"उपनयनम्" इत्यस्य संस्करणे भेदः

(लघु) पुनर्निर्देशनं प्रति Naveen Sankar इत्यनेन उपनयनसंस्कारः तः उपनयनम् पृष्ठं स्थानान्तरितं
No edit summary
पङ्क्तिः २:
 
[[File:Upanayanam.jpg|thumb|200px|right|उपनयसंस्कारस्य चित्रम्]]
 
अध्ययनार्थं आचार्यस्य समीपं नीयते येन कर्मणा इति उपनयनम्। ब्राह्मणक्षत्रियवैश्यानां यज्ञसूत्रधारणादिरूपप्रधानसंस्कारः। बालसंस्काराणाम् उपनयनाख्यः [[संस्काराः|संस्कारः]] एव सर्वप्रधानः । वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते । उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत् । आचार्यश्च तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः ।
 
आगर्भाष्टमाब्दमा च षोडशाद्वर्षात् ब्राह्मणस्योपनकालः । क्षत्रियवैश्ययोरेकादशे द्वादशे च वर्षे कर्तव्यः । तदत्यते च यथाक्रमं द्वाविंशात् चतुर्विंशाच्च वर्षात् पूर्वं कर्तुं शक्यः । उपनयनक्रियायां प्राधान्येनानुष्ठीयमानं कर्म वटुना दण्डग्रहणं मेखलाजिनबन्धारणं च ।
"https://sa.wikipedia.org/wiki/उपनयनम्" इत्यस्माद् प्रतिप्राप्तम्