"होय्सळवंशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९९:
 
===समृद्धसमाजः===
{{भारतस्य इतिहासः}}
तस्मिन् काले अङ्कुरितस्य धार्मिकस्य, राजतन्त्रस्य, सांस्कृतिकस्य च परिवर्तनानि [[होय्सळवंशः|होय्सळसमाजः]] प्रतिबिम्बयति स्म । कालांशेऽस्मिन् समाजः सुसंस्कृतः सम्भूतः । स्त्रीणां स्थानमानेषु व्यत्यासः अभवत् । राजकुलस्य स्त्रियः राज्यप्रशासने भागिन्यः भवन्ति स्म । द्वितीयवीरबल्लालस्य उत्तरप्रदेशानामुपरि सम्भूताक्रमणस्य काले तस्य पत्नी उमादेवी हळेबीडुप्रान्तस्य प्रशासनव्यवस्थाम् अपश्यति इति तत्कालीनाभिलेखाः मिलिताः । साः कैश्चित् विरोधिभिः अधीनराजैः सह प्रयुध्य नियन्त्रितवती इयपि श्रूयते । ललितकलासु स्त्रियः भागं वहन्त्यः आसन् इति अभिलेखाः सन्ति । विष्णुवर्धनस्य सम्राज्ञी शान्तलादेवी नृत्यसङ्गीतकोविदा आसीत् । क्रि.श. द्वादशशतके [[अक्कमहादेवी]] इत्यस्याः शिवभक्तायाः वचनानि अद्यापि कन्नडराज्ये विश्रुतानि । देवालयेषु नृत्याङ्गनाः भवन्ति स्म । तासु कासुचित् विद्यावत्यः कलापारङ्गता अपि भवन्ति स्म । अतः दैनन्दिनगृहकृत्येषु मग्नानां महिलानाम् अपेक्षया एतासाम् अधिकं स्वातन्त्र्यम् आसीत् । सतीसम्प्रदायस्य वाराङ्गनावृत्त्याः च अनुमतिः आसीत् । [भारतम्|भारतस्य]] सर्वसामान्यः जातिपद्धतिः अत्रापि अस्मिन् काले आसीत् । पश्चिमसमुद्रस्य तीरस्य नौकानिस्थानद्वारा व्यापारोद्यमः प्रचलति स्म । अरब्बा, यहूदयः, पर्शियाजनाः, चैनीयाः, मलयाद्वीपीयाः, च अनेन मार्गेण आगच्छन्ति स्म । [[होय्सळवंशः|होय्सळानां] राज्यविस्तारकारणेन देशान्तरगतानां जनानां नूतनकलाः संस्कृतिः च प्रसृताः । बृहत्पदेशाः पत्तनम् इति केन्द्रस्थानं नगरम् इति सम्बोधयन्ति स्म । [[श्रवणबेळगोळ]]सदृशानि मतकेन्द्राणि सप्तमशतके एव प्रसिद्धानि चेदपि वैदेशिकानां धनाढ्यवणिजां कारणेन द्वादशशतके प्रमुखवाणिज्यकेन्द्राणि अपि अभवन् । विष्णुवर्धनस्य चेन्नकेशवदेवालयस्य निर्माणस्य पश्चात् [[बेलूरु]] राजमन्यताम् आप्नोत् । बृहद्देवालयानां निर्माणं, धार्मिकसमाजिकन्यास्यस्य द्योतकम् असीत् । राजा प्रत्यक्षदेवता इति वचने जनाः विश्वसन्ति स्म । देवालयस्य निर्माणं न केवलं धार्मिकविधानं किन्तु वाणिज्यव्यवहारस्यापि केन्द्रम् अपि आसीत् । एतत् केवलं कस्यचित् समाजस्य समुदायस्य वा स्थानम् नाभवत् । [[बेलूरु]]चेन्नकेशवदेवालस्य निर्माणस्य प्रतिफलवत् शैवव्यापारिणः धनं दत्वा [[हळेबीडु]]होय्सळेश्वरदेवालयस्य निर्मापकाः अभवन् । अनेन मन्दिरेण [[हळेबिडु]]प्रदेशस्य प्रतिष्ठा अपि संवर्धिता । होय्सळेश्वदेवालयः जात्यतीतः आसीत् । अत्र सर्वे हैन्दवाः अगत्य पूजां कुर्वन्ति स्म । [[सोमनाथपुर]]देवालयः केवलं वैष्णवसम्प्रदायस्य केन्द्रम् आसीत् । धनाढ्यकृषकैः निर्मिताः देवालयाः तदानीन्तनस्य कृषिप्रधानसमाज्स्य, आर्थिकराजनैतिकसांस्कृतिकधार्मिकानाम् अवश्यकताः पूरयन्ति स्म । प्रोत्साहनम् अतिरिच्य बृहन्मन्दिराणि विविधवृत्तिनिरतानाम् अपि उयोगावकाशान् अकल्पयन् । एव मन्दिराणि स्थलीयसमजस्य आधारस्तम्भानि अभवन् ।
 
"https://sa.wikipedia.org/wiki/होय्सळवंशः" इत्यस्माद् प्रतिप्राप्तम्