"सङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
शृ
पङ्क्तिः ९:
 
==परिभाषा==
सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् श्रुण्वन्शृण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतायाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धे भरतेन्दुः हरिश्चन्द्रः इति विद्वान् " मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत् " इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् ।
 
==प्रादुर्भावः==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्