"गौतमः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
==गौतमस्य कृतिः==
गौतमस्य सुप्रसिद्धं न्यायदर्शनस्य आधारभूतः ग्रन्थः ’न्यायसूत्रम्’ भवति । गौतमनाम्ना महर्षिना न्यायशास्त्रं विना ग्रन्थान्तरम् एतावत्पर्यन्तं नोपलभ्यते । अतः एव एकैव कृतिः प्रथितः अस्ति । इत्ययं विषयः महामहोपाद्याय उमेशमिश्रमहोदयैः ’हिस्टोरि आफ् इण्डियन् फिलोसफि’ (History of Indian Philosophy) नामके ग्रन्थे प्रतिपादितः ।<br>
*न्यायसूत्राणि
 
न्यायदर्शनग्रन्थे सूत्रार्थे पञ्चाध्यायाः, प्रत्यध्याये आह्निकद्वयं च सन्ति । सूत्रसंख्यायां सर्वेषां विदुषां भिन्नभिन्नाभिप्रायः सन्ति । वाचस्पतिमिश्रकृतन्यायसूचितनिबन्धानुसारं न्यायदर्शने ८४ प्रकरणानि, ५२८ सूत्राणि च सन्ति । तत्र प्रथमाध्याये प्रथमान्हिके अभिधेयप्रयोजनसंबन्धाः प्रमाणलक्षणानि, प्रमेयन्यायपूर्वाङ्गलक्षणानि, न्यायाश्रयसिद्धान्तलक्षणानि, प्रतिज्ञादि न्यायावयवस्वरूपाणि, न्यायोत्तराङ्गलक्षणम् इत्यादयः निरूपिताः । द्वितीयान्हिके तु वाद-जल्प-वितण्ड-कथायाः, पञ्चविधहेत्वाभासानाम्, त्रयाणां छलानाम्, पुरुषशक्तिलिङ्गदोषसामान्यलक्षणं च (इत्यादयः) विषयाः निरूपिताः । द्वितीये अध्याये प्रथमे आह्निके संशयपरीक्षणम्, प्रमाणसामान्यपरीक्षणम्, प्रत्यक्षपरीक्षणम्, प्रासङ्गिकी अवयविनिरूपणम्, अनुमानपरीक्षणम्, उपमानशब्दपरीक्षणञ्च प्रतिपादितम् । द्वितीयाह्निके प्रमाणपरीक्षणम्, शब्दानित्यत्वपरीक्षणञ्च कृतम् । तृतीयाध्याये प्रथमाह्निके इन्द्रिय-शरीर-मन-अतिरिक्तः आत्मा इति च निरूप्य । तदनु आत्मनः नित्यत्वं प्रसाद्य शरीरनिरूपणम्, इन्द्रियनानात्वं निरूपितम् । तृतीयाध्याये द्वितीये आह्निके बुद्धेः अनित्यत्वम्, क्षणभङ्गः, बुद्धेः आत्मगुणत्वम्, बुद्धेः शरीरगुणव्यतिरेकनिरूपणम्, मनो निरूपणम्, शरीरस्य अदृष्टनिष्पाद्यत्वनिरूपणञ्च इत्यादयः विषयाः निरूपिताः ।
 
 
{{सप्तर्षयः}}
"https://sa.wikipedia.org/wiki/गौतमः" इत्यस्माद् प्रतिप्राप्तम्