क्रोधाद्भवति सम्मोहः...

(क्रोधावति सम्मोहः... इत्यस्मात् पुनर्निर्दिष्टम्)

क्रोधाद्भवति सम्मोहः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अधःपतनस्य कारणानि निरूपयति । पूर्वस्मिन् श्लोके विषयचिन्तनात् रागः, रागात् आसक्तिः, आसक्त्याः कामना, कामनायाः क्रोधश्च समुद्भवति इति उक्तम् । इतोऽपि अधिकानि पतनकारणानि अत्र वदति । चतुःपञ्चाशे श्लोके अर्जुनस्य तृतीयः प्रश्नः "स्थितधीः (स्थितप्रज्ञः) किमासीत" इति आसीत् । तस्य प्रश्नस्योत्तरं भगवान् अष्टपञ्चाशात् श्लोकात् एनं श्लोकं यावद् अर्थात् त्रिषष्टं श्लोकं यावत् कथयति ।

क्रोधाद्भवति सम्मोहः...


अधःपतनस्य कारणानि
श्लोकसङ्ख्या २/६३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः ध्यायतो विषयान्पुंसः...
अग्रिमश्लोकः रागद्वेषवियुक्तैस्तु...
 
गीतोपदेशः
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥

पदच्छेदः

सम्पादयतु

क्रोधात्, भवति, सम्मोहः, सम्मोहात्, स्मृतिविभ्रमः । स्मृतिभ्रंशात्, बुद्धिनाशः, बुद्धिनाशात्, प्रणश्यति ॥

क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ।

शब्दार्थः

सम्पादयतु
अन्वयः विवरणम् सरलसंस्कृतम्
क्रोधात् अ.पुं.पं.एक. रोषात्
सम्मोहः अ.पुं.प्र.एक. व्यामोहः
भवति √भू सत्तायां,पर.कर्तरि, लट्.प्रपु.एक सम्पद्यते
सम्मोहात् अ.पुं.पं.एक. व्यामोहात्
स्मृतिविभ्रमः अ.पुं.प्र.एक. स्मरणनाशः
स्मृतिभ्रंशात् अ.पुं.पं.एक. स्मरणनाशात्
बुद्धिनाशः अ.पुं.प्र.एक. मतिनाशः
बुद्धिनाशात् अ.पुं.पं.एक. मतिनाशात्
प्रणश्यति प्र+√णश् (नश्) अदर्शने–पर.कर्तरि, लट्.प्रपु.एक विनष्टो भवति ।

व्याकरणम्

सम्पादयतु
  1. क्रोधाद्भवति = क्रोधात् + भवति – जश्त्वसन्धिः
  2. स्मृतिभ्रंशाद्बुद्धिनाशः = स्मृतिभ्रंशात् + बुद्धिनाशः - जश्त्वसन्धिः
  3. बुद्धिनाशो बुद्धिनाशात् = बुद्धिनाशः + बुद्धिनाशात् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  1. स्मृतिविभ्रमः = स्मृतेः विभ्रमः – षष्ठीतत्पुरुषः ।
  2. बुद्धिनाशः = बुद्धेः नाशः – षष्ठीतत्पुरुषः ।

क्रोधात् अविवेकः उत्पद्यते । अविवेकात् शास्त्राध्ययनेन गुरूपदेशेन वा प्राप्तायाः स्मृतेः भ्रंशः भवति । स्मृतिभ्रंशात् बुद्धिनाशः भवति । बुद्धिनाशात् पुरुषः नष्टो भवति ।

भावार्थः []

सम्पादयतु

क्रोधे सति सम्मोहः (मूढता) भवति । सम्मोहात् स्मृतिभ्रष्टता जायते । स्मृतिभ्रष्टतायां सत्यां बुद्धिनाशः सञ्जायते । बुद्धिनाशात् मनुष्यस्य पतनं भवति । 'क्रोधाद्भवति सम्मोहः' – क्रोधात् सम्मोहः (मूढता) सञ्जायते, परन्तु वस्तुतः कामात्, क्रोधात्, लोभात्, ममतायाः च सम्मोहः समुद्भवति । यथा – कामनायाः यः सम्मोहः जायते, सः विवेकशक्तिं नाशयति । क्रोधात् यः सम्मोहः समुद्भवति सः वर्तनव्यवहारं नाशयति । लोभात् समुद्भूतः सम्मोहः सत्यासत्ययोः, धर्माधर्मयोः विचारं नाशयति । ममतायाः समुद्भूतात् सम्मोहात् पक्षपातः जायते ।

यदि काम-क्रोध-लोभ-ममताभ्यः सम्मोहः जायते, तर्हि भगवता किमर्थं केवलं क्रोधस्य एव उल्लेखः सम्मोहोद्भवस्य कारणत्वेन कृतः । यदि सर्वेषां कामादीनाम् अध्ययनं क्रियते, तर्हि ज्ञायते यत्, सर्वेषु स्वसुखोपभोगस्य, स्वार्थवृत्तेः च प्रबलता भवति । अतः क्रोधात् यः सम्मोहः सञ्जायते सः काम-लोभ-ममतादिभ्यः समुद्भूतात् सम्मोहात् भयङ्करः भवति । अतः अत्र भगवता केवलं क्रोधस्यैव सम्मोहोद्भवकारणत्वेन उल्लेखः कृतः ।

