"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up using AWB |
||
पङ्क्तिः १:
==गुरुगोविन्दसिंहः==
गुरुगोविन्दसिंहः(Guru gobind singh)
समाजं संस्कर्तुम्, एकात्मताम्, अखण्डतां, धर्मे निष्ठां च समाजे निर्मातुं, तदद्वारा एकं शुभपरिणामं साधयितुमेव गुरुनानकः सिक्खपथम् आरब्धवान् । अनेकान् विघ्नान् अस्मिन् प्रयत्ने सः सधैर्यं सम्मुखीकृतवान् । गुरुतेजबहदूरस्य आत्मार्पणानन्तरं तस्य अनुयायिभि: अनेकसमस्याः सम्मुखीकृता: । त्यागस्य आत्मसमर्पणस्य च अपेक्षां पूरयितुं एकं नायकत्वम् आवश्यकम् आसीत् । तदा निकषोपले परीक्षितमिव गुरुगोविन्दसिंहस्य स्वरूपं प्रकटितम् अभवत् ।
==बाल्यम्==
[[File:GuruGobindBirthPlace.jpg|thumb|right|300px|गुरुगोविन्दसिंहस्य जन्मस्थानम्]]
गुरुगोविन्दस्य बाल्ये जाता काचित् घटना । औरङ्गजेबस्य अत्याचारान् सोढुम् अशक्ता: केचन काश्मीरब्राह्मणाः गुरुतेजबहदूरस्य समीपमागतवन्तः । तेभ्यः अत्याचारेभ्यः विमोचनं प्राप्तुं 'कमपि उपायं सूचयतु' इति प्रार्थितवन्तः । गुरुतेजबहदूरः विचारे मग्नः । पितरं विचारमग्नं दृष्ट्वा बालः गोविन्दसिंहः कारणं पृष्टवान् । गुरुतेजबहदूरः -"कस्यापि महापुरुषस्य आत्मसमर्पणेनैव एषा समस्या परिहृता भविष्यति"इति विवृतवान् । तस्या: समस्याया: परिहारं सूचयितुम् इव बालगोविन्दः अवदत् -"भवतः अपेक्षया महापुरुषः अन्यः अपेक्ष्यते किम् ?" इति । तदा गोविन्दस्य वयः केवलं नववर्षाण्येव । एतावति लघुवयसि तस्य मनोस्थैर्यं ,दृढविश्वासं स्पष्टं वच: दृष्ट्वा श्रुत्वा च गुरुतेजबहदूरस्य हृदये आनन्दतरङ्गा: उद्भुता:। तदनन्तरं देहल्यां गुरुतेजबहदूरस्य आत्मसमर्पणं नूतनेतिहासम् एव अजनयत् । गुरुपीठस्वीकरणात् पूर्वमेव गुरुगोविन्दस्य एतादृशदूरदृष्टिः आसीत् । पितरमेव समर्पयितुं सिद्धः एषः वीरकिशोरः एतामेव भावनां स्वकुटुम्बजनानां मनस्सु अपि दृढमारोपितवान् ।
गुरुगोविन्दस्य द्वौ पुत्रौ हसन्तौ एव युद्धरङ्गे कूर्दनं कृतवन्तौ । अन्यौ द्वौ कनिष्ठपुत्रौ सजीवसमाधिं प्राप्तवन्तौ । तयोः मुखतः
अनन्तरकाले सः युवक एव बन्दाबैरागी भूत्वा विदेशीयसर्वकारस्य यमराजः जातः । देशहितार्थं सर्वस्वार्पणे एव स्वजीवनसाफल्यमस्तीति अनुभूतिं प्राप्तवान् च ।
अक्बरेण निर्मिता राजकीयपरा शान्तिः यदा नष्टा अभवत् तदा गुरुगोविन्दः जातः । तदा एव औरङ्गजेबस्य कुटिलविधानानां कारणेन पञ्जाबे, महाराष्ट्रे च सङ्घर्षाणाम् आरम्भः अभवत् ।
