"क्रोधाद्भवति सम्मोहः..." इत्यस्य संस्करणे भेदः

(लघु) Samvith2011 इति प्रयोक्त्रा क्रोधावति सम्मोहः... इत्येतत् क्रोधाद्भवति सम्मोहः... इत्येतत् प्रति चा...
पङ्क्तिः ३५:
शब्दादिविषयान् आलोचयतः पुरुषस्य तेषु आसक्तिः उपजायते । तस्याः आसक्तेः तृष्णा सञ्जायते । यदि सा तृष्णा प्रतिहता भवति तर्हि क्रोधः अभिजायते । क्रोधात् अविवेकः उत्पद्यते । अविवेकात् शास्त्राध्ययनेन गुरूपदेशेन वा प्राप्तायाः स्मृतेः भ्रंशः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति । बुद्धिनाशात् पुरुषः नष्टो भवति ।
==शाङ्करभाष्यम्==
क्रोधाद्भवतिक्रोधादिति संमोहः। क्रोधाद्भवति संमोहोऽविवेकः कार्याकार्यविषयः भवतीति संबङ्यते। क्रुद्धो हि संमूढः सन्गुरुमप्याक्रोशति, संमोहात्स्मृतिविभ्रमः शास्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतॆः
स्याद्विभ्रमॊ भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तावनुपत्तिः । ततः स्मृतिभ्रंशाद्बुद्धिनाशः । बुद्वॆर्नाशः । कार्याकार्यविषयविवॆकायॊग्यतान्तःकरण्स्य बुद्धॆर्नाश उच्य्तॆ । बुद्धिनाशात्प्रणश्यति ।
तावदॆव हि पुरुषॊ यावदन्तःकरणं तदीयं कार्याकार्यविषयविवॆकयॊग्यं तदयॊग्यत्वॆ नष्ट एव पुरुषॊ भवति । अतः तस्यान्तःकरणस्य बॆद्धॆर्नाशात् प्रणशयति पुरुषार्थायॊग्यॊ भवतीत्यर्थः ॥६३॥
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/क्रोधाद्भवति_सम्मोहः..." इत्यस्माद् प्रतिप्राप्तम्