"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८३:
==राष्ट्रियनायकः==
१८९८तमे वर्षे दीपावलीदिने तिलकः कारागारतः? विमुक्तः । प्रजानाम् आनन्द्स्य प्रग्रहः नासीत् । सर्वगृहेषु दीपाः ज्वालिताः । सर्वविथीषु विस्फोटनसामग्री स्फोटिता । आनन्दोत्साहैः असङ्ख्याकाः जनाः तिलकं द्रष्टुं पूनानगर्वीथीषु प्रविष्टाः । महतीं शोभायात्रां कृत्वा सादरस्वागतं व्याहृतवन्तः । एतदपूर्वं दृश्यं दृष्टवतां नयनेभ्यः आनन्दाश्रूणि प्रसृतानि । बालाः, मातरश्च गृहेषु धूपवर्तिकाः, कर्पूरं च ज्वालयित्वा तिलकस्य छायाचित्रस्य् पूजादिकं कृतवन्तः । महाराष्ट्रनायकः इदानीं भारतनायकः सञ्जातः । सर्वेषां भारतीयानां हृदयेषु तिलके भक्तिश्रध्दादयः भावाः पूर्णाः ।
कारावासे अनुभ्हूतानां कष्टानां कारणेन तिलकस्य स्वास्थ्थम् अतीव क्षीणम् । सः अधिकं श्रान्तः । कान्तिमतोः तस्य नयनयोः तेजः अदृश्यतां गतम् । मुखं कृशम् अभवत् । कारावासात् विमोचनानन्तरं अल्पकाले एव तस्य पुनः स्वास्थ्यं सम्प्राप्तम्
 
==पवित्रशब्दः-स्वदेशी(यता)==
स्वदेशीयता उद्यमः प्रवृध्दः । स्वदेशीयता उद्यमः नाम् विदेशीयवस्तूनां बहिष्करणमेव । एतस्य उद्यमस्य श्रेष्ठतां गोखले, रानडे, पराञ्जपे इत्यादि नायकाः बहुधा विवृतवन्तः । पत्रिकासु लेखान् लिखित्वा तिलकः एतम् उद्यमं
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्