"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
|||
पङ्क्तिः ११:
[[चित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः [[कृष्णः|कृष्णजपे]] नितराम् आसक्तः आसीत् । [[सम्स्क्तुतभषयाह मह्हत्वम्|संस्कृताध्ययने]] [[ज्ञानम्|ज्ञानार्जने]] च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय
कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।
चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-[[अद्वैतवेदान्तः|अद्वैताचार्ययोः]] उपस्थितौ ।
== उपदेशः ==
|