"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२८:
 
रोज् समीपे अधिका सैनिकशक्तिः आसीत् । क्रान्तिकारिणां सेना आङ्ग्लसैनिकैः विनाशिता । तेषां शतघ्न्यः अपि आङ्ग्लेयैः प्राप्ताः । एका महोर्मिरिव आङ्ग्लेयसेना ग्वालियरदुर्गाभिमुखं कूर्दितवती । इतः अन्यत्र गमनं विना मार्गान्तरं न दृश्यते राज्ञ्याः । अश्वस्य खलीनं दन्तैः गृहीत्वा हस्तद्वयेन खड्गद्वयं धृत्वा सा अग्रे गच्छन्ती आसीत् । केचन पठाननायकाः, रघुनाथसिंहः, रामचन्द्ररावदेशमुखः इत्यादयः अपि तया सह प्रस्थिताः । आङ्ग्लेयसेना तान् परितः व्यूहं रचितवती ।
रक्तप्रवाहाः प्रवहन्ति स्म । पश्चिमस्यां दिशि अस्तं गच्छ्न् सूर्योऽपि रक्तवर्णं प्राप्तवान् । अन्धकारः व्यापृतः । कश्चन् आङ्ग्लसैनिकः राज्ञ्याः अत्यन्तसमीपम् आगतवान् । तस्याः वक्षः स्थलं लक्ष्यीकृत्य भल्लं क्षिप्तवान् । राज्ञी तं सैनिकं स्वखड्गेन खण्डितवती । तस्याः शरीरं सर्वमपि व्रणयुक्तमासीत् । रक्तं प्रवहति स्म । तथापि विश्रान्तिं स्वीकर्तुं समयः नासीत् । आङ्ग्लसेना पृष्ठतः अनुधावन्ती आसीत् । राज्ञी यदा स्वर्णरेखानदीं पारयति स्म तदा केनचन आङ्ग्लसैनिकेन प्रयुक्तं गोलकम् तस्याः दक्षिणभुजं प्रविष्टम् । अनुक्षणं वामहस्तस्थेन खड्गेन सा तस्यरोजस्य शिरः कर्तितवती ।
 
अश्वः अपि राज्ञ्याः सहकारं कर्तुं नाशकत् । राज्ञ्याः एकः हस्तः युध्दाय अयोग्यः जातः । उदरात् रक्तं स्रवति स्म । शरीरे सर्वत्र व्रणाः जाताः । अक्षिद्वयं स्वयं निमील्यते । तस्याः दुरवस्थां दृष्ट्वा तस्याः अङ्गरक्षकः गुल् महाम्मदः अपि रोदनं कृतवान् । रघुनाथसिंह-रामचन्द्ररावादीनां साहाय्येन राज्ञी अश्वात् अवरुढा । " इदानीम् एकं क्षणमपि विलम्बं कर्तुं नैव शक्नुमः। त्वरया समीपस्थं बाबागङ्गदासस्य आश्रमं गच्छामः" इत्युक्तवान् रघुनाथसिंहः । रुदन्तं राज्ञ्याः दत्तकपुत्रं दामोदररावम् अश्वे आरोहितवान् रामचन्द्ररावः । तेषां रक्षकरूपेण रघुनाथसिंहगुल् महम्म्दौ अनुधावितवन्तौ ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्