"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५४:
गुरुः दारिद्र्येण पीडितोऽपि स्वजीवनं सर्वमपि आत्मविश्वासं नष्टवति समाजे पुनः आत्मविश्वासस्य, साहसस्य च प्रतिष्ठापनाय समर्पितवान् । डा. नारङ्गेन उक्तं कृपाणात्, गोलकास्त्रतः च दूरे तिष्ठन्तः सामान्यजनाः अपि वीराः भूत्वा युद्धं कृतवन्तः । क्षुरकाः, रजकाः, चर्मकाराः अपि सर्वेषां विस्मयं जनयन्तः वीराः जाताः । गुरुगोविन्दसिंहः स्वरचनेषु परमात्मानं बहुविधं वर्णितवान् । तस्मै 'काल’स्य नाम अत्यन्तं रोचते स्म । " सज्जनानां शुभकल्पनाय, दुष्टानां विनाशाय, विश्वं सुस्थिरं कर्तुं च मया कृतायाः प्रतिज्ञायाः सम्पादनार्यं तेग (खड्गः) एक एव साधनम् । तेग की जय हो (खड्गस्य जयोऽस्तु) ।" इति सः लिखितवान् ।
==कवित्वम्==
[[हिन्दीभाषा|हिन्दीभाषायां]] वीरकविषु चान्द बरदाय्, भूषण इति नामद्वयं अधिकतया श्रूयते । भूषणकविः वीररसे अग्रस्थाने अस्ति। किन्तु गुरुगोविन्दसिंहः वीररसे सहजकविः । धर्मयुद्धार्थमेव सः कवित्वं लिखितवान् । एतादृशलेखकः अन्यः कोऽपि न दृश्यते । स्वस्य 'चण्डीचरित' काव्ये 'स्वयं वीरगतिं प्राप्नुयाम्’ इति आकाङ्क्षामपि अभिव्यक्तवान् गुरुगोविन्दसिंहः ।
डाक्टर् महेशसिंहः गुरुगोविन्दसिंहस्य तत्त्वमुद्दिश्य एवं लिखितवान् -" एषः विषयः अस्माभिः अवगन्तव्यः । गुरुगोविन्दसिंहः [[मुहम्मद्|महम्मदीयान्]] विरुध्द्य युद्धं कृत्वा आवेशं न प्रदर्शितवान् । केवलं [[तुर्की|तुर्कजनान्]] विरुध्द्य एव सः सङ्ग्रामं कृतवान् । सः म्लेच्छशब्दं प्रयुक्तवान् । एष एव विशेषः भूषणस्य कवित्वेऽपि दृश्यते । [[छत्रपतिः शिवाजिः|छत्रपतिः शिवाजी]], गुरुगोविन्दसिंहः इत्यादयः यां शक्तिं विरुध्द्य युद्धं कृतवन्तः तां राजनैतिकशक्तिं तुर्कशब्दः सूचयति।"
 
==वीरभक्तः==
गुरुगोविन्दसिंहः सर्वामपि हिन्दुशक्तिं सङ्घटितवान् इत्यत्र शैव-शाक्तेय-वैष्णव-साहित्यानुवादः प्रमाणरूपेण दृश्यते । तस्य स्वभावोऽपि अद्वितीयः अस्ति । सः कश्चन भक्तः । अन्यायं विरुद्ध्य प्रजाभिः कर्तव्यस्य उद्यमस्य महानायकः अपि सः । सूरदासः, कबीरदासः, गुरुनानकः इत्यादयः सर्वेऽपि भक्ता एव । किन्तु गुरुगोविन्दसिंहः वीरत्वयुक्तः भक्तः । एवमेव मानवाः सर्वे समाना इति, सर्वेषां हृदयेषु एकम् एव भगवतः ज्योतिः ज्वलतीति तस्य अचलः विश्वासः।
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्