No edit summary
पङ्क्तिः २८:
[[File:Communism.svg|thumb|right|250px|विश्वे साम्यवादीनां स्थितिः]]
मार्क्स् विचारधारा विश्वव्यापिनी विद्यते। एतस्या विचारधारायाः समस्याः खलु मानवस्य समस्याः सन्ति। एतया दृष्ट्या प्रतिदेशस्य अधिकारोऽस्ति यत् सः अनया विचारधारया स्वकीयं मार्गं प्रकाशवन्तं विदध्यात्। मार्क्सप्रतिपादितसिद्धान्तानां प्रचारको मूर्तरूपप्रदश्च लेनिन (Lenin) महोदयः आसीत्। स एव साम्यवादं व्यावहारिकस्वरूपं प्रदत्तवान्। मार्क्समहोदयस्य सन्देशं प्रतिगृहं स एव प्रसारितवान्-
<center>'''विश्वस्य श्रमिकःश्रमिक! संगच्छध्वम्। केवलं स्वपाशबन्ध एव विनाश्यः, नान्या भवता हानिः । विजयश्रीर्युष्मान् वृणीत''', <br />
'''(workers of the world, unite. you have nothing to lose but your chains and have a world to win.)'''</center>
[[File:Lenin.gif|thumb|250px|left|सभायां लेनिन्]]
स एव जार-शासनविनाशाय धनवादक्षयाय च सर्वहारावर्ग संगृह्य विद्रोहं प्रवर्तयत् । तत्सहयोगम् अवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् जारशासनसंहारेण विश्वे सर्वप्रथम श्रमिकशासनं प्रवृत्तम् एवं प्रकारेण रूसदेशे समाजवादिलोकतन्त्रस्य संस्थापनम् अभूत्। रूसदेशे साम्यवादस्य साफल्यं राष्ट्राणि अन्यान्यपि साम्यवादसंस्थापनार्थ प्रैरयत्। श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः। यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त। साम्यवादिसमाजसंस्थापनार्थ च साम्यवाद-अनुयायीनि शासकानि प्रावर्तन्त। तेषु चीनदेशस्य नाम प्राधान्येन उल्लेखमर्हति। सङ्कीर्णविचारवशात् चेत् कोऽपि देशोऽस्या विचारधारायाः आश्रयणे वेपते बिभेति वा, कि वा स तस्यां विविधान् आरोपान् आरोपयति इत्येषा वार्ता तु अन्यैव।
 
==साम्यवादालोचनम्==
"https://sa.wikipedia.org/wiki/समानतावादः" इत्यस्माद् प्रतिप्राप्तम्