सत्यमेवमस्ति यत् अन्यमतानां विषये असहिष्णुता औरङ्गजेबतः न आरब्धा, शाहजहानकालतः एव सा अनुवर्त्यमाना आसीत् ।
१६३२ ईशवीयाब्दे शाहजहानः स्वराष्ट्रे नूतनदेवालयानां निर्माणं न करणीयमिति शासनं कृतवान् । निर्मीयमाणानां देवालयानां भञ्जनं कारितवान् । अक्बरेण कृतः गोवधनिषेधः अपि तदा अपनीतः । एतेषां सर्वेषां फलस्वरुपेण मुघलशासनं प्रति जनानां विरोधः वर्धते स्म । अम्धुरासमीपे जाटजातीयाः भूस्वामिनः गोकुलस्य नायकत्वे क्रान्तिं कृत्वा मुघलसेनानायकं, तस्य सैनिकान् च अमारयन् । तदा गुरुगोविन्दस्य वयः केवलं त्रीणि वर्षाण्येव । यद्यपि पालकाः तस्य विप्लवस्य शमनं कृतवन्तः तथापि अन्तरग्निः ज्वलन्नेवासीत् । गुरुगोविन्दे पञ्चवर्षप्राये सति राजा छत्रसालः औरङ्गजेबं विरुध्य युद्धं कुर्वन्नासीत् । अनन्तरवर्षे एव
==तत्कालीनसमाजस्थितिः==
तस्मिन् स्मये हिन्दुसमाजः कुलमतादिद्वेषैः बहुधा विभक्तः बलहीनः च आसीत् । विदेशीयानाम् आक्रमणं विरोद्धुमपि अशक्तः आसीत् । एतादृशस्थितेः कारणतः पञ्जाबप्रान्तस्य अन्तिमपालकस्य अनङ्गपालस्य अनन्तरं गुरुनानकपर्यन्तं तन्नाम ४५० वर्षाणि यावत् हिन्दुसमाजस्य सहयोगं दातुम् एकोऽपि पुरतः नागतवान् । ''''गुरुनानकः'''' पञ्जाबे स्थितान् पीडितान्, उपेक्षितान्, आत्मविस्मृतिमतः जनान् ऐदम्प्राथम्येन जागरितवान् । एतादृशसामाजिकराजकीयपरिस्थितिषु गुरुगोविन्दस्य जननम् अभवत् । विक्रमशकवर्षे १७२३ तमे वर्षे (ईशवीये१६६६) ४७६८ कलियुगाब्दे कार्तिकशुद्धसप्तम्यां तस्य जन्म अभवत् ।
गुरुतेजबहदूर: स्वपत्न्या [[गुजारि]] इत्यनया अन्यैश्च कैश्चित् शिष्यैः सह प्राग्भारतयात्रायै प्रस्थितः । अन्तर्वत्नीं पत्नीं कैश्चित् शिष्यैः सह
पितुः आत्मसमर्पणानन्तरं गुरुगोविन्दः गुरुपीठं स्वीकृतवान् । तदा तस्य वयः नववर्षाण्येव । तदनन्तरम् अष्टवर्षाणि यावत् सः आनन्दपुरे एव स्थित्वा शस्त्रशास्त्रादिविद्याः अभ्यस्तवान् । तस्य शिष्याणां कृतेऽपि शिक्षणव्यवस्थां कृतवान् । बहुदूरप्रदेशेभ्यः आगतेभ्यः कविभ्यः आश्रयं कल्पितवान् । सुदूरप्रान्तेषु व्याप्तानां सिक्खजनानां कृते आज्ञापत्रं प्रेषयित्वा शस्त्राणि, धनं च एकत्रीकृतवान् । एकां लघुसेनां निर्माय तान् सैनिकान् सर्वयुद्धविद्यासु निपुणान् कृतवान् ।
==गुरुगोविन्दस्य प्रथमः सङग्रामः==
१६८९ तमे वर्षे एप्रिल् मासे गुरुगोविन्दः स्वजीवने प्रथमसङ्ग्रामे भागं गृहीतवान् । गुरुगोविन्दस्य प्रवर्धमानां शक्तिं दृष्ट्वा अन्येषु राजसु भीतिरवर्धत । जातीयताभावप्रेरकान् गुरुगोविन्दस्य प्रयत्नान् विफलान् कर्तुं ते सर्वे एकीभूताः ।
