"वेदव्यासः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ७:
महाभारते बह्वयः उपकथाः उपलभ्यन्ते । अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।
 
महर्षि: वेदव्यास: त्रिकालदर्शी, इच्छागतिमान् च आसीत् । एष: सर्वस्य मनस: चिन्तनं ज्ञातुं शक्नोति स्म । यत्र इच्छति क्षणाभ्यन्तरे तत्र गन्तुं शक्नोति स्म। जन्मानुक्षणं मातु: आज्ञां प्राप्य तप: कर्तुं वनं गतवान् । गमनसमये उक्त्वा गतवान् यद् – ‘यदा भवत्यै मम आवश्यकता भवति तदा मां स्मरतु । अहं भवत्या: समीपे उपस्थितः भविष्यामि’ इति ।
 
पाण्डवा: विदुरस्य युक्त्या लाक्षागृहत: बहि: आगत्य एकचक्रनगरे आसन् । तस्मिन् सन्दर्भे व्यास: मेलनार्थं तत्र गतवान् आसीत् । प्रसङ्गवशात् स: द्रौपद्या: पूर्वजन्मन: वृत्तान्तं कथयन् ‘एषा कन्या भवद्भ्यः इति एव पूर्वनिश्चिता अस्ति’ इति । एतत् वचनं श्रुत्वा पाण्डवानाम् आनन्द: उत्साह: च वर्धितः । ते द्रौपद्या: स्वयंवरे भागं ग्रहीतुं पाञ्चालनगरं गतवन्त: । तत्र अर्जुन: स्वयंवरस्य नियमानुसारं द्रौपदीं जितवान् । मातुः कुन्त्याः आज्ञया यदा पञ्चसहोदरा: अपि तया सह विवाहं कर्तुम् इच्छन्ति तदा राजा [[द्रुपदः]] न अङ्गीकरोति । तस्मिन् समये व्यास: तत्र आगत्य तस्या: पूर्वजन्मनः वृत्तान्तं निवेद्य पञ्चभिः सहोदरै: सह तस्या: विवाहं कारयितुं द्रुपदम् अङ्गीकारितवान् ।
 
यदा महाराज: युधिष्ठिर: इन्द्रप्रस्थनगरे [[राजसूययागः|राजसूययागं]] कृतवान् तदापि वेदव्यास: यज्ञे भागं ग्रहीतुं स्वस्य शिष्यवृन्दै: सह आगतवान् आसीत् । यज्ञं समाप्य गमनसमये स: युधिष्ठिरम् “अद्यारभ्य त्रयोदशवर्षाणाम् अनन्तरं क्षत्रियाणां महासंहार: भविष्यति । तस्मिन् दुर्योधनस्य अपराधानां निमित्तं भविष्यति भवान्” इति वदति ।
पङ्क्तिः १९:
धृतराष्ट्र: गान्धारी कुन्ती च यदा वने आसन् तदा कदाचित् युधिष्ठिर: तान् द्रष्टुं परिवारै: सह तत्र गतवान् आसीत् । तदा व्यास: अपि तत्र आगतवान् आसीत् । धृतराष्ट्रगान्धार्यो: पुत्रशोकः इतोऽपि शान्तः न आसीत् । कुन्ती अपि बान्धवानां वियोगेन दु:खे अस्ति इति ज्ञात्वा व्यास: धृतराष्ट्रं 'वरः पृच्छ्यताम्' इति वदति । युद्धे मृतानां पुत्राणां मित्राणां च गति: का स्यात् इति स: ज्ञातुम् इष्टवान् । “एकवारं तान् सर्वान् द्रष्टुम् इच्छामि” इति स: व्यासं प्रार्थितवान् । व्यास: वदति यद् – शयनानन्तरम् उत्थितं मानवमिव अद्य रात्रौ भवन्त: सर्वे मृतान् बन्धून् पश्यन्ति’ इति । सर्वे सायंकर्माणि समाप्य गङ्गातटे मिलितवन्त: ।
 
व्यास: गङ्गाया: पवित्रं जलं प्रविश्य युद्धे मृतान् कौरवान् पाण्डवान् च उच्चैः आह्वयति । अनुक्षणं यथा कुरुक्षेत्रस्य अङ्गणे युद्धाय समावेशितानां सैन्यानां कोलाहलः श्रूयते स्म तथा शब्द: जलेऽपि श्रुत: । अनन्तरं युद्धे वीरगतिं प्राप्तवन्तः सर्वे राजान:, राजकुमारा: च भीष्मद्रोणादीनां नेतृत्वे एव जलत: बहि: आगतवन्त:। युद्धसमये यथा वेशं, ध्वजं, वाहनं, दिव्यवस्त्रं, दिव्यमाला:, कुण्डलं च धृतवन्त: आसन् तथा एव इदानीमपि धृतवन्त: आसन् । सर्वाणि शरीराणि अपि दिव्यप्रभया कान्तियुक्तानि आसन् । प्रत्येकम् अपि क्रोधरहित:, द्वेषासूयारहित:, निरभिमानयुक्त: च दृश्यन्ते स्म । गन्धर्वा: तेषां यशोगानं कुर्वन्त: आसन् । वन्दीजना: तेषां स्तुतिं कुर्वन्त: आसन् । तदा व्यास: धृतराष्ट्राय दिव्ये नेत्रे दत्तवान् आसीत् । अत: स: सम्यक् सर्वान् योधान् अपश्यत् ।
 
तत् दृश्यं तु अत्यद्भुतम्, अचिन्त्यं, रोमाञ्चकारि च आसीत् । सर्वे तदेकदृष्ट्या तत् दृश्यं दृष्टवन्त: । आगता: जना: क्रोधेन विना बन्धुभि: मिलितवन्त: । एवम् आरात्रि प्रेमीणां समागम: चलति स्म । अनन्तरं ते सर्वे यथा आगतवन्त: तथैव भागीरथ्या: जलं प्रविश्य स्वलोकान् गतवन्त: । तदा व्यास: वदति ‘काः अपि स्त्रिय: पत्यु: लोकं गन्तुम् इच्छन्ति चेत् गङ्गायां प्रवेशः करणीयः ’ इति । तच्छृत्वा बह्व्यः: स्त्रिय: जलं प्रविश्य मानवदेहं त्यक्त्वा पत्यु: लोकं गतवत्य: । एता: अपि दिव्यं वस्त्राभूषणं धृत्वा विमानयाने उपविश्य गतवत्यः ।
पङ्क्तिः २६:
 
{{महाभारतम्}}
 
""
 
[[वर्गः:भारतीय-पौराणिकव्यक्तयः]]
[[वर्गः:महाभारतस्य पात्राणि]]
[[वर्गः:सप्त चिरञ्जीविनः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]"
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्