"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

पङ्क्तिः ५८:
 
==वीरभक्तः==
गुरुगोविन्दसिंहः सर्वामपि [[हिन्दूधर्मः|हिन्दुशक्तिं]] सङ्घटितवान् इत्यत्र [[शैवसम्प्रदायः|शैव]]-[[शाक्तेय|शाक्तेय]]-[[वैष्णवम्|वैष्णव]]-साहित्यानुवादः प्रमाणरूपेण दृश्यते । तस्य स्वभावोऽपि अद्वितीयः अस्ति । सः कश्चन भक्तः । अन्यायं विरुद्ध्य प्रजाभिः कर्तव्यस्य उद्यमस्य महानायकः अपि सः । [[सूरदासः|सूरदासः]], कबीरदासः|कबीरदासः]], [[गुरुनानकः|गुरुनानकः]] इत्यादयः सर्वेऽपि भक्ता एव । किन्तु गुरुगोविन्दसिंहः वीरत्वयुक्तः भक्तः । एवमेव मानवाः सर्वे समाना इति, सर्वेषां हृदयेषु एकम् एव भगवतः ज्योतिः ज्वलतीति तस्य अचलः विश्वासः।
 
==रणोत्साहः==
गुरुगोविन्दसिंहस्य जीवनसमये देशः महत्यां विपदि आसीत् । विदेशीयानाम् आक्रमणमारभ्य ६०० वर्षाणि अतीतानि । प्रजानाम् उपरि अत्याचारैः कञ्चित्कालं, सङ्घर्षणैः कञ्चित्कालं, मध्ये,मध्ये सज्जनत्वेन च कञ्चित्कालं देशे विदेशीयानां शासनं प्रचलितम् । स्वीयां सर्वां शक्तिं भारतदेशसंस्कृतेः धार्मिकविश्वसानां विनाशायैव उपयुक्तवतां औरङ्गजेब- इत्यादीनां शासनं प्रचलितम् । तादृशस्थितौ तां राक्षसशक्तिं निग्रहीतुं देशप्रजानां पालने पीड्यमानजनानां सङ्घटनं रचितवान् । सामान्यजनानां विचारेषु परिवर्तनस्यैव सः अधिकप्राधान्यं दत्तवान् । आत्मविस्मृतिं दूरीकृत्य तेषु आत्मविश्वासं जनयितुं सः "लक्षेणापि जनैः एको भूत्वा युद्धं कुरु" इति रूपेण उत्साहं जनितवान् ।
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्