कलिहारराज -भीमचन्द्रपुत्रस्य अज्मीरचन्द्रस्य विवाहसन्दर्भे सर्वे राजानः गढवाले स्वसेनाभिः सह समाविष्टाः । विवाहानन्तरं गोविन्दसिंहम् आक्रान्तुं सिद्धाः जाताः । एतां वार्तां ज्ञात्वा
पञ्जाबे
सय्यदबहदूरस्य पुत्रद्वयम्, अनेके शिष्याः च युद्धे मृताः । तस्मिन् युद्धे गुरुगोविन्दः जयं प्राप्तवान् । पर्वतीयराजाः स्वसेनया सह पलायिताः । गुरुगोविन्दसिंहः विजयलक्ष्म्या सह आनन्दपुरं प्राप्तवान् । समुचिते समये सहकृतवानिति सय्यदं सवैभवं सत्कृतवान् । अनन्तरं सः लोहगढ, आनन्दगढ, केशगढ, फतेगढ इत्यादिदुर्गाणि निर्मितवान् ।
पराजिताः राजानः सर्वेऽपि गुरुगोविन्दसिंहेन सह सन्धिं कृतवन्तः । ते राजानः औरङ्गजेबाय करप्रदानमपि परित्यक्तवन्तः । अत: मुघलसेनाः तेषां राज्यानि आक्रान्तुम् आगताः । किन्तु गुरुगोविन्दसिंहस्य साहाय्येन ते मोघलसैनिकान् पलायितान् कृतवन्तः । केषाञ्चन दिनानामनन्तरं पुनः ते राजानः स्वदौर्बल्यकारणतः मुघलचक्रवर्तिना सह सन्धिं कर्तुं सिद्धाः अभवन् । औरङ्गजेबस्य आदेशेन सुबेदारस्य दिलावरखानस्य सेना तस्य पुत्रस्य रुस्तुमस्य नेतृत्वेन गुरुगोविन्दसिंहम् आक्रान्तुं प्रस्थिता । पक्षद्वयं युद्धाय सिद्धम् अभवत् । किन्तु युद्धप्रारम्भसमये तत्र प्रवहन्त्यां नद्यां दुर्भरजलाप्लावकारणतः मुघलसैनिकाः प्रवाहिता: । तदनन्तरं हुसेनखानः इति सेनापतिः राजभ्यः धनं लुण्ठितुम् आरब्धवान् । गुरुगोविन्दसिंहस्य सेना तमपि पराजित्य पलायितं कृतवती । तस्मिन् समये दक्षिणे स्थितः औरङ्गजेबः तां वार्तां श्रुत्वा स्वपुत्रं मुआज्झमं सेनया सह प्रेषितवान् । मुघलसेना अन्यान् राज्ञः जितवती, आनन्दपुरं तु सुरक्षितमासीत् । एतान् सर्वान् विषयान् गुरुगोविन्दसिंहः स्वस्य "' विचित्रनाटकम्"' इति ग्रन्थे लिखितवान् । मुघलसैनिकाः परिवृत्य गताः, तथापि यदाकदापि तैः सह सङ्घर्ष: अनिवार्य: इति गुरुगोविन्दसिंहः जानाति स्म । अत एव सः सर्वदा पुनरपि सन्नद्धः सन् योग्यं बलं सिद्धं कर्तुं प्रयतमानः आसीत् । समाजे स्थितः सम्पन्नवर्गः समाजे परिवर्तनम् आनेतुं नाङ्गीकरोतीति, तेन परिवर्तनेन स्वस्य विशिष्टं स्थानं नष्टं भवतीति भयमनुभवतीति च सः जानाति स्म । अत एव समाजस्थान् सामान्यजनान् समीकर्तुम् प्रयत्नं प्रारब्धवान् ।
==वैशाखीपर्वदिनम्==
