"प्रतिभा पाटिल" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इति प्रयोक्त्रा प्रतिभा देवीसिंह पाटिल इत्येतत् प्रतिभा देवीसिंह पाटील इत्येतत् प्रत...
No edit summary
पङ्क्तिः २८:
|religion = [[ब्रह्मकुमारीविश्वाध्यात्मविश्वविद्यालयः]]
}}
प्रतिभा पाटील महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७ तमे वर्षे बुधवासरे श्रीमती प्रतिभापाटीलमहोदया [[भारतम्|भारतस्य]] प्रथमा राष्ट्रध्यक्षा इति नूतनां पदवीम् अलङ्कृतवती ।
== काचित् महिला, राष्ट्राध्यक्षरूपेण==
महिला इति कृत्वा देशस्य स्थितिम् सम्यगवगत्य प्रतिस्पन्दनसमये यथा एकया मात्रा व्यवह्रियते तथैव व्यवहरन्त्याः तस्याः सर्वेषु अपि कार्येषु ममता द्रष्टुं शक्यते । [[जलगांव|जलगांव]] इति एतादृशसामान्यग्रामात् [[देहली|देहल्यां]] विद्यमानं राष्ट्रपते: भवनं प्राप्तुं कृतः जीवनसङ्घर्षः अत्यन्तं रोचकः एव ! कुत्रापि विवादस्यास्पदम् अदत्वा आडम्बरेण विना स्वकार्यं निर्वहन्ती आसीत्। अतिदायित्वभरिते स्थाने भूत्वा बि. डि. जत्ति, वसन्तराव् नायिक, वै. बि. चौहाणप्रभृतीनां राजकीयनेतृणां स्मरणं कारयति ।
प्रतिभाकुमारी पाटीलमहोदयाया: जन्म १९-१२-१९३४ तमे दिनाङ्के [[महाराष्ट्रराज्यम्|महाराष्ट्रस्य]] जलगांवसमीपस्थनादगांव् इति ग्रामस्य कस्यचित् धनिकस्य परिवारे अभवत् । तस्या: पितु: नाम नारायणपग्लुराव् इति । तस्या: वंशस्था: [[राजस्थानराज्यम्|राजस्थानमूलीया:]] । तत: आगत्य जलगांवमध्ये वसतिं प्रकल्प्य प्राय: शतं वर्षाणि एव अतीतानि स्युः। प्राथमिकं माध्यमिकं शिक्षणं च जलगांवस्थे आर्. आर्. विद्यालये समापितवती। पश्चात् स्वस्य एम्. ए. शिक्षणं मूल्जि- जैत्-कालेज् मध्ये समापितवती। भाषणस्पर्धायाम् अतीव प्रतिभासम्पना एषा अनेकान् पारितोषिकानजयत् । एष प्रमुखा [[टेबल्-टेनिस्-क्रीडा|टेबलटेन्नीस्क्रीडापटु:]] अपि आसीत् । १९६२ मध्ये महाविद्यालयत: एम्. जि .कालेज् क्वीन् इति चिता एषा तस्मिन्न् एव वर्षे [[अदिलाबाद्|अदिलाबाद्]]-मध्ये भारतीय राष्ट्रिय-कांग्रेस्-पक्षत: अवसरं प्राप्य [[विधानसभा|विधानसभा]] निर्वाचने स्थित्वा जयं प्राप्तवती । जुलाय् -७- १९६५ तमे वर्षे श्री देवीसिंहशेखावत् इत्यनेन सह विवाहमरचयत् । कतिचिद्वैयक्तिककारणैः उपनाम पाटील इत्येव अस्थापयत् । एतयो: दम्पत्यो: एका पुत्री एक: पुत्र: च स्तः।
==प्रतिभापाटीलमहोदयाया: वृत्तिजीवनम्==
प्रतिभाभगिनी सर्वप्रथमं समाजसेविका भूत्वा स्ववृत्तिमारभत। एम् .ए , तथा ए्ल्. ए्ल् .बि पदवीं एम्. जे. कलाशाला जलगांवमध्ये समाप्य जलगांवमध्ये न्यायवादिनी भूत्वा वृत्तिजीवनमारभत।
राजस्थानराज्यस्य षोडशतमराज्यपालत्वेन प्रतिभा पाटीलमहोदया २००४ तमे वर्षे राष्ट्र्पतिनिर्वाचनपर्यन्तम् अपि तत्रैव कार्यरता आसीत्। राज्यस्थानस्य प्रथामा महिला [[राज्यपालः|राज्यपालिका]] अपि । २००७ तमे वर्षे राष्ट्रमुद्दिश्य सम्बोधनम् अकरोत् । तस्याः भाषणे महिलानां बालकबालिकानां हितमनुलक्ष्य विशिष्ठ: सन्देश: आसीत् । कित्तुरुराज्ञ्याः चेन्नम्माया: विग्रहं संसद्भवने समुद्घाटयन्ती महिलाया: महत्त्वं समाजे कियदस्ति इति उदजागरयत् ।
२००९ तमे वर्षे पुण्यपत्तने विद्यमाने लोहगांववायुक्षेत्रे सुखोय् विमाने अर्धघण्टां यावत् उड्डयमाना एषा एतादृशसाहसकार्यं कुर्वती विश्वस्य प्रथमा राष्ठ्राध्यक्षा(७४तमे वयसि)। विमानचालकेन लभ्यमानाः सर्वाः सूचनाः सम्यक् परिपालयन्ती क्षेमेणैव भूस्पर्शम् अकरोत् । तथैव अस्माकम् भूतपूर्वराष्ठ्रपति: ए.पि.जे.अब्दु्लकलाम् अपि तस्य कार्यावधौ सुखोय् मध्ये उड्डयनम् अकरोत्।
राजकीयक्षेत्रे श्रीमती प्रतिभापाटील महोदयया निर्मितानि कतिचन पदचिह्नानि।
"https://sa.wikipedia.org/wiki/प्रतिभा_पाटिल" इत्यस्माद् प्रतिप्राप्तम्