"अशोकः" इत्यस्य संस्करणे भेदः

Replacing Asokanpillar2.jpg with File:Ashoka_pillar_at_Vaishali,_Bihar,_India.jpg (by CommonsDelinker because: File renamed: [[:commons:Com:FR#Which_files_should_be_renamed?|File renaming criterion
पङ्क्तिः ५७:
 
= बौद्धधर्मग्रहणम् =
ततः सः हिंसां परित्यज्य बौद्धधर्मं गृहीतवान्। क्रि पू २६० तमे वर्षे बौद्धधर्मः तस्य राष्ट्रधर्मः अभवत्। सः बौद्धधर्मस्य प्रचारं कर्तुं प्रायतत। तस्य पुत्रः महेन्द्रः पुत्री सङ्गमित्रा बौद्धधर्मस्य प्राचाराय लङ्काम् अगच्छन्। सः सहस्राणि स्तूपविहाराणि निर्मापितवान्। तस्य अहिंसाविषये परमविश्वासः उत्पन्नः। सः पशूनां संहरणस्य निषेधम् अकरोत्। सः हैंसिकदण्डनानि न्यवर्तत। सः विद्यालयान् आरब्धवान् | कृषिवाणिज्ययोः कृते कुल्याः निर्मितवान्| सः पशुवैद्यशालानां निर्माणम् अपि कृतवान्। सः मार्गान् अपि समादधाति स्म। सः ब्राह्मणान् विदुषः अपि आद्रियते। अतः सः धर्माशोकः इति नाम्नि प्रसिद्धः अभवत्।</p>[[चित्रम्:Asokanpillar2Ashoka pillar at Vaishali, Bihar, India.jpg|thumb|right|350px|'''वैशाल्याम् स्थितः अशोकस्तम्भः''']]
<p>अशोकः युद्धात् अबिभेत् इति केचन मन्यन्ते। अतः एव सः अधीनराजानां सख्यम् अपोषयत्। तेन अनेके स्तम्भाः स्थापिताः। तेषु उपदेशवचनानि लिखितानि। एषु अभिलेखनेषु अशोकः प्रजान् "मम पुत्राः" इति संबोधितवान् अस्ति। तेषु मृगदावे स्थितः सिंहस्तम्भः प्रमुखः। एतत् एव भारतगणराज्यस्य मुद्रा अस्ति। अशोकः तेषु अभिलिखितवान् -" सर्वे नराः मम पुत्राः इव। यथा पिता स्वपुत्राणां कृते सौभाग्यं इच्छति तथा अहम् विश्वस्य सर्वेषां मानवानां कृते सुखम् एव इच्छामि।"''</P>
<p>तस्य प्रयत्नैः लङ्कराजः यवनराजाः च बौद्धधर्मं गृहीतवन्तः। तस्य स्तम्भे लिखितं च "<p>धर्मः अत्र अजयत् प्रान्तभूमौ च षट्शतयोजनानां दूरे यत्र यवनराजः अंतियोकः शास्ते। अपि। तत् देशाग्रे प्टोलेमी अंटीगोनः मगः अलेक्सान्द्र नाम चतुर्णाम् राज्ञाम् शासनेषु अपि। एवं दक्षिणदिशि पाण्ड्यचोळदेशयोः ताम्रपर्णी पर्यन्तम्।"</p>
"https://sa.wikipedia.org/wiki/अशोकः" इत्यस्माद् प्रतिप्राप्तम्