गुरुगोविन्दसिंहः वैशाखीपर्वदिनस्य सन्दर्भे सहस्रश: उपस्थितानां शिष्याणां पुरतः उपविष्टवान् आसीत् । तदा सर्वान् विस्मितान् कुर्वन् सः स्वस्य कोशतः खड्गं निष्कास्य पृष्टवान् -‘युष्मासु केऽपि धर्मार्थं प्राणत्यागं कर्तुं सिद्धाः सन्ति वा ?’इति । प्रश्नश्रवणेनैव सभायां कलकलरवः आरब्धः । स च कोलाहलः वर्धमानः आसीत् । तदा गुरुगोविन्दसिंहः पुनः द्वित्रवारं तमेव प्रश्नं पृष्टवान् । तावता लाहोरप्रान्तीयः क्षत्रिययुवकः दयारामः उत्थाय
==प्रतिज्ञास्वीकारः==
गुरुगोविन्दसिंहः एतेषां पञ्च जनानां कृते सुन्दरवस्त्राणि धारयित्वा तान्
==ईश्वरस्य विजयो निशिचतः==
गुरुगोविन्दसिंहः बाह्यकार्याणां , चिह्नानां च अद्भुतां शक्तिं ज्ञातवान् । तेन प्रारब्धस्य दीक्षासंस्कारस्य "पहुल" इत्यस्य वास्तविकः अर्थः एष एव । पहुलसंस्कारे सर्वे मिलित्वा कयाचित् विशिष्टया प्रक्रियया स्वीकृतं जलं अमृतमिति भावयन्ति । सः एकं नूतनम् उद्घोषं कृतवान्- "वाहे गुरुजीका खालसा -वाहे गुरुजी के फते"खालसा ईश्वरीयं भवति - ईश्वरस्य विजयो निशिचतः इति तस्य अर्थ:।
सः एतां दीक्षां स्वीकृतवन्तं सर्वमपि सिक्खजनं पञ्चबाह्यचिह्नानि धारयितुं आदिष्टवान् । पञ्चककाराणि इति व्यवह्रियमाणानि तानि सन्ति - केशबन्धनं (केश), शिरसि कङ्कतिकास्थापनं (कङ्गा), कङ्कणधारणं (कडा), कट्यां पट्टवस्त्रधारणं (कच्छ), सर्वदा खड्गधारणं (कृपाण) इति । एतान् नियमान् सर्वोऽपि दीक्षापरः अवश्यं पालयेत् इति सः निश्चितवान् । समर्पणं, परिशुद्धता, दैवभक्तिः, शीलं, शौर्यं इत्येतान् भावान् एतानि चिह्नानि स्मारयन्तीति सः भावितवान् ।
खालसापन्थस्य निर्माणे बहुविघ्नाः जाताः ।
एतमेव समुचितसमयं भावयित्वा पर्वतीयराजाः विंशतिसहस्रसंख्याकैः सैनिकैः सहिताः गुरुगोविन्दसिंहेन सह युद्धं कर्तुम् आगतवन्तः । गुरुगोविन्दसिंहस्य समीपे केवलम् अष्टसहस्रसंख्याकाः एव सैनिकाः आसन् । तथापि खालसासेनया एव जयः प्राप्तः ।
तेन सह प्रेषिते पत्रे गुरुगोविन्दसिंहस्य शक्तिं तद्द्वारा वर्धमानाः समस्याः, तेन धृतानां राजचिह्नानां विषयं च सूचितवन्तः आसन् । गुरुगोविन्दसिंहः स्वयमेव चक्रवर्तीति आत्मानं भावयतीति, एतेन औरङ्गजेबस्य शासनं सङ्कटे पतितमिति च भयम् उत्पादितवन्त: ।
औरङ्गजेबः सत्वरं योग्याः प्रतिचर्याः कृतवान् । सरहिन्दे, एवं लाहोरे स्थितं सुबेदारद्वयं गुरुगोविन्दसिहम् आक्रान्तुं प्रेषितवान् । किन्तु अस्मिन् युद्धेऽपि मुघलसेना पराजिता । कहलूरुराजः पुनः प्रयत्नं कृत्वापि निराशः एव जातः ।
