सम्पादनसारांशरहितः
(लघु) (added Category:परिशीलनीयानि using HotCat) |
No edit summary |
||
दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न केवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति--सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्देह: । वयमपि अवश्यं तं सहकुर्मः"इति।
कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं
एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव करोतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्येण, दर्पेण च सः सभातः बहिरागतवान् ।
|