प्रमुखा विकल्पसूचिः उद्घाट्यताम्

समानतावादः कार्ल् मार्क्सेन परिपोषितः प्रसारितश्च । स एव “माक्सवाद’ इत्यनेन नाम्नापि विश्रुत आस्ते। साम्प्रतं जगदिदं प्रायशः वर्गद्वयसंविभक्तम्-

  • समानतावादिनः (Communists)
  • धनवादिनश्च (Capitalists)
समानतावादीनां चिह्नम्

द्वयोरप्येतयोर्वादयोः रूस-अमेरिका-देशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परीक्षणं च संदृश्यते। रूसदेशे समानतावादस्य, अमेरिकादेशे धनवादस्य च प्रसारणं दृश्यन्ते। जर्मनदेशीयो विद्वान् कार्ल् मार्क्स् महोदयस्य 'दास कापिटाल्" प्रथिततमो ग्रन्थः वर्तते। तत्र समानतावादस्य उपयोगित्वं, महत्त्वं, लोकोपकारित्वं च विशदीक्रियते। समानतावादस्य प्रवर्तकेषु ‘एञ्जेल्स् (Angels) महोदस्य नामधेयोऽपि सादरम् उल्लिख्यते। विश्वस्य सकलामपि महापरिवर्तनकारिण सन्देश जनसमुदायं प्रति प्रयच्छन् निजगाद–“अयि संसारस्य श्रमजीविनो मानवाः, संगच्छध्वं संवदध्वञ्च यूयम्, स्त च संघटिताः। मानवसमाजस्य इतिहास-अवलोकनेन ज्ञातं भवति यद् यस्मात् कालात् सृष्टिरारब्धा जाता तस्मादेव कालात् मानव-समाजः समृद्धिशालिनां धनपतीनां वर्गेण सदैव शोषणमेव नीतः। ते हि समाजं द्वयोर्विरोधिवर्गयोर्विभक्तं कृतवन्त:-शोषके शोषिते च। अधिनायकतावाद एव साम्राजवादिनी भावनाम् उत्पाद्य समाजस्य रक्तमपिवत् कृतवांश्च तं सर्वविधतया जर्जरम्।

समानतावादस्य सिद्धान्ताःसम्पाद्यताम्

सञ्चिका:Soviet Union, Lenin (55).jpg
समानतावादस्य प्रचारकः लेनिन्

सामाजिकीं विषमतां दूरीकर्तुं मावसः समानतावादं प्रवर्तयामास। माक्र्सस्य समानतावादसम्बन्धिनो विचारा: अतिसंक्षेपेण इमे सति

  1. वर्गसंघर्षस्य विश्वव्यापिनी सत्ता समूलम् उन्मूल्य वर्गहीनस्य समाजस्य प्रतिष्ठापनम्।
  2. जनस्य तत्क्षमतानुकूले कर्मणि नियोजनं तदपेक्षितापेक्षणीयजीवनोपयोगिपदार्थानां प्रस्तुतीकरणम्।
  3. वर्गसंघर्ष-संवृत्य वर्गहीनं च समाजं प्रतिष्ठाप्य तस्य च सहायतया असमानताया अपनयनम्।
  4. उत्पाद्यसाधनेपु व्यक्तिविशेषस्य वर्गविशेषस्य वा स्वामित्वमपसार्य समाजस्य राज्यस्य वा अधिकारस्य समुपस्थापनम्।
  5. ईश्वर-धर्म-भाग्यादि-प्रवृत्तीनां वारणम्।
  6. समानतावादस्य लक्ष्यं न कश्चिद् देशविशेषो भूभागो वा भवेदपि तु सकलः संसार एव स्यात् ।
  7. धनवादं विनाश्य सर्वविधशोषण-प्रकारस्य विनाशनम् ।
  8. क्रियामूलकमेव जीवनोपयोगि-वस्तुवितरणम् ।

यत् उत्पादन-साधनेषु व्यक्तेर्वर्गविशेषस्य वा स्वत्वमपहृतं भवेत् भवेच्च तत्र राज्यस्य अधिकारः तदा व्यक्त्या व्यक्तेर्वर्गस्य वर्गेण शोषणं सम्भवमेव न कदापि भवेत्।


विचारधारासम्पाद्यताम्

 
समानतावादस्य प्रवर्तकः कार्ल् मार्क्स्

विचारधारी समयानुसारिण्यो भवति साम्यवादिनी विचारधारा व्यक्तिं प्रति गरीयस्कता न प्रयच्छति अपि तु सा समाजम्प्रति त विश्राणयति। समानतावादप्रक्रियाश्रयेण सर्वेषामेव मानवानां विकासादिकार्येषु समानोऽवसरः, सदृशा एव च सुविधाः लप्स्यते। तदा समाजे न कश्चन शोषको, न च कश्चन शोषितो भविता। एतादृशस्य वर्गहीनसमाजस्य संस्थापनं समानतावादस्य प्रक्रिययैव सम्भाव्यते। समानतावादपद्धतौ जनशासितस्य राज्यस्य एव उत्पादनसाधनेषु पूर्णाधिकारः स्यात्। मार्क्सवादस्य कथनमिदमस्ति यद् उत्पादकोषु साधनेपु राष्ट्रस्य एव अधिकार: पूर्णत्वेन एतेषु अपि लघूद्योगेषु भवितुं योग्योऽस्ति। मार्क्स-महोदयः राज्यस्य अस्तित्वमपि नानुमनुते। वास्तविकं शासनं तु जनशासनमेव तस्याभिमतम्। प्रान्तीयभेदान् प्रदेशादि भेदाश्च अपवार्य विश्वसमाजसंस्थापनम् अभिमतत्वेन प्रतिपादयति। एष वादो हि एकनायकतीमच्छति, अस्ति स हिंसात्मकः, भौतिकतोपासकः, आध्यात्मिकतायां द्रुह्यति, वैयक्तिकं स्वातन्त्र्यमपहरति इत्यादिबहवो दोषा: आरोपाश्च अस्मिन् वादे आरोप्यन्ते। परं वैज्ञानिकविश्लेषेण सिद्धयति यदि उपरिष्टादुक्ता दोषा वितथा: नैष वादो व्यक्तेरधिकारमपहरति अपितु स सर्वहद्वर्ग स्यैवाधिकारितायां प्रहारं करोति। तदीया हिंसा रक्तसम्बन्धिनी न, अपि तु शोषणसम्बन्धिन्यस्ति।