पर्वतराजानां मनोबाधा अवर्धत । समयं दृष्ट्वा गुरुगोविन्दसिंहं प्रहर्तुं ते प्रयतमानाः आसन् । तदा एव सय्यदबेग्, अलीखान् इत्येतौ मुघलसेनान्यौ लाहोरतः देहलीम् आगच्छन्तौ आस्ताम् । पर्वतीयराजाः ताभ्यां प्रतिदिनं द्विसहस्ररूप्यकाणां प्रदाननियमेन गुरुगोविन्दसिंहेन सह योद्धुम् आहूतवन्तः आसन् । तयोः सेनायां दशसहस्रम् आयुधधारिणः सैनिकाः आसन् । गुरुगोविन्दसिंहः चमकौत इति स्थाने स्वसेनया सह सिद्धः आसीत् । तत्रैव तेषां मध्ये युद्धं प्राचलत् । गुरुगोविन्दसिंहस्य पराक्रमेण, सौजन्येन प्रभावितः सय्यदबेगः तस्य पक्षं प्रविष्वान्। स्वस्य मित्रेण कृतम् एतत्कार्यम् आलीखानस्य मनःस्थैर्ये कुठाराघात इवाभवत् । सः युद्धभूमिं त्यक्त्वा पलायितवान् ।
==आनन्दपुरनिर्बन्धः==
पर्वतराजानां, बलवतां स्वीयसेनानायकानां च पराजयं श्रुत्वा औरङ्गजेबः चिन्ताक्रान्तः अभवत् । बृहतीं सेनावाहिनीं अप्रेषयत् । तस्यां सेनायां सरहिन्दस्य, लाहोरस्य जम्मुप्रान्तस्य च राज्ञां सेनापि सम्मिलिता आसीत् । द्वाविंशतिः पर्वतराजाः स्वसेनाभिः सह तत्रासन् । गोविन्दसिंहः स्वशक्त्यनुसारं युद्धाय सिद्धोऽभवत् । प्रारम्भे पर्वतराजानां सेना, मुघलसेना च खालसासेनायाः पुरतः स्थातुं नाशक्नोत्त् । किन्तु केषुचित् दिनेष्वेव विशाला मुघलसेना आनन्दपुरम् आक्रान्तवती । आनन्दपुरस्य बाह्यजगता सह सम्बन्धः त्रुटितः । अपि च तस्मिन् पट्टणे धान्यस्य जलस्य चाभावः अजायत । क्षुधया, तृषया च सैनिकाः क्षुब्धाः । "दुर्गं त्यक्त्वा बहिरागच्छन्ति चेत् सुरक्षितं त्यजाम" इति मुघलसेनानायकः खुराने, पर्वतराजाः गीतायां च शपथं कृत्वा सन्देशान् प्रेषयन्ति स्म । केचन सैनिकाः
==कालरात्रिः==
ईशवीय १७०४ तमे वर्षे डिसेम्बर् मासे २१ दिनाङ्कस्य अर्धरात्रम् । गुरुगोविन्दसिंहः दुर्गात् बहिः आगतवानिति शात्रवः ज्ञातवन्तः । ते स्वशपथान् विस्मृत्य गुरुगोविन्दसिंहं ग्रहीतुं सरसानद्याः तटे वृष्टौ अपि युद्धम् आरब्धवन्तः । गुरुगोविन्दसिंहः स्वपुत्रौ अजितसिंहं, जुजुरसिंहं, अन्यान् च ४० संख्याकान् शिष्यान् स्वीकृत्य चमकौरदुर्गं प्राप्तवान् । तस्य अन्ये कुटुम्बसदस्या: तेन वियुक्ताः । अन्तिमबालकद्वयं जोरावरसिंहः, फतेसिंहः च मात्रा सह पूर्वतनपाचकस्य गङ्गारामस्य ग्रामं गतवत् । किन्तु सः विश्वासघातुको भूत्वा एतान् वञ्चितवान् । बालकद्वयं सरहिन्दस्य सुबेदाराय वजीरखान् इत्यस्मै द्त्तवान् । वजीरखानः तयो: द्वयो: बालकयो: ईशवीये १७०४ तमे वर्षे डिसेम्बरमासे २७ तमे दिनाङ्के सजीवसमाधिं कारितवान् । गुरुगोविन्दस्य माता एतां वार्तां श्रुत्वा मनोवेदनया प्राणान् त्यक्तवती ।
