमाणुप्रपञ्चमधिकृत्य सूक्ष्मतमाः प्रयोगाः प्रवृत्ताः। एषः भागः नूतनभौतविज्ञानमिति (Modern Physics) कथ्यते। भागद्वयमपि बहुधा पुनर्विभक्तं वर्तते। पुरातनभौतविज्ञाने, [[यान्त्रिकशक्तिः]] (Mechanics) इति भागः प्रथमतः दृश्यते। अस्यापि [[स्थिरशास्त्रम्|स्थिरशास्त्रं]] (Statics), [[चलनशास्त्रम्|चलनशास्त्रमिति]] (Dynamics) भागद्वयमस्ति। चलनशास्त्रे [[सरेरवाचलनम्|सरेरवाचलनं]] (Translatory motion), [[वृत्तीयचलनम्|वृत्तीयचलनं]] (Circular motion), [[परिभ्रमणम्|परिभ्रमणं]] (Rotation), [[आवर्तनम्|आवर्तनं]] (Oscillatim) इत्यादयः अध्ययनविषयाः सन्ति। घनवस्तूनां लक्षणानि अन्यः विभागः। एवमेव द्रवलक्षणानि, अनिललक्षणानि प्रत्येकतया अध्ययनविषयाः भवन्ति।
शक्तेः बहुरूपता प्रसिद्धा वर्तते। उष्णता, [[द्युतिः]], [[शब्दः]], [[विद्युत्]], [[कान्तशक्तिः]], आकाशकायानं गुणादयः एवं सर्वे विषयाः भौतशास्त्रे अभ्यस्ताः।
 
नूतनविज्ञानभागः परमाणुविभजनप्रयोगात् आरब्धः। अस्मिन् विभागे वस्तुनः स्थूलरूपात् परावृत्य, तस्य अन्ते या रचना वर्तते, तस्य अध्ययनं कुर्वन्ति। अस्मिन् भागे, [[परमाणुविज्ञानम्|परमाणुविज्ञानं]] (atomic) बीजकेन्द्रविज्ञानं (nuclear physics), अणुविकिरणं (Radio activity), ऋणकणाध्ययनं (Electronics), क्वाण्टं भौतविज्ञानम् इत्यादयः विभागाः सन्ति। सर्वेषु भागेषु बहवः उपविभागाः वर्तन्ते। एवं भौतविज्ञानम् अतीव विस्तृतं वर्तते। आधुनिकं सङ्गणकयन्त्रविज्ञानमपि मूलतः भौतविज्ञानस्य भागः एव अस्ति। दूरदर्शनं दूरवाणीव्यवस्या, जड्गमदूरवाणी (Mobile), यन्त्रमानवशास्त्रं (Robotics), अन्तरिक्षयानम् (Space Science), नूतनानां शक्तिमूलानाम् आविष्कारः इत्यादयः सर्वे भौतविज्ञानम् अवलम्बन्ते।
==भौतविज्ञानेन सह अन्यविज्ञानविभागानां सम्बन्धः==
भौतविज्ञानं तु प्राकृतिकमूलनियमानाम् अध्ययनं करोति किल ! अतः अस्य आवश्यकता सर्वत्र सुविदिता अस्ति। अन्यविभागानाम् अभिवृद्ध्यै भौतशास्त्रं प्रमुखं पात्रं वहति।
"https://sa.wikipedia.org/wiki/भौतिकशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्