"मुष्टिकाताडनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{prettyurl|Boxing}}
'''मुष्टिकाताडनक्रीडा'''(Boxing) प्रतिघातक्रीडा(Combat)प्रतिघातक्रीडासु वर्ततेअन्यतमा
:::'''मुष्टिका-ताडनादात्मरक्षाविधौ'''
:::'''मानवो दीर्घकालादभूत संयतः ।'''
:::'''विश्वकौटुम्बिकं जीवनं जीवयन्'''
:::'''सोऽधुना क्रीडया स्वं यशो वर्धते ॥'''
 
विश्वस्य सर्वासु प्राचीनासु क्रीडाप्रतियोगितासु '''मुष्टिकाताडनक्रीडा''' प्राचीनतमा विद्यते । यदा प्रभृति मानवः संसारे समागतस्तत एव स पशुभिरन्यैः शत्रुभिः सह युदध्वाऽऽत्मानमरक्षत । ईसातः ४००० वर्षेभ्यः पूर्वं मिस्त्र्देशस्य सैनिका मुष्टिकायुद्धे निपुणा आसन्निति ततः प्राप्तेभ्यः प्राचीनेभ्यश्चित्रेभ्यो ज्ञायते मिस्रदेशीया इमां कलां यूनानतो ज्ञातवन्तः । पुरा तत्र विधीयमानासु प्रतियोगितासु मुष्टिका-प्रयोक्तारो हस्तयोर्यौ प्रच्छदौ (ग्लब्सदस्ताने) धारयतस्तयोः सुतीक्षणाः क्रीलिका जटिता भवन्ति स्म ।
Line ११ ⟶ ७:
 
जयपराजययोर्निर्णायः पूर्वं श्रान्तिक्लान्तिभ्यामथवा भूमौ क्रीडकस्य निपातनाद भवति स्म । साम्प्रतं मुष्टिकमल्लानां वर्गीकरणं मल्लानामिवैव दशधा क्रियते । तथा सर्वाश्रेष्ठं प्रदर्शनस्तरं प्रक्रियाधारेण च प्राप्ताङ्कानां वैशिष्टय परीक्ष्य जयनिर्णयो भवति । विश्चक्रीडोत्सवेषु मुष्टिकाताडानक्रीडायां प्रथमस्थानं लब्धवता '''ओनोमास्तस'''नाम्ना क्रीडकेन सर्वप्रथमं नियमा रचिताः । तेषासनुदारतयाऽनेकेषां क्रीडकानां मृत्युरप्यभवत्, अतो यीशोर्जन्मनः ३९४ वर्षानन्तरं रोमन सम्राट् थियोदोसियस् ईदृशीं प्रतियोगितां न्यषेधीत् । परं भूयोऽपि कतिचिद् वर्षानन्तरमस्याः प्रचारोऽभूत् विश्वक्रीडाप्रतियोगितासु चास्या नियमा निर्धारितास्तथा क्रीडजगति समावेशेन क्रीडयाऽनया लोकप्रियता प्राप्ता ।
 
==मुष्टिकाताडनक्रीडा सम्बद्धश्लोकः==
:::'''मुष्टिका-ताडनादात्मरक्षाविधौ'''
:::'''मानवो दीर्घकालादभूत संयतः ।'''
:::'''विश्वकौटुम्बिकं जीवनं जीवयन्'''
:::'''सोऽधुना क्रीडया स्वं यशो वर्धते ॥'''
 
 
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/मुष्टिकाताडनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्