"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४९:
 
==मोक्षः==
जीवाः प्रकृतिसम्बन्धेन मुक्ताः, पुनर्जन्मरहिताश्च भूत्वा भगवन्तं प्राप्य आनन्दानुभवम् एव मोक्षः । अनेन दर्शनेन अनुसारं देशविशेषप्राप्तिपूर्वकं मुक्तिः लभ्यते । जीवन्मुक्तिम् अस्मिन् सिद्धान्ते नाङ्गीकुर्वन्ति । मुक्ते पुरुषे अपहतपाप्मत्वादि अष्टगुणाः आविर्भवन्ति । तदा सः सहजज्ञानस्वरूपे स्थितः भवति इति प्रतिपादयन्ति । भगवतः समानगुणकत्वप्राप्तिः सायुज्यम् । अस्मिन् दर्शने ऐक्यं नास्ति । जीवाः यावदात्मभावित्वेन देवं सेवयन्ति । मुक्तस्य निरूपणे सायुज्य-सार्ष्टितायोः पदयोः श्रुतिः प्रतिपादयति । आनन्दानुभवे जीवाः देवाः च समानतया भागं वहन्ति इति सायुज्यपदं सूचयति । जीवदेवयोः आनन्दानुभवे तारतम्यभावः नास्ति इति सार्ष्टिता इति पदं सूचयति ।
 
==प्रसिद्धाः आचार्याः==
===बोधायनः===
बोधायनः बादरायणस्य ब्रह्मसूत्राणां वृत्तिं रचितवान् अस्ति । अनया एव वृत्याधारेण रामानुजाचार्यः भाष्यं रचितवान् । एनं विषयं श्रीभाष्ये रामानुजाचार्यः उल्लेखितवान् अस्ति । '''भगवद्भोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिम्''' इति । एषः उपवर्षः च एकव्यक्तिः इति केचन इतिहासकाराणाम् अभिप्रायः । अस्य कालादीनां विषये कुत्रापि उल्लेखाः न प्राप्ताः । एषा वृत्तिः अद्यत्वे नोपलभ्यते ।
 
===टङ्काचार्यः===
अस्मिन् सम्प्रदाये टङ्काचार्यस्य एव ’वाक्यकारः’ इति प्रसिद्धिः अस्ति । टङ्काचार्यः ब्रह्मनन्दिः च भिन्नौ इत्यत्र मतभेदाः सन्ति । ’कल्पतरुः’ नामके ग्रन्थे ब्रह्मनन्दिः अद्वैतं पुरस्कृतवान् अतः उभौ अपि भिन्नौ इति । अस्य नाम यमुनाचार्यः उल्लेखितवान् अस्ति । एषः छान्दोग्योपनिषदः भाष्यं रचितवान् आसीत् इति प्रथा अस्ति । अस्य कालादि विषये उल्लेखाः नसन्ति ।
 
===नाथमुनिः===
 
 
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्