"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

विशेषणानि अपाकृतानि
पङ्क्तिः २८:
}}
 
'''सर्वपल्ली राधाकृष्णन्''' (Sarvepalli Radhakrishnan) (१८८८-१९७५) [[भारतम्|भारतवर्षस्य]] विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः [[भारतम्|भारतस्य]] द्वितीयः राष्ट्रपतिः आसीत्<ref>{{cite web | url=http://pib.nic.in/feature/feyr98/fe0898/f2808981.html | title=Dr Sarvepalli Radhakrishnan: The Philosopher President | publisher=Press Information Bureau, Government of India | accessdate=26 जून 2014}}</ref>। सः [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनानां]] पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डितः आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीयाः तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
 
== जननम्, बाल्यम्, शिक्षणञ्च ==
पङ्क्तिः ३७:
 
==राजनैतिकक्षेत्रे प्रवेशः==
[[१९५२]] तमे वर्षे शिक्षकः एषः ऐदम्प्राथम्येन [[भारतम्|भारतस्य]] उपराष्ठ्रपतित्वेन नियुक्तः । राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म । राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य [[भारतसर्वकारः]] [[१९५४]] तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास । अस्मिन् एव सन्दर्भे [[अमेरिका]]देशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य विमोचनमभवत् । डा [[राजेन्द्रप्रसादः|राजेन्द्रप्रसादस्य]] पश्चात् [[१९६२]] तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चितः राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् । अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगतेः प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्देहः। भारतीयशिक्षणक्षेत्राय सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः महान् शिक्षणतज्ञः अपि आसीत्। अतः एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते ।
 
== तस्य अनुपमं योगदानम् ==
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्