तयो: सजीवसमाधेः पूर्वं राजा महम्मदीयमतस्वीकरणार्थं प्रेरितवान्, भवन्तौ यद् इछतः तद् ददामीति च प्रलोभं दर्शितवान् । किन्तु तौ नाङ्गीकृतवन्तौ । " अस्माकं धर्मः अस्माकं प्राणेभ्योऽपि प्रियतरः । आवयोः अन्तिमश्वासपर्यन्तं आवां तं न त्यजावः । आवां गुरुगोविन्दसिंहस्य पुत्रौ । आवयोः पितामहः गुरुतेजबह्दूरः धर्मरक्षणार्थं स्वजीवनस्य आहुतिं कृतवान् ।" इति दृढं समाहितवन्तौ । तेन कोपोद्रिक्तः राजा तयोः सजीवसमाधिं कारितवान् । समाधिनिर्माणसमये ज्येष्ठस्य नेत्रयोः अश्रूणि दृष्ट्वा कनिष्ठः "अग्रज ! भवतः नेत्रयोः जलं किमर्थं निर्गच्छति ? भवान् आत्मसमर्पणात् भयं प्राप्नोति वा ?" इति पृष्टवान् । ज्येष्ठः समादधत् अक्तवान् - "भवान् अमायकः, अहं ,मृत्युं दृष्ट्वा न बिभेमि । अपि च मृत्युरेव मां दृष्ट्वा बिभेति। अत एव सा प्रथमं भवत: समीपम् आगच्छन्ती अस्ति । कनिष्ठः भवान् प्रथमम् आत्मसमर्पणं करोतीति अहं दुःखितोऽस्मि " इति । विश्वेतिहासे एतादृशं विशिष्टं प्राणदानं प्रायः कुत्रापि नोदाहृतम् । एतादृशौ लघुबालकौ धर्मार्थम् आत्मार्पणं कृतवन्तौ इति घटना इतिहासे कुत्रापि न दृश्यते ।
गुरुगोविन्दसिंहस्य सुन्दरी, साहिबादेवी इति द्वे पत्न्यौ स्वसोदरेण मणिसिंहेन सह देहलीं गतवत्यौ । चमकौरदुर्गे जाते युद्धे गुरुगोविन्दस्य ज्येष्ठौ पुत्रौ मृतौ । दुर्गमाश्रित्य स्थितवभ्दिः ४० जनैः तत्र स्थातुमश्कयमिति ज्ञात्वा गुरुगोविन्दसिंहः अवशिष्टमित्रत्रयं स्वीकृत्य दुर्गं त्यक्तवान् । अन्यान्यदिक्षु ते प्रस्थिताः ।
कदाचित् मुघलसेनायां केषाञ्चन सन्देहः जातः । प्रश्नोत्तरानन्तरमपि तेषां सन्तृप्तिः नाभवत् । विचारणार्थं काजी पीरमहम्मदम् आहूतवन्त: । भाग्यवशात् सः काजी (महम्मदीयपुरोहितः)गुरुगोविन्दसिंहस्य बाल्ये तस्मै पारशीभाषां बोधयन् आसीत् । अतः स तत्रत्यस्थितिं ज्ञात्वा समीकर्तुं किमपि उक्त्वा मुघलसेनां प्रतिप्रेषितवान् । गुरुगोविन्द: तत्रैव निवसति स्म। केषाञ्चन दिनानामनन्तरं जोरावरसिंहः फतेसिंहश्व मृताविति हृदयविदारिका वार्ता प्राप्ता । शनैः शनैः पूर्वतनमित्राणां मेलनं प्रारब्धम् । पुनः शक्तिवर्धनम् आरब्धम् । तस्मिन्नेव समये सरहिन्दस्य सुबेदारः वजीरखानः गुरोः अन्वेषणमारब्धवान् । गुरोः सेना यदा
==औरङ्गजेबस्य आह्वानम्==
