"रमणमहर्षिः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up using AWB |
||
पङ्क्तिः १:
आधुनिक[[भारत]]स्य महान् ऋषिः आसीत् ।
==जीवनम्==
पङ्क्तिः ६:
==बोधनम्==
श्री रमणमहर्षिः आत्मविचारं तन्नाम , आत्मज्ञानप्रप्त्यर्थम्
“ मम मातुलस्य गृहे प्रथमे अट्टे एकस्मिन् प्रकोष्ठे उपविष्टवान् आसम्। अहं कदाचित् एव ज्वरपीडितः भवामि स्म । आरोग्ये अन्यः कोऽपि क्लेशः न आसीत् । तथापि हठात् मम मनसि मरणस्य भयम् उत्पन्नम् । एतस्य निमित्तं आरोग्यसम्बद्धः कोऽपि हेतुः न आसीत् । भयस्य कारणम् अन्वेष्टुम् अपि मनः न प्राभवत् । अहं मरणं प्राप्नुवन् अस्मि इति भावना उत्पन्ना । यदि मरणं सन्निहितं तर्हि किं करणीयम् इति चिन्तितवान् । मरणभीत्याः आधाततः अहम् अन्तर्मुखः अभवम् । स्तब्धः अहं मनसि एव विचिन्त्य स्वगतं एवम् उक्तवान् “ इदानीं मरणं सन्निहितं, मरणम् इत्युक्ते किं स्यात्? किं नश्यति, एतत् शरीरं नश्यति’ अनुक्षणं मरणं जातमिव नटनं कृतवान् । शरीरं ह्स्तौ, पादौ साक्षात् प्रसार्य, चलनेन विना शवः इव अनुसरणं कृतवान्। एतस्य विषयस्य वास्तविकतां ज्ञातुं श्वासं अवरुद्ध्य ओष्टौ दृढीकृत्य, (अहम् इति वा अन्यः वा शब्दः कदाचित् बहिः निस्सरेत् इति कारणतः ) यथा शब्दः न भवेत् तथा पिधानं कृतवान् । तदा स्वगतम् उक्तवान् “ सत्यम् एतत् शरीरं नष्टम्, एतस्य दहनं कुर्वन्ति, शरीरस्य दहनमात्रेण अहं मृतः इति अर्थः वा?
==अद्वैतसिद्धान्तं, रमणमहर्षिणः बोधनं च==
श्री रमणमहर्षेः बोधने तथा शङ्कराचार्यणां विस्तृतेषु अद्वैतसिद्धान्तेषु च बहुसादृशम् अस्ति तथापि केचन भेदाः भवन्ति ।
• अद्वैतसिद्धान्तं नकारात्मकं
• अद्वैतसिद्धान्तम् आत्मानं विहाय आत्मरहिताः इतरकोशाः (अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च) त्यक्तव्याः इति बोधयति । रमणमहर्षिः “ अहं कः ? इति रुपस्य विचारः प्रमुखं साधनम् । मनसः शमनं कर्तुं अन्यः मार्गः नास्ति । यदि अन्यामार्गेण मनसः शमनार्थं प्रयतन्ते चेदपि तात्कालिकं शमनं जातं भवति किन्तु तस्य पुनरुत्थानं भवितुम् अर्हति” इति सूचितवान् ।
"
[[वर्गः:भारतीयदार्शनिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]] |