"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्र्ययोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामिकां क्षीरोत्पन्नसम्बद्धां सहकारसंस्थाम् आरब्धवान् । खैरामण्डलस्य क्षीरोत्पादकानां कूटस्य संस्थापनम् अपि एतस्य महोदयस्य मुख्ययोगदानमासीत् । समूदायनायकत्वकार्यार्थम् एषः अन्ताराष्ट्रियेण [[रमोन् मैग्सेसे-पुरस्कारः|रमोन् मैग्सेसे-पुरस्कारेण]] सम्मानितः ।
 
१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामः तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभुवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धि]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शव्यक्तिः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभुवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।
पङ्क्तिः ९:
* त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमानि पुस्तकानि पत्रिकाश्च मुद्रितवान् ।
* खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता । एषः कूटः १९४७तमे वर्षे [[सरदार् वल्लभभायी पटेलः|वल्लभभायिपटेलस्य]] [[मोरारजी देसायी|मोरार्जीदेसायिवर्यस्य]] मार्गदर्शने संस्थापितः । त्रिभुवनदासवर्यः एतस्य कूटस्य प्रथमाध्यक्षः आसीत् ।
* १९६३तमे वर्षे त्रिभुवनदासवर्यः [[रमोन् मैग्सेसे-पुरस्कारः|रमोन्मेग्सेसे]]प्रशस्तिभाक् सञ्जातः ।
* एतान् अतुरिच्य,
 
# खैराजिल्ला कृषि-उत्पन्नविक्रयण-समिति
# लोकबधु-सहकारीप्रकाशन, निधियाड्
# खैराजिल्ला-भूसम्बधित-सहकारीवित्तकोशः
# आनन्द्-बोर्साद्- श्रमजीवी-सहकारिसङ्घः
# गुजरातराज्यसहकारी-मार्केटिङ्ग्-सोसैटि
# खैराजिल्ला-सेन्ट्रल्-कोआपरेटिव् वित्तकोशः इत्यादिषु संस्थासु त्रिभुवनदासवर्यः विविधदायित्वानि निरूढवान्
 
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्