अस्मिन् युद्धे विशेषोऽस्ति । ४० सिक्खवीराः अत्यन्तं वीरोचितं युद्धं कुर्वन्तः प्राणार्पणं कृतवन्तः । ते चत्वारिंशत् एव आनन्दपुरदुर्गतः गुरुशिष्यसम्बन्धं त्रोटयित्वा गतवन्तः आसन्। स्वप्राणान् समर्प्य ते पूर्वतनस्य अपराधस्य प्रायश्चित्तं कृतवन्तः । तदारभ्य सिक्खजनाः स्वकीयदैनन्दिनप्रार्थानायां "चत्वारिंशत् मुक्ताः"इति नाम्ना तान् सश्रद्धं स्मरन्ति । एतद् युद्धं खिण्डराणा इत्यत्र यत् अभवत् सः प्रदेशः एतेषां वीरत्वसूचकः
अत्र आगमनानन्तरं गुरुः गुरुग्रन्थसाहिबं पुनः रचितवान् । शनैः शनैः सः प्रदेशः अध्ययनस्य केन्द्रम् अभवत्। एवमेव न, सः प्रदेशः
औरङ्गजेबस्य मरणानन्तरं तस्य पुत्राः सिंहासनार्थं परस्परं कलहायमानाः आसन् । तदा तेषु अन्यतमः मुअज्जम् गुरुगोविन्दसिंह्स्य आशीर्वादं प्राप्तुम् आगतवान्। अनन्तरं स एव बहदुरशाह नाम्ना देहलीसिंहासनम् अधिष्ठितवान् । केषाञ्चन दिनानामनन्तरं बहदुरशाहः गुरुगोविन्दसिंहम् आहूय सत्कृतवान् च । सत्कारसन्दर्भे सम्प्रदायानुसारं स्वस्मै दत्तं मुकुटं धर्तुं गुरुः न अङ्गीकृतवान्। मुकुटं स्वशिष्यद्वारा स्वनिवासं प्रति प्रेषितवान् । बहदुरशाहः तं एकम् ऋषिपुङ्गवम् इव भावयति स्म । देहलीचक्रवर्ती गुरुगोविन्दसिंहं गुरुमिव यद्यपि पश्यति स्म तथापि गुरुः बहदुरशाहं स्वमित्रमिव भावयति स्म । बहदूरशाहः स्वसोदरस्य कम्बख्तस्य दुष्कृत्यानि शमयितुं सेनया सह यदा दक्षिणां दिशं प्रस्थितवान् तदा गुरुः अपि तेन सह प्रस्थितवान्।
मुघलसेनाः पुरतः गच्छन्त्यः आसन्, किन्तु गुरुः गोदावरीतीरस्थे नान्देड् ग्रामे स्थितवान् ।
पङ्क्तिः ४८:
उज्जयिन्यां दावूद् धर्मसम्बन्धिनं नारायणदासेन गुरुगोविन्दसिंहः यदा मिलितवान् आसीत् तदा सः नारायनदस:-'नान्देड् ग्रामे कश्चन विरागी अस्ति, सः अद्वितीयशक्तियुतः, भवता स: द्रष्टव्य:' इति उक्तवान् ।तं विरागिणं माधवदासं गुरुगोविन्दसिंहः नान्देड्पट्टणे मिलितवान् । गुरुगोविन्दसिंहः तस्य आश्रमं यदा गतवान् तदा सः आश्रमे नासीत् । गुरुः तस्य पीठे उपविष्टवान् । माधवदासः आगत्य गुरुगोविन्दसिंहं आसनतः अवरोहयितुं स्वस्य मन्त्रविद्याः प्रयुक्तवान्, ताः गुरौ अप्रयोजकाः अभवन् माधवदासः गुरोः महत्त्वं ज्ञातवान् । गुरुगोविन्दसिंहः तस्मै कर्मसन्देशं श्रावितवान् । देशस्थाः परिस्थितीः विवृतवान् । विरागी माधवदासः गुरोः उपदेशेन प्रभावितः स्वयं तस्य बन्दा(दासः) इति प्रकटितवान् । एवं विरागी माधवदासः बन्दाविरागी (बन्दाबैरागी) जातः । स्वजीवनसर्वस्वं गुरवे समर्पितवान् । गुरुगोविन्दसिंहः स्वस्य उत्तराधिकारिरूपेण तं पञ्जाबं प्रेषितवान् ।