समानतावादस्य प्रसारःसम्पाद्यताम्

 
विश्वे साम्यवादीनां स्थितिः

मार्क्स् विचारधारा विश्वव्यापिनी विद्यते। एतस्या विचारधारायाः समस्याः खलु मानवस्य समस्याः सन्ति। एतया दृष्ट्या प्रतिदेशस्य अधिकारोऽस्ति यत् सः अनया विचारधारया स्वकीयं मार्गं प्रकाशवन्तं विदध्यात्। मार्क्सप्रतिपादितसिद्धान्तानां प्रचारको मूर्तरूपप्रदश्च लेनिन (Lenin) महोदयः आसीत्। स एव समानतावादं व्यावहारिकस्वरूपं प्रदत्तवान्। मार्क्समहोदयस्य सन्देशं प्रतिगृहं स एव प्रसारितवान्-

विश्वस्य श्रमिक! संगच्छध्वम्। केवलं स्वपाशबन्ध एव विनाश्यः, नान्या भवता हानिः । विजयश्रीर्युष्मान् वृणीत,
(workers of the world, unite. you have nothing to lose but your chains and have a world to win.)
 
सभायां लेनिन्

स एव जार-शासनविनाशाय धनवादक्षयाय च सर्वहारावर्ग संगृह्य विद्रोहं प्रवर्तयत् । तत्सहयोगम् अवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् जारशासनसंहारेण विश्वे सर्वप्रथम श्रमिकशासनं प्रवृत्तम् एवं प्रकारेण रूसदेशे समाजवादिलोकतन्त्रस्य संस्थापनम् अभूत्। रूसदेशे समानतावादस्य साफल्यं राष्ट्राणि अन्यान्यपि समानतावादसंस्थापनार्थ प्रैरयत्। श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः। यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त। साम्यवादिसमाजसंस्थापनार्थ च समानतावाद-अनुयायीनि शासकानि प्रावर्तन्त। तेषु चीनदेशस्य नाम प्राधान्येन उल्लेखमर्हति। सङ्कीर्णविचारवशात् चेत् कोऽपि देशोऽस्या विचारधारायाः आश्रयणे वेपते बिभेति वा, कि वा स तस्यां विविधान् आरोपान् आरोपयति इत्येषा वार्ता तु अन्यैव।

समानतावादालोचनम्सम्पाद्यताम्

एतद् निश्चयेन वक्तुं शक्यते यत् समानतावादस्त सिद्धान्तः लोकप्रियः, जन-अभ्युदयकारी, शोषणप्रक्रियाविनाशकः, शोषितपीडननिवारकः, अत्याचारादिदोषशमकः लोके प्रचरिष्यति। स्व-अधिकारलाभप्रेरिता जनाः इमं वादं सादरम् आश्रयते । शोषणप्रक्रिया तु विश्वव्यापिनी वर्तते ।

एतद् सुविदितं यत् समानतावादप्रक्रिया लोकोपकारिणी समाजस्य उन्नतिसाधिका च। परं विचारदृशा परीक्ष्यते चेत् तत्र केचन दोषा निसर्गसिद्धाः । स्व-इष्टसाधनार्थं विद्रोहेण समं हिंसाश्रयणमपि न विश्वशान्तिसाधनम्। आस्तिक्यभावस्य अभावः नास्तिक्यम् एव एतस्य वादस्य मूलम्। नास्तिक्यवादे अङ्गीकृते का नाम शक्तिय विश्वशान्तिस्थापने प्रवर्तयेत्। साम्यवादे अन्नवस्त्रादिप्राप्तौ यथा बलम् प्राप्यते। न तथा नैतिक-आचार-विचारसंरक्षणे। अधिनायकवादस्य उत्पत्तिः अपि एतन्मतस्य दोषम् आवहति। वेदस्य निन्दा, धर्मस्य उपेक्षा, ईश्वरे अविश्वासः, नास्तिक्यबुद्धिः, संस्कृतिप्राप्तिकृल्यं, नैतिक-आचारआध्यात्मोपेक्षा चेत्यादय: दोषाः समानतावादस्य गरिमाणम् अपहरति। भौतिकतोपासकतास्येत्यत्र तु वक्तव्यमेतदेव यद् भौतिकताध्यात्मिकतयोः अन्तराले निकटतमो सम्बन्धो वर्तते । जीवनं नेतुमुभयमपि अपेक्षणीयम् द्वयोरपि स्व-स्व-महत्त्वमास्ते।

इत्थं निश्चितभावेन इदं समासेन वक्तुं शक्यं भवति यन्माक्सस्य साम्यवादिनी विचारधारा स्वल्पपरिवर्तनदोषपरिहारपूर्वकञ्च ग्राह्मास्ति।

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=समानतावादः&oldid=440581" इत्यस्माद् पुनः प्राप्तिः