"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''गडचिरोली मण्डलम्''' (Gadchiroli district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] नगरम् ।
गडचिरोलीमण्डलं [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] निबिडारण्येन व्यापृतं, आदिवासिबहुसङ्ख्यमण्डलम् अस्ति । वंशवृक्षाणां तथा च 'तेंदू' पर्णानां कृते इदं प्रसिद्धम् । इदानींतनकाले नक्षलवादप्रभावितक्षेत्रे एतस्य मण्डलस्य गणनां भवति ।
 
पङ्क्तिः ७२:
==भौगोलिकम्==
 
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[छत्तीसगढराज्यम्]], पश्चिमे [[ चन्द्रपुरमण्डलम्]], उत्तरे [[गोन्दियामण्डलम्]], दक्षिणे [[ आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलस्य स्थानं महाराष्ट्रराज्यस्य उत्तर-पूर्वभागे अस्ति । मण्डलेस्मिन् ७६% क्षेत्रं अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन्अस्य मण्डलस्य मुख्यनदी [[गोदावरी नदी]] ।
मण्डलेस्मिन् सामान्यत: आर्द्रतामानं ६२ % अस्ति ।
 
== इतिहास: ==
 
गडचिरोली मण्डलस्य निर्मिति: २६ औगस्ट् १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं प्रथमतया [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डले]] एव समाविष्टम् आसीत् ।
प्राचीनकाले अत्र [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]] राज्यम् आसीत् । अनन्तरं [[चालुक्यवंशः|चालुक्य]], देवगिरीप्रन्तस्य यादवा: एतेषां साम्राज्यम् आसीत् । तदनन्तरं 'गोंड' राजानां सत्ता आसीत् । १३ तमे शतके खण्डक्या-बल्लाळ-शाह एतेन [[चन्द्रपूरमण्डलम्|चन्द्रपूरमण्डलस्य]] स्थापना कृता । तत्र एतत् मण्डलं समाविष्टम् आसीत् । [[मराठासाम्राज्यम्|मराठीसत्ताधीशानाम्]] अपि आधिपत्यम् आसीत् । गडचिरोली तथा च सिरोंचा इत्येव प्रमुखमण्डलरूपेण आस्ताम् । उपमण्डलरूपेण १९०५ त: एतत्मण्डलस्य कार्यं प्रारब्धवान्प्रारब्धम् । १९६० पर्यन्तं मण्डलं केन्द्रियप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यनिर्मित्यानन्तरं]] इदं महाराष्ट्रे समाविष्टं जातम् ।
 
== जनसङ्ख्या ==
 
२०११ जनगणनानुगुणं गडचिरोलीमण्डलस्य जनसङ्ख्या १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषा: ५,३१,६१४ महिला: । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरतासाक्षरताप्रमाणं ७४।३६७४.३६% अस्ति
गडचिरोली मण्डले [[आदिवासिनः|आदिवासिजनानां]] लोकसङ्ख्या ४,१५,३०६ नाम ३८.१७ प्रतिशतम् एवम् बृहती अस्ति ।
 
Line ८७ ⟶ ८८:
 
प्रशासकीय कारणेन अस्य मण्डलस्य षड्विभागा: कृता: । प्रत्येक्स्मिन् विभागे उपमण्डलद्वयम् समाविष्टे ।
तानि षड्विभगा:- गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा । मण्डले ४६७ ग्रामप्रशासनानि सन्ति । अस्मिन् त्रीणि विधानसभाक्षेत्राणि,एकं [[लोकसभा|लोकसभाक्षेत्रम्]] च अस्ति । मण्डले नगरद्वयं - गडचिरोली, देसाईगंज तत्र नगरपालिके स्त: ।
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
 
Line ११५ ⟶ ११६:
 
== प्राकृतिकविशेषा: ==
 
* '[[गोदावरीनदी|गोदावरी]]' नदी पश्चिमाभिमुखा प्रवहति । [[गोदावरीनदी|गोदावरीनद्या:]] दक्षिणपार्श्वे इदम् मण्डलम्, नाम मण्डलस्य सीमावर्तीभागे [[गोदावरीनदी|गोदावरीनदी]] प्रवहति । अस्या: उपनद्यौ - 'वैनगङगा [[वर्धामण्डलम्|वर्धा]]' च । तथा च 'दीना' नदी अपि तत्रैव ।
* पूर्वेतर भागे वनव्यापृतभूभाग: अस्ति । धानोरा, एटापल्ली, अहेरी, सिरोंचा एतानि उपमण्डलानि वनै: व्यापृतानि सन्ति ।
Line १२६ ⟶ १२८:
 
[[आदिवासिनः|आदिवासिस्थाने]] तेषां भाषा तथा च [[मराठीभाषा|मराठी]]; उपमण्डलस्य स्थानम् अनुसृत्य बङ्गाली, तेलगु, [[हिन्दीभाषा|हिन्दी]], धामी, छत्तिसगढी, [[कन्नडभाषा|कन्नड]] एता: भाषा: प्रचलन्ति ।
 
==सामाजिककार्याणि ==
 
१ सर्च-शोधग्राम
चातगाव, गडचिरोली-डॉ. अभय: बंग, डॉ. राणी बंग कार्यरतौ ।
एषा संस्था सामाजिक-ग्रामीण-आरोग्यक्षेत्रे आदिवासीनां कल्याणार्थं कर्यरता ।
 
2 लोक बिरादरी प्रकल्प,
हेमलकसा ,उपमण्डलं-भामरागड-डॉ. प्रकाश आमटे
वैद्यकीय-शैक्षणिक-सामाजिकक्षेत्रे कर्यरता संस्था ।
 
3 आम्ही आमच्या आरोग्यासाठी,
कुरखेडा -डॉ. सतीश गोगुलवार
सामाजिक-वैद्यकीय सहाय्यार्थं एषा कर्यरता ।
 
4 लोक मंगल संस्था
घोट उपमण्डलं-चामोर्शी-डॉ. टी. वाल्केल
सामाजिकक्षेत्रे
 
== वीक्षणीयस्थलानि ==
* मार्कण्ड्देवस्थान- शिवमन्दिराणां समूह: । पुरातत्वीय दृष्ट्या महत्त्वपूर्णस्थानम् ।
* वैरागडदुर्ग:- गोण्डवंशीय विराट राज्ञा एष: दुर्ग: निर्मापित: । ऐतिहसिक दृष्ट्या महत्त्वपूर्णपरिसर: ।
* भामरागड अभयारण्यम् ।
* चाप्राला अभयारण्यम् ।
* कोलमर्क अभयारण्यम् ।
तथा च उपरि लिखितानां सामाजिकसंस्थानां कार्यम् अपि प्रेक्षणीयम् ।
 
== मार्गा: ==
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्