"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (clean up, replaced: , → , (4) using AWB)
No edit summary
 
दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न केवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति--सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्देह: । वयमपि अवश्यं तं सहकुर्मः"इति।
कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षानि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः [[बिजापुरम्|बीजपुरराजस्य]] (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता-
एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव करोतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्येण, दर्पेण च सः सभातः बहिरागतवान् ।
 
'''छत्रपतिशिवाजी''' (१६३०-१६८०) [[मराठा साम्राज्य]]स्य संस्थापकः।
बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् ।
स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं [[पुणे|पुण्यपत्तनं (पूना)]] प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः ।
एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तं [[रामायणम्|रामायणे]] [[महाभारतम्|महाभारते]], पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं [[रामः|रामः]], [[कृष्णः|कृष्णः]], [[अर्जुनः|अर्जुनः]], [[भीमः|भीमः]] भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यम्]] आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|right|'''छत्रपतिः शिवाजी''']]
==’शिवनेरी’ भाग्यम्==
शिवराजः तत्क्षणं निर्णयं स्वीकृतवान् । पुरन्दरदुर्गं बीजपुरसुलतानस्य अधीने आसीत् । स्नेहपूर्णवाक्यैः तस्य दुर्गस्याधिपतेः हृदयं जित्वा शिवराजः स्वसैन्यं तस्मिन् दुर्गे न्यवेशयत् । फतेखानः स्वसैन्येन सह यदा तत्र प्राप्तः तदा पुरन्दरदुर्गस्थं शिवराजसैन्यं अवितर्कितम् आक्रमणं अकरोत् । स्वराज्यस्थापनसङ्ग्रामाय एषा प्रथमपरीक्षा पराक्रमवतः शिवराजसैन्यस्य आक्रमणेन पराजितः फतेखानः युध्दभूमिं त्य्क्त्वा पलायितवान् । अन्यत्र शम्भुराजः अपि फरादखानं जितवान् ।
सङ्ग्रामेषु जयं प्राप्तवान्, किन्तु पिता कथं रक्षणीयः ? इति शिवराजः चिन्तयन् आसीत् । हठात् तस्य मनसि विद्युदिव एकः विचारः आगतः । शत्रोः तन्त्रात् अपि उत्तमतन्त्रयोजने शिवराजः समर्थः । तस्मिन् समये देहलीं शाहजानः परिपालयति स्म । शिवराजः तस्मै एकं पत्रं लिखितवान् । 'मम पितरं बीजपुरसुलतानः कारागारे बध्दवान् । तं यदि मुक्तं करिष्यति तर्हि अहं, मम पिता च भवतः सेवायाम् उपस्थितौ भविष्यावः 'इति । बीजपुरसुलतानः पत्रस्य विषयं ज्ञातवान् । बहुकालतः देहलीचक्रवर्ती (बादशाहः)बीजपुरस्य आक्रमणप्रयत्ने अस्तीति सः जानाति स्म। अस्मिन् समये चक्रवर्ती आक्रमणार्थम् स्वयम् आगच्छति चेत् स्वस्य स्थितिः का ? इति भावना यदा मनसि आगता, तदा तस्य हृदयं भग्नमिवाभवत् । तत्क्षणं शाहराजं सगौरवम् अमुञ्चत । एवं शिवराजः स्वपराक्रमेण, बुध्दिचातुर्येण च स्वराज्यस्थापने समागताः संकटस्थितीः अतिक्रान्तवान् ।
अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- [[प्रतापगडदुर्गम्|प्रतापगृह]]-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहता आवृता । 'शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान्, ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां द्वेष्टि स्म। सा प्रख्यातान् सर्वान् वीरानाहूय सभामेकाम् आयोज्य -"शिवराजं बन्धुं यस्य धैर्यसाहसादिकम् अस्ति, सः एतं खड्गं स्वीकरोतु’ इति पन्थाह्वानं कृतवती । सभायाः मध्ये पटवस्त्रेण आवृतः खड्गः आसीत् ।तदा बृहदाकारकः दृढकायः कश्चन सेनापतिः उत्थितवान् । पुरतः आगत्य तं खड्गं गृहीतवान् । तस्य नाम अफजलखानः । आदिलशाहसभायां मुख्यसेनानीषु अयम् एकः ।यथा अयं पराक्रमी, तथा वञ्चकः, क्रूरश्च । पञ्चविंशतिसहस्रयोधै: युक्तं बलिष्ठं सैन्यं स्वीकृत्य सः शिवराजं ग्रहीतुं प्रस्थितवान् ।
२,६५६

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/271817" इत्यस्माद् प्रतिप्राप्तम्