"गजः" इत्यस्य संस्करणे भेदः

Puranastudy (talk) द्वारा कृता 424850 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः २१:
== शारीरकलक्षणानि, विविधानि नामानि च ==
मृगजातौ '''गजः''' बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति । अस्य मुखे अनेके दन्ताः सन्ति । मुखात् बहिः निर्गतौ दृढौ तीक्ष्णै च द्वौ दन्तौ स्तः । तस्मात् एव अस्य द्विरदः, दन्ती, दन्तावलः इति नामानि प्राप्तानि ।
गजस्य आनने लम्बमानः एकः दीर्घावयवः अस्ति । सः अवयवः शुण्डा इत्युच्यते । एषा शुण्डा गजस्य हस्तः इति कथ्यते । तेन कारणेन दन्तावलस्य हस्ती करी इति च नामनी स्तः । अस्माभिः हस्तः यथा उपयुज्यते तथैव गजेन शुण्डा उपयुज्यते । शुण्डया अयं बहूनि कार्याणि कर्तुं शक्नोति । भूमौ स्थितां सूचीमपि हस्ती पश्यति, करेण गृह्णाति च । गजानां शुण्डा एव नासिका । तया एव जिघ्राति । शुण्डायाः अस्न्तेअन्ते रन्ध्रमस्ति । तेन जलं गृहीत्वा मुखे निक्षिप्य पिबति । एवं द्वाभ्याम् अवयवाभ्यां जलं पिबतीति गजस्य 'द्विपः' इति संज्ञा वर्तते । द्विपस्य कटाभ्यां करात् च मदः स्रवति । अतः अस्य 'गजः' इति 'इभः' इति च पदप्रयोगः दृश्यते । गजवत्सानां कलभाः इति, गजस्त्रीणां करेणवः इति च व्यवहारः ।
[[चित्रम्:Decorated Indian elephant.jpg|thumb|left|भारते [[जयपुरम्|जयपुरस्य]] सालङ्कृतगजः]]
 
"https://sa.wikipedia.org/wiki/गजः" इत्यस्माद् प्रतिप्राप्तम्