"संहतिः (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २७:
::::'''१ औन्सम् = २८.३५ ग्रामाः
::::'''१ पाउण्डम् = ४५३.६ ग्रामाः'''
 
==भारसंहत्योरन्तरम् ==
 
(१) किञ्चिद्वस्तु येन पदार्थेन निर्मितं भवति तस्य परिमाणं वस्तुनः संहतिरित्यभिधीयते । पृथिव्याम् यत्र कुत्रापि ध्रुवयॊः, भूमध्यरेखोपरि, पर्वते अथवा भूगर्भस्थिते कस्मिंश्चिद् आकरे वा वस्तुनि नीयमाने तस्य संहतिः सदैव एकसदृशी तिष्ठति यावत् स्तद्वस्तुभङ्गो न जायतेऽथवा तस्मिन् कश्चिद् पदार्थे न युज्यते । संहितिर् एका अदिग्रशिरिति । अर्थात् तत्र निश्चितैकादिग् न भवति ।
 
(२) पृथ्वी स्वकेन्द्रं प्रति येन बलेन किञ्चिद्वस्तु समाकर्षति तद्बलमेव तद्वस्तुनो भार इत्यमिधीयते। भूमध्यरेखोपरि भारः ह्रसति ध्रुवयोरुपरि अधिकायते भूतलापेक्षया पर्वतेषु भूगह्वरेषु च न्यूनो भवति । भूकेन्द्रे प्रत्येकस्य भारः शून्यो भवति किन्तु तस्य संहत्यां किञ्चिदन्तरम् न जायते ।भार एका सदिग्राशिरस्ति । अर्थात् तस्य एका निश्चिता दिग् भवति ।
 
(३) यदा कश्चिल्लघुपदार्थः जले प्लवनं करोति तर्हि तस्य भारः शून्यो भवति । किन्तु तस्य संहत्यां किञ्चिदन्तरं न भवति ।
 
(४) यदि चेद् कश्चिद् लोहखण्डः कूडलनीतुलायां प्रलम्ब्यते तदनु तस्याधः चम्बकैकः स्थाप्यते तर्हि कुंडलिनीतुलाया आकर्षणं वर्द्धते । अर्थात् पदार्थस्य भारः वृद्धिं गच्छति तस्य संहत्याञ्च किञ्चिद् परिवर्तनं न जायते ।
 
एतावत्पर्यन्तं संहरेव भारः इत्यभिहितः । यथा कस्यचिद् पदार्थस्य भारः ५० ग्रामपरिमित इति ।
किन्तु, वैज्ञानिकदृष्ट्या ईदृशं कथनं त्रुटिपूणं भवति । यतः संहितः भारश्च द्वौ पृथक् राशी स्तः । भार एक प्रकारकं बलं । अतः तस्य मापः बलस्य मात्रकैः कर्तुं श्क्यः नतु संहत्याः मात्रकैः । शहत्यां कोऽपि दिग्विषयको विचारः न भवति । अर्थात् संहितर् एका अदिग्राशिर् (scalor) इति । किन्तु भारस्य एका निश्चिता दिग् भवति । अर्थात् इयम् एका सदिग्राश्र् (vector) इति । अतएव वैज्ञानिक शुद्धतायाः दृष्ट्या अस्माभिर् वाच्यं यत् कस्यचित् वस्तुनः संहतिः ५० ग्रामपरिमिता ततुतस्य भार तावत्परिमाणक इति । दृष्ट्या अनया भारमञ्जूषा ( Weight Box) अपि संहिताम‘ज्जूषा इत्यभिधातव्या ।
 
[[वर्गः:भौतिकविज्ञानम्]]
"https://sa.wikipedia.org/wiki/संहतिः_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्