"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
==परिचयः==
संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य [[गीतगोविन्दम्|गीतगोविन्द]]काव्यस्य कर्ता अस्ति अयम् । अस्य माता रा९८८९इमादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -
:श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
:पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः '''पद्मावतीचारणचक्रवर्ती''' इति '''वाग्देवताचरितचित्रितचित्तसद्मा''' इति च गीतगोविन्दे कथयामास ।
==जन्मस्थानम्==
ओरिस्साराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केण्डुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
:वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
:किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥
तस्य जन्मस्थानस्य विषये भिन्नाभिप्रायाः विद्यन्ते । केचन कथयन्ति यत् सः पश्चिमवङ्गदेशीयः इति । अयं १२ शतके लक्ष्मणसेनस्य आस्थानकविः आसीत् ।गोवर्धनः, शरणः, उमापतिः, कविराजधोयी च तस्य समकालीनाः । अयम् अंशः लक्ष्मणसेनमहाराजस्य सभामन्दिरस्य द्वारशिलापटे उल्लिखितश्लोकोऽयम् अत्र प्रमाणम् । यथा -
:गोवर्धनश्च शरणो जयदेव उमापतिः ।
:कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥
==जीवनम्==
बाल्यकालतः मथुरा-बृन्दावनादिषु पुण्यस्थलेषु अटतः तस्य मनसि राधामाधवयोः कथायाः महान् प्रभावः जातः । जगन्नाथपुर्यां तस्य जीवनस्य महत्त्वपूर्णप्रसङ्गः जातः । तस्मिन् स्थले स्थितस्य कस्यचित् ब्राह्मणस्य पुत्री पद्मावती जगन्नाथप्रभोः अनुग्रहात् प्राप्ता आसीत् । तस्य ब्राह्मणस्य स्वप्ने कदाचित् जगन्नाथेन सूचितं यत् पुत्री वृक्षस्य अधः सुप्तवते जयदेवाय दातव्या इति । नेच्छन् अपि सः ब्राह्मणः स्वपुत्रीं जयदेवाय अयच्छत् । गत्यन्तरेण विना जयदेवेन सा परिणीता । उभयोः गुणशीलेषु सामञ्जस्यम् आसीत् इत्यतः तयोः दाम्पत्यं सुखमयं जातम् ।
:वाग्देवताचरितचित्रितचित्तसद्मा
:पद्मावती चरणचारणचक्रवर्ती ।
:श्रीवासुदेवरतिकेलिकथासमेतं
:एतं करोति जयदेवकविः प्रबन्धम् ॥
यत्र तेन गीतगोविन्दकाव्यं रचितं सः ग्रामः जयदेवपुरमिति ख्यातं जातम् । तेन रचितम् इदं काव्यं लोकमान्यं जातम् । बहवः तदीयशिष्याः जाताः । सः क्रि श १२०० तमे वर्षे दिवङ्गतः इति श्रूयते । पुष्यशुक्लसप्तम्याम् अद्यत्वे अपि जयदेवस्य जयन्ती आचर्यते । राजा प्रतापरुद्रदेवः देवालयेषु गीतगोविन्दं गातव्यम् इति आदिष्टवान् ।
==कवित्वम्==
जयदेवः प्राचीनभारतीयकविषु अन्तिमः आधुनिककविषु आदिमः इति कथयितुं शक्यम् । संस्कृतकाव्यशैल्यां तेन बहवः नूतनाः आविष्काराः कृताः । भक्तिसाहित्यस्य उगमः अत्र दृश्यते । अयं कविः काव्यरचनायाः सर्वान् नियमान् न अपालयत् । अतः गीतगोविन्दकाव्यं शास्त्रीयकाव्यं न । अस्मिन् तेन नूतनशैली आधृता अस्ति या च तदीयकालानुगुणा अस्ति ।<br />
गीतकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यात्मिकश्च । तत्स्मरणमेव शरणम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् । इदं काव्यम् आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलासः इति कथयन्ति विद्वज्जनाः । अयं चन्द्रालोकं, रतिमञ्जरीं, तत्त्वचिन्तामणिं, कारकवादञ्च ग्रन्थान् लिलेख इति केचन कथयन्ति ।
[[वर्गः:संस्कृतगीतिकाव्यम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]▼
[[वर्गः:
▲[[वर्गः:चित्रं योजनीयम्]]
▲[[वर्गः:सारमञ्जूषा योजनीया]]
▲[[वर्गः:बाह्यानुबन्धः योजनीयः]]
|