"रमजान्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
अस्मिन् मासे यवनाः निराहारिणः भूत्वा प्रपञ्चे विद्यमानान् निर्गतिकान् स्मरन्तः तेषां कृते प्रार्थनां कुर्वन्ति । रात्रौ क्रियमाणा सामूहिकप्रार्थना बहु विशिष्टा या "[[तरावीह]]-नमाज़्" इति नाम्ना प्रसिद्धा वर्तते । एवं [[कुरान्]]- ग्रंथस्य पठनेन, उपवासव्रतपालनेन, विशेषप्रार्थनाद्वारेण च यवनाः आत्मसंस्करणं साधितुमिच्छन्ति ।
[[File:Men praying in Afghanistan.jpg|left|250px]]
 
रम्ज़ान्-मासे सूर्योदयादारभ्य सूर्यास्तपर्यन्तं तेषां नियमानुसारेण आहारेण विना उपवासव्रतम् आचरन्ति । सूर्योदयात् पूर्वं क्रियमाणं भोजनं 'सहरि' इति कथ्यते । सूर्यास्तानन्तरं व्रतं समाप्य [[इफ्तार्]]नामकं भोजनं स्वीकुर्वन्ति । विविधफलानि, खाद्यानि, फलरसाश्च भोजने भवन्ति । सर्वे गृहजनाः मिलित्वा "आझान्" श्रवणानन्तरं भोजनं कुर्वन्ति ।
 
यवनैः उपवासव्रतं पालनीयम् इति शासनं क्रिस्ताब्दे ६२६ तमे वर्षे कृतम् । पवित्र खुरान्-ग्रन्थस्य १८३ अध्यायतः १८७ अध्यायपर्यन्तं रम्ज़ान् पर्वणः उपवासपालनस्य विषये विवरणानि प्राप्यन्ते ।
 
[[File:Men praying in Afghanistan.jpg|left|250px]]
 
 
 
==बाह्यानुबन्धाः==
"https://sa.wikipedia.org/wiki/रमजान्" इत्यस्माद् प्रतिप्राप्तम्