"शिक्षा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
'''ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ॥'''

'''शिक्षा''' उक्तेषु षड् वेदाङ्गेषु अन्यतमः । '''शिक्षा''' इत्यस्य पदस्य अभ्यसनम् इत्यर्थः । अक्षराणां स्थानप्रयत्नोच्चारणान्यधिकृत्य शिक्षायां प्रतिपाद्यते । "शिक्षन्ते=वेदनया उपदिश्यन्ते स्वरवर्णादयो यत्रासौ शिक्षा" इति सायणाचार्याः शिक्षां निब्रुवते । येन शास्त्रेण वेदमन्त्राणां शुद्धोच्चारणे सारल्यं साहाय्यं च भवति तच्छास्त्रं शिक्षेति कथ्यते । अर्थात्, स्वरवर्णादीनाम् उच्चारणनियमबोधयित्री विद्या शिक्षेत्यभिधीयते । वेदेषु सर्वत्र स्वरप्राधान्यं भवत्येव, स्वरभेदेनार्थभेद-सम्भवात् । इदं स्वरज्ञानं शिक्षाधीनं भवति । अत एव शिक्षाशास्त्रस्य वेदाङ्गता सुतराम् उपपद्यते, यतः अशुद्धोच्चारणेन महाननर्थः भवति । यथोक्तं पाणिनीयशिक्षायाम्,

'''मन्त्रो हीनः स्वरतो वर्णतो वा,'''

:'''मिथ्या प्रयुक्तो न तमर्थमाह ।'''

'''स वाग्वज्रो यजमानं हिनस्ति,'''

:'''यथेन्द्रशत्रुः स्वतोपराधात् ॥'''

बहुश्रुतमस्ति आख्यायिकेयं यत् विश्वरूपनामके त्वष्टुः पुत्रे इन्द्रेणाहते सति रुष्टस्त्वष्टा इन्द्रस्य हन्तारं पुत्रम् उत्पादयिषुः आभिचारिकं यागं कृतवान् । तत्र ’इन्द्रशत्रुर्वर्धस्व’ इति मन्त्रः ऊहितः, तत्र तत्पुरुषप्रयुक्तान्तोदात्तत्वे कर्तव्ये बहुब्रीहिप्रयुक्तः आद्युदातः, ऋत्विजा प्रयुक्तः । इत्यर्थान्तराभिधानाद् इन्द्रेण सोऽपि हतः । अतः मन्त्रेषु स्वरदोषः वर्णदोषः वा कथमपि न भवेदिति उपस्थापयन् महर्षिः पाणिनिः आह , मन्त्रः इति । स्वरतः स्वरेण, वर्णतः वर्णेन अक्षरेण वा हीनः, रहितः मन्त्रः मिथ्याप्रयुक्तः सन् तम् अभीप्सितम् अर्थं न आह । स मन्त्रो वाग्वज्रं भूत्वा यजमानं हिनस्ति घातयति । अनिष्टावाप्तिं करोतीति । यथा स्वरस्य अपराधात् ’इन्द्रशत्रुः’ इन्द्रशत्रुशब्दः यजमानं हिनस्ति हिंसितवान् इत्यर्थः । ननु स्वरादीनां सम्यगुच्चारणाभावे ऋत्विजां दोषः इति ऋत्विगादि कृतहोमाद्यजमाने धर्मोत्पत्तिरिव तत्कृतापशब्दप्रयोगाद् यजमाने प्रत्यवायोत्पत्तिरिति स्वीकारात् । शिक्षा नाम यया मन्त्राणां पदवर्णमात्रास्वरादिज्ञानं वर्णोच्चारणविधिपरिज्ञानपूर्वकस्थानादिपरिचयश्च भवति । तदाहु ऋग्वेदभाष्यभूमिकायाम् सायणाचार्याः,

