"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८९:
भारतीयस्वातंत्र्यसंग्रामे महाराष्ट्रराज्यस्य [[मुम्बई|मुम्बईनगर्याः]] च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन [[महात्मा गान्धिः|महात्मागान्धीमहोदयेन]] एकसहस्र-नवशतद्विचत्वारिंशत्तमे(१९२४) ख्रिस्ताब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्र:अपि देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत् । यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः , भारतरत्नं डॉ. [[बि.आर्.अम्बेड्करः|आम्बेडकरमहोदयसदृशा:]] अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवन्तः । लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति । शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृति:राज्येनानेन प्रगतिपथे एव पदं कृतम् ।
 
=== [[संयुक्तमहाराष्ट्रान्दोलनम्]] ===
=== [[संयुक्त-महाराष्ट्र-आन्दोलनम्]] ===
 
महाराष्ट्रराज्यनिर्मिति इत्यपि इतिहास दृष्ट्या अतीव महत्त्वपूर्णविषय: । [[संयुक्त-महाराष्ट्र-आन्दोलनम्]] इति अद्यतनीय महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त: १९६० पर्यन्तं आन्दोलनं प्रचलन् आसीत् । अद्यतनीय पश्चिम-महाराष्ट्रविभाग: १९५० तमे 'मुम्बईराज्ये' समाविष्ट: आसीत् । मराठवाडा-विभागस्य ५ उपमण्डलानि तदा हैद्राबाद-संस्थाने, विदर्भ-विभागस्य ८ मण्डलानि तदा मध्यप्रान्ते समाविष्टानि आसन् । तदानींतन केन्द्रप्रशासनेन-कौङ्ग्रेस-पक्षेण 'भाषानिहाय प्रान्तरचना' इति तु स्वीकृतं परन्तु तम् अधिकृत्य विभाजनं न कृतम् । तर्हि १० वर्षेभ्य: यावत् एतत् आन्दोलनं प्रचलन् आसीत् । बहु यत्नानन्तरं, जीवितहाने: अनन्तरं १ मे १९६० दिने महाराष्ट्रराज्यस्य निर्मिति: जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:, कर्मकरजना:, कृषका:, विचारवन्त: जना: भागं गृहीतवन्त: । नाम इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
महाराष्ट्रराज्यस्थापना ऐतिहासिक: महत्वपूर्णविषय: । [[संयुक्तमहाराष्ट्रान्दोलनम्|संयुक्तमहाराष्ट्रान्दोलनं]] महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त: १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभाग: 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि [[हैदराबाद्]]संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णय: १९५० तमे वर्षे एव कृत:, तथापि भाषानुसारं विभाजनं न जातमत्र । अत: १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:, कर्मकरजना:, कृषका:, विचारवन्त: जना: भागं गृहीतवन्त: । नाम इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।
 
== भूगोलम् ==
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति ।
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्