"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
===प्रयोजनम्===
'''यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्''' <ref> न्यायसूत्रम्, गौतमः, १-१-२४ </ref> इति सूत्रम् । यदुद्दिश्य यस्मिन् कार्ये मनुष्यः प्रवृत्तो भवति तत् प्रयोजनमिति भण्यते । प्रयोजनं द्विधा विभज्यते दृष्टमदृष्टं चेति
*दृष्टफलम् - अवधातात् तुषविमोकः ।
*अदृष्टफलम् - स्वर्गफलमदृष्टमिति व्यवहारः ।
 
===दृष्टान्तः===
'''लौकिकपरोक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः''' <ref>न्यायसूत्रम्, गौतमः, १-१-२५ </ref> इति सूत्रम् । व्याप्तिज्ञापनस्थलं दृष्टान्तः इति व्यवहारः । यत्र यत्र धूमः तत्र तत्र वन्हिः इति व्याप्तिः । अस्य उदाहरणत्वेन महानसः व्याप्तिज्ञापनत्वेन स्वीक्रियते । अतः महानसं व्याप्तिज्ञापनस्थलं भवति । स च महानसः दृष्टान्तः भवति । दृष्टान्तः द्विविधः साधर्म्यवैधर्म्यरूपेण ।
*धूमेनाग्निसाधने यः महानसदृष्टान्तः भवति सः साधर्म्यभूतः, अस्यैवानुमानस्य जलम् सरोवरः वैधर्म्यदृष्टान्तः इति ।
 
===सिद्धान्तः===
'''तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः'''<ref> न्यायसूत्रम्, गौतमः, १-१-२६ </ref> इति सूत्रम् । यः पार्थः प्रमाणेन सिद्धौ भवति सः सिद्धान्तः । सिद्धान्तः चतुर्विधः सर्वतन्त्रः, प्रतितन्त्रः, अभ्युपगमः, अधिकरणसिद्धान्तश्चेति । उदाहरणम् - पञ्च ज्ञानेन्द्रियाणि सन्ति । इमानि सकलशास्त्रकारैः अभ्युपगतत्वात् नास्त्यत्र विरोधः ।
 
===अवयवः===
'''प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः '''<ref>न्यायसूत्रम्, गौतमः, १-१-३२</ref> इति सूत्रम् । परार्थानुमानान्तर्गतावयवानामन्यतमस्य अवयवः इति कथनम् । परार्थानुमाने पञ्चावयवाक्यानि सन्ति । तानि यथा प्रतिज्ञातहेतूदाहरणोपनयनिगमनानि इति ।
 
===तर्कः===
'''अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः''' <ref>न्यायसूत्रम्, गौतमः, १-१-४० </ref> इति सूत्रम् । व्याप्यारोपेण व्यापकारोपकस्तर्कः इति तर्कस्य लक्षणम् । यथा धूमः अग्निव्याप्यः एवम् अग्निः धूमव्यापकः।
 
===निर्णयः===
'''विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः''' <ref>न्यायसूत्रम्,गौतमः, १-१-४१ </ref> इति सूत्रम् । तर्कविषये खण्डनमण्डनात्मकद्वारा यस्य समीचीनार्थस्य निश्चयः भवति सः निर्णयः इति अभ्युपगम्यते । अयं चतुर्विधः साक्षात्कृतिः, अनुमितिः, उपमितिः, शब्दः इति ।
 
===वादः===
'''प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः''' <ref>न्यायसूत्रम्, गौतमः, १-२-१ </ref> इति सूत्रम् । यः तर्केण अथवा प्रमाणद्वारा स्वपक्षसाधनमेव परपक्षखण्डनं यस्यां शास्त्रचर्चायामुपयुज्यते, किञ्च स्वीकृतः सिद्धान्तः अविरुद्धः एव उपनयादि पञ्चावयवैः वाक्यैः उत्पन्नश्च भविष्यति सः वादः ।
 
===जल्पः===
'''यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः''' <ref>न्यायसूत्रम्, गौतमः, १-२-२</ref> इति सूत्रम् । परपक्षखण्डनेन स्वपक्षसिध्यनन्तरमपि छलजातिनिग्रहस्थानानां प्रयोगः यत्र कृतो भवति सः जल्प इति भण्यते ।
 
===वितण्डा===
'''स प्रतिपक्षस्थापनाहीनो वितण्डा'''<ref>न्यायसूत्रन्, गौतमः, १-२-३</ref> इति सूत्रम् । वचनात् पूर्वोक्तः यः जल्पः यदा स्वपक्षस्थापनाहीनो भवति स एव वितण्डावादः इति । स्वपक्षस्थापनं न करोति अपितु केवलं परपक्षखण्डने एवास्य मुख्या प्रवृत्तिः ।
 
===हेत्वाभासः===
हेतुवत् भासन्ते इति हेत्वाभासः उत हेतोरेवाभासः हेत्वाभासः इति । यत्र साध्यस्य साधकत्वेन हेतुः न भवति अथापि सः हेतुः हेतुवत् भासते इति अयं हेत्वाभासः इत्युच्यते । हेत्वाभासः पञ्चविधः सव्यभिचारः, विरुद्धः, प्रकरणसमः, साध्यसमः, कालातीतः, इति ।
 
===छलम्===
'''वचनविघातोऽर्थविकल्पोपपत्त्या छलम्''' <ref>न्यायसूत्रम्,गौतमः, १-२-१० </ref> इति सूत्रम् । छलमेतत् त्रिविधं<ref>"तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च" -न्यायसूत्रम्, गौतमः, १-२-११ </ref> वाक्छलम्, सामान्यछलम्, उपचारछलम् इति ।
 
===जातिः===
'''साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः''' <ref>न्यायसूत्रम्, गौतमः, १-२-१८</ref> इति सूत्रम् । साधर्म्यवैधर्म्याभ्यां यस्य साध्यस्य अनुपपत्तिः सा जातिरित्युच्यते । जातिः चतुर्विंशतिप्रकारात्मिका भवति । यथा-साधर्म्यसमः, वैधर्म्यसमः, उत्कर्षसमः, अपकर्षसमः, वर्ण्यसमः, अवर्ण्यसमः, साध्यसमः, विकल्पसमः, प्राप्तिसमः, अप्राप्तिसमः, प्रसङ्गसमः, प्रतिदृष्टान्तसमः, अनुपपत्तिसमः, संशयसमः, प्रकरणसमः, हेतुसमः, अर्थापत्तिसमः, अविशेषसमः, उपपत्तिसमः, उपलब्धिसमः, अनुपलब्धिसमः, नित्यसमः, अनित्यसमः, तथा कार्यसमः इति ।
 
===निग्रहस्थानम्===
'''विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्''' <ref>न्यायसूत्रम्, गौतमः, १-२-१९</ref> इति सूत्रम् । निग्रहस्थानं खलु पराजयप्राप्तिः । वादि अथवा प्रतिवादी यस्मिन् स्थाने येन प्रतिपादनेन स्वपक्षपराजितत्वं मन्यते तत्स्थानं निग्रहस्थानं इति कथ्यते । निग्रहस्थानं द्वाविंशतिभेदेन उपन्यस्तं भवति न्यायशास्त्रे । तानि भवन्ति- प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासः इति ।
 
==विषयाः==
==='''प्रत्यक्षप्रमाणम्'''===
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्