==गुरुगोविन्दस्य मृत्युः==
नान्देड् प्राप्त्यनन्तरं एकमासाभ्यन्तरे एव गुरुगोविन्दसिंहस्य जीवनलीला समाप्ता अभवत् । ईशवीये १७०८त्मे वर्षे अक्टोबर सप्तमदिनाङ्के कश्चन पठान् सैनिकः तं खड्गेन आक्रान्तवान् । गुरुः तस्मिन् समये विश्रान्तिम् अनुभवन् आसीत् । समीपे तस्य रक्षकरूपेण कोऽपि नासीत् । गुरुः पार्श्वस्थं खड्गं निष्कास्य तं पठानं मारितवान् । गुरोः आक्रोशेन शिष्याः आगत्य पठानस्य अनुचरद्वयं मारितवन्तः । अनुक्षणं गुरोः व्रणेषु औषधं लेपयित्वा उपशामितवन्तः । त्रिचत्वारि दिनानि अतीतानि । किन्तु स्वस्य अन्तिमसमयः आसन्न इति ज्ञात्वा गुरुगोविन्दः शिष्यान् समीपम् आहूय
भगवद्गीतायां भगवता श्रीकृष्णेनोक्तम् -‘यदा यदा धर्मस्य हानिः भवति, तदा अहम् अवतारं स्वीकरोमि।’ इति गुरुगोविन्दसिंहः अपि एवमेवोक्तवान् ।
एतद् ज्ञात्वा एव गुरुगोविन्दसिंहः आयुधधारणं कृत्वा युद्धं कृतवान् ।
==तेगस्य जयो भवतु==
गुरुः दारिद्र्येण पीडितोऽपि स्वजीवनं सर्वमपि आत्मविश्वासं नष्टवति समाजे पुनः आत्मविश्वासस्य, साहसस्य च प्रतिष्ठापनाय समर्पितवान् । डा. नारङ्गेन उक्तं कृपाणात्, गोलकास्त्रतः च दूरे तिष्ठन्तः सामान्यजनाः अपि वीराः भूत्वा युद्धं कृतवन्तः । क्षुरकाः, रजकाः, चर्मकाराः अपि सर्वेषां विस्मयं जनयन्तः वीराः जाताः । गुरुगोविन्दसिंहः स्वरचनेषु परमात्मानं बहुविधं वर्णितवान् । तस्मै
==कवित्वम्==
हिन्दीभाषायां वीरकविषु चान्द बरदाय्, भूषण इति नामद्वयं अधिकतया श्रूयते । भूषणकविः वीररसे अग्रस्थाने अस्ति। किन्तु गुरुगोविन्दसिंहः वीररसे सहजकविः । धर्मयुद्धार्थमेव सः कवित्वं लिखितवान् । एतादृशलेखकः अन्यः कोऽपि न दृश्यते । स्वस्य
डाक्टर् महेशसिंहः गुरुगोविन्दसिंहस्य तत्त्वमुद्दिश्य एवं लिखितवान् -" एषः विषयः अस्माभिः अवगन्तव्यः । गुरुगोविन्दसिंहः महम्मदीयान् विरुध्द्य युद्धं कृत्वा आवेशं न प्रदर्शितवान् । केवलं तुर्कजनान् विरुध्द्य एव सः सङ्ग्रामं कृतवान् । सः म्लेच्छशब्दं प्रयुक्तवान् । एष एव विशेषः भूषणस्य कवित्वेऽपि दृश्यते । छत्रपतिः शिवाजी, गुरुगोविन्दसिंहः इत्यादयः यां शक्तिं विरुध्द्य युद्धं कृतवन्तः तां राजनैतिकशक्तिं तुर्कशब्दः सूचयति।"
==वीरभक्तः==
पङ्क्तिः ६७:
[[वर्गः:भारतीयसिक्खजनाः]]
[[वर्गः:सिक्खमतगुरवः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
|