"संस्कृतसाहित्यशास्त्रम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १२:
एवं शब्दार्थयो: अविनाभावस्य सत्त्वादेव महाकविना कालिदासेन। पार्वतीपरमेश्वरयो: उपमानत्वेन वागर्थयो: निर्देश: कृत: नान्ययो: कयोश्चित् ।
यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।
 
काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । [[अलङ्काराः|अलङ्कारशास्त्र]]मिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्त्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।
[[Image:Ravi Varma-Shakuntala columbia2.jpg|thumb|175px|[[अभिज्ञानशाकुन्तलस्य]] एकं सुन्दरं चित्रम्,[[राजा रविवर्मा]]]]
 
अस्मिन् शास्त्रे प्राधान्येन विचारणीयं भवति काव्यम् । ततश्च काव्यं लक्ष्यं भवति, शास्त्रं चेदं लक्षणम् इत्येतदुक्तं भवति । काव्यविचारपरेऽस्मिन् शास्त्रे [[काव्यस्य लक्षणम्]], तस्य प्रयोजनम्, तस्य कारणम्, वाच्य-लक्ष्य-व्यङ्ग्यरूपम् अर्थत्रैविध्यम्, व्यञ्जनेति व्यतिरिक्तवृत्ते: सयुक्तिकं समर्थनम्, रसादि:, काव्यगता दोषा:, तद्गता: गुणा:, शब्दविन्यासरूपा रीति:, यमकोपमादयोऽलङ्कारा:, कविसमयश्चेति विषया मुख्यतया विमृष्टव्या भवन्ति ।
 
काव्ये आत्मस्थानीय: पदार्थ: क इत्यस्मिन् विषये मतभेदात् नानासिद्धान्ता: आविर्भूता: सन्ति । तत्र भामहादय: प्राचीना: काव्ये आत्मस्थानीयम् अलङ्कारं वदन्ति । वामनो रीतिम् । आनन्दवर्धनो ध्वनिम् । कुन्तको वक्रोक्तिम् । क्षेमेन्द्र औचित्यम् । अभिनवगुप्तादयस्तु रसम् । इमे षट् सिद्धान्ता: प्रस्थानशब्देन व्यवह्रियन्ते । सम्प्रदाय इत्यनेनापि शब्देन एषां व्यवहार: । । क्रमेण तानि प्रस्थानानि यथा –
पङ्क्तिः ९३:
[[वर्गः:अलङ्कारशास्त्रम्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/संस्कृतसाहित्यशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्