"अस्तेयम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''अस्तेयं''' नाम चौर्यकर्मणः निवृत्तिः । मनुष्यः धनाभावेन पीडितः लोभवशात् चौर्यकर्मणि प्रवृत्तो भवति । स्तेयकर्म अपि अनेकविधं भवितुम् अर्हति । केनापि अलक्षितं निभृतं कस्यापि धनादीनां हरणं चौर्यम् इति कथ्यते । सशस्त्रदलसाहाय्येन आक्रम्य पश्यतः सपरिवारस्य कस्यचिद् धनादीनां लुण्ठनं भवति द्वितीयः प्रकारः । तृतीय प्रकारः भवति तस्करकर्म नाम विधिनियमान् उल्लङ्घ्य शासनस्य कररुप्ं राजस्वम् अदत्वा मादकद्रव्यादिनिषिध्दवस्तूनां विदेशेभ्यः आनयनम् । सर्वाणि एतानि कर्माणि दण्डार्हाणि ।
आधुनिकन्यायव्यवस्थानुसारं कस्यापि अपराधः यावत् सप्रमाणं न सिध्यति तावत् स अपराधी इति न गण्यते । एवं व्यवहारतः चौर्थं न अपराधः, अपि तु तस्मात् निग्रहणम् अपराधः इति भवति आधुनिकी धारणा । एतावता केवलं विधिनियमाः दण्डभयं वा अपराधप्रवृत्तिम् अवरोध्दुं न क्षमाः ।
"https://sa.wikipedia.org/wiki/अस्तेयम्" इत्यस्माद् प्रतिप्राप्तम्