"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत् , किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्याअसेन तपस्यया च एकस्मिन दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुः ख्जमयम् , दुःखस्य मूलं कामना , कामनायाः उन्मूलनम् साध्यम् , एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपदिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिक सुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न् चोरयेत् । सर्वान् अमदुष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
एतेषां पालनेनैव सुखं शान्तिश्व भवितुम् अर्हति । महात्मनेओ बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते , अपि तु चीनजापानलंकादि देशेषु लोकप्रियताम अलभत ।
 
[[File:Ushiku Daibutsu 2006.jpg|thumb|बुद्धस्य विग्रहः]]
 
भारतीय धर्मगुरुः। भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्