'सम्मोहात्स्मृतिविभ्रमः' – मूढतायाः कारणेन स्मृतिनाशः भवति । अर्थात् शास्त्रेषूक्ताः आदेशाः, सद्विचारैः उद्भूताः सङ्कल्पाः च स्मृतिविभ्रमत्वात् विस्मृताः भवन्ति । यथा – शास्त्रेषूक्तम् अस्ति यत्, भोजनान्ते विषं वारि इति । सद्विचारैः ज्ञातं यत्, नित्यं प्रातःकाले व्यायामः कर्तव्यः इति । परन्तु स्मृतिविभ्रमात् एतादृशानि सत्कार्याणि विस्मृतानि भवन्ति ।

'स्मृतिभ्रंशाद्बुद्धिनाशो' – स्मृतिनष्टे सति बुद्धौ स्थितः विवेकः अपि लुप्तः भवति अर्थात् मनुष्ये नवीनानां विचाराणां चिन्तनाय शक्तिरेव न भवति ।

'बुद्धिनाशात्प्रणश्यति' – विवेकलुप्ते सति मनुष्यः पतितः भवति । तस्मात् पतनात् रक्षणाय सर्वैः साधकैः भगवत्पराणैः अनिवार्यतया भवितव्यम् ।

अग्रिमश्लोके, अस्मिन् श्लोके च विषयचिन्तनमात्रेण क्रमेण रागः, कामना, क्रोधः, सम्मोहः, स्मृतिनाशः, बुद्धिनाशः पतनक्रमः भगवता उपस्थापितः । तस्य पतनक्रमस्य विवेचने कदाचित् दीर्घकालः भवति, परन्तु मनुष्यस्य पतनक्रियायाः काले सः क्रमः अतीव शीघ्रं चक्रं पूर्णं करोति ।

शाङ्करभाष्यम् []

सम्पादयतु

क्रोधादिति -

क्रोधात् भवति संमोहः  अविवेकः कार्याकार्यविषयः। क्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशति।  संमोहात् स्मृतिविभ्रमः  शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः। ततः  स्मृतिभ्रंशात् बुद्धिनाशः  बुद्धेर्नाशः। कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते।  बुद्धिनाशात् प्रणश्यति।  तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम्। तदयोग्यत्वे नष्ट एव पुरुषो भवति। अतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः।।

भाष्यार्थः

सम्पादयतु

क्रोधात् सम्मोहः अर्थात् कर्तव्याकर्तव्यविषयकस्य अविवेकस्य उद्भवः । यतः क्रोधी मनुष्यः मोहितः सन् गुरुं (ज्येष्ठानां) प्रति अपि अपशब्दानाम् उपयोगं करोति । मोहात् स्मृतेः विभ्रमो जायते अर्थात् शास्त्रैः, आचार्यैः च येभ्यः उपदिष्टेभ्यः संस्कारेभ्यः स्मृतिः उद्भवति स्म, तेषां संस्काराणाम् अनुगुणं कार्यं कर्तुम् अवसरे प्राप्ते सत्यपि उपदेशानुगुणं कार्यं न भवति ।

एवं स्मृतिविभ्रमे सति बुद्धिनाशो जायते । अन्तःकरणे कार्याकार्ययोः विवेचनयोग्यतायाः नाशः एव बुद्धिनाशः उच्यते । बुद्धिनाशत्वात् मनुष्यः नष्टो भवति । यतो हि सः तावत्पर्यन्तं मनुष्यः अस्ति, यावत्पर्यन्तं तस्य अन्तःकरणं कार्याकार्ययोः विवेचने समर्थम् अस्ति । कार्याकार्ययोः विवेचनायाम् असमर्थः मनुष्यः नष्टप्रायः भवति । अर्थात् तस्मिन् मनुष्यतायाः हीनता भवति इति । एवं मनुष्यस्य अन्तःकरणस्य विवेकशक्तिरूपिण्याः बुद्धेः नाशे पुरुषः नष्टो भवति । अर्थात् सः पुरुषार्थेभ्यः अयोग्यः सिद्ध्यति ।

रामानुजभाष्यम् []

सम्पादयतु

क्रोधाद् भवति संमोहः।  संमोहः कृत्याकृत्यविवेकशून्यता तया सर्वं करोति। ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति।  स्मृतिभ्रंशाद् बुद्धिनाशः  आत्मज्ञाने यो व्यवसायः कृतः तस्य नाशः स्यात्।  बुद्धिनाशाद्  पुनरपि संसारे निमग्नो नष्टो भवति।

भाष्यार्थः

सम्पादयतु

क्रोधात् सम्मोहः भवति । कर्तव्याकर्तव्ययोः अविवेकः सम्मोहः इति । तेन सम्मोहेन वशीभूतः मनुष्यः सर्वं करोति । तेन इन्द्रियजयादिभ्यः प्रारब्धस्य प्रयत्नस्य स्मृतिः नश्यति । स्मृतिनाशे सति बुद्धिः नश्यति । अर्थाद् आत्मज्ञानस्य प्राप्त्यै यः निश्चयः कृतः आसीत्, तस्य नाशः भवति इति । एवं बुद्धिनाशे सति सः पुनः संसारसागरे निमग्नो भूत्वा नश्यति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
ध्यायतो विषयान्पुंसः...
क्रोधाद्भवति सम्मोहः... अग्रिमः
रागद्वेषवियुक्तैस्तु...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. સાધકસંજીવની, ગીતાપ્રેસ
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय

सम्पादयतु