"शिक्षां व्याख्यास्यामः । वर्णः स्वरः मात्रा बलं साम । सन्तान इत्युक्तः शिक्षाध्यायः "इति॥<ref>तैत्तरीय उपनिषत्</ref>वर्णोऽकारादिः । स च अङ्गभूतशिक्षाग्रन्थे स्पष्टमुदीरितः "त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भावतो मताः । प्राकृते संस्कृते च अपि स्वयं प्रोक्ताः स्वयम्भुवेत्यादिना । स्वर उदात्तादिः, सोऽपि तत्रोक्तः "उदात्तश्चाऽनुदात्तश्च स्वरितश्च स्वरास्त्रयः" इति । मात्रा ह्रस्वादिः, सापि तत्रोक्ता "ह्रस्वो दीर्घः प्लुत इति । कालतो नियमा अचीति । बलं स्थानप्रयत्नौ, तत्राऽष्टौ स्थानानि वर्णनामित्यादिना स्थानमुक्तम् । "अचोऽस्पृष्टा यणस्त्वीषदित्यादिना प्रयत्न उक्तः । सामशब्देन साम्यमुक्तम्, अतिद्रुतातिविलम्बितगीत्यादिदोषराहित्येन माधुर्यादिगुणयुक्तत्वेनोचारणं साम्यम् । "गीती शीघ्री शिरः कम्पीत्यादिनोपांशु दष्टं त्वरितमित्यादिना दोषाः उक्ताः । "माधुर्यमक्षरव्यक्तिरित्यादिना" गुणाः उक्ताः । सन्तानः संहिता, वायवायाहीत्यत्रावादेशः, इन्द्राग्नी आगतमित्यत्र प्रकृतिभावः, एतच्च व्याकरणेऽभिहितत्वात् शिक्षायाम् उपेक्षितम् ।
शिक्ष्यमाणवर्णादिवैकल्ये बाधस्तत्रोदाहृतः "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तः इत्यादिना इति ।

इत्यादिना वेदाऽभ्यासोपकारितया वेदाङ्गत्वं शिक्षादीनामुपपद्यते । तत्र "शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्" - इत्याद्युक्तदिशा शिक्षायाः घ्राणत्वप्रतिपादनेनाऽतीवावश्यकत्वमङ्गीकृतम्, यद्यपि शरीरस्थोच्चस्थानगतं मुखस्थानीयं व्याकरणं तथापि नास्तिकया मुखोपरि स्थित्या तत्स्थानाऽपन्ना शिक्षैव सर्वोपरिवरीवर्ति, पदसाधुत्वमात्रविधायकं व्याकरणम् उच्चारणादिविधिहीनं सत् नासिकाविरहितं सुखमिव न शोभते इति शिक्षायाः वेदनासिकात्वमाञ्जस्येन सयुक्तिकं सम्पद्यते ।

==प्रातिशाख्यानि==
Line ४६ ⟶ ४९:
#माण्डूकी शिक्षा (अथर्ववेदः)

===याज्ञवल्क्य शिक्षा===
यद्यपि पाणिनीयाद्या अनेके शिक्षाग्रन्थाः सन्ति तथाऽपि तेषामपूर्णत्वादन्यान्यशाखाविशयत्वाच्च सर्वेषां विशेषतो वाजसनेयिनां परमोपकाराय योगियाज्ञवल्क्यमहर्षिभिः प्रणीतैवेयं शिक्षा सर्वाङ्गपूर्णा वरीवर्ति । अस्मिन् ग्रन्थे आदौ मङ्गलाचरणम्, अध्ययनविधिः, हस्तचालनविधिः, स्वरसंहिताविधिः, वर्णप्रकरणम् इत्यादयाः विभागाः ग्रथिताः ।

==आधाराः==
<references/>

[[वर्गः:वेदाङ्गानि]]
"https://sa.wikipedia.org/wiki/शिक्षा" इत्यस्माद् प्रतिप्राप्तम्