"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' अन्यतमः अस्ति ।
एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम्
==सारः==
अस्य सिद्धान्तस्य सारः (प्रमेयसारः) एकस्मिन् श्लोके निरूपितम् अस्ति । तद्यथा,<br>
:'''श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो'''
::'''भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावङ्गताः ।'''
:'''मुक्तिः नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम्,'''
::'''ह्यक्षादि त्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥'''
*श्रीमन्नारयणः सर्वोत्तमः ।
*जगतः पारमार्थिकसत्यत्वम् अङ्गीक्रियते।
*जीवब्रह्मणोः भेदः ।
*जीवाः नारायणस्य दासाः।
*जीवषु परस्परतारतम्यता ।
*जीवात्मनः स्वरूपानन्दप्राप्तिः एव मुक्तिः ।
*निर्मलभक्तिः एव मुक्तेः मुख्यः उपायः ।
*प्रत्यक्षम्, अनुमानम्, अगमं प्रमाणानि ।
*नारायणः केवलवेदगम्यः ।
==प्रमाणम्==
अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।
|