"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

जन्मस्थानस्योपरि गवेषकाः बहुमताः
पङ्क्तिः १७:
संस्कृत-सङ्गीतयोरुभयोरप्ययं वेत्ता । अनेन रचितं गीतगोविन्दाख्यं काव्यं लोके प्रसिद्धम्।अद्यावधि वैष्णवमन्दिरेष्वेतस्य मधुरपदानि भक्तजनैः सादरं गीयन्ते । स्वयं जयदेवेन प्रतिपदं ताल-रागयोरुल्लेखः कृतः परं स्वरलिप्यभावादधुना तेषां जयदेवाभिप्रेतं चलनं न ज्ञायते । गीतगोविन्दे राधाकृष्णयोर्लीला वर्णिता:। राधाकृष्णयोर्लीला भारतीयमनस्सु माधुर्यभावं जनयन्त्येव । तत्रापि जयदेवस्य शब्दरचनेति दुग्धशर्करायोगोऽयं संजातः ! गीतगोविन्दस्यानुवादाः प्रायः सर्वासु भारतीयभाषासु जाताः । आङ्ग्ल-लेटिन-जर्मनभाषास्वपि तस्यानुवादा अभवन् ।
 
जयदेवस्य जन्म १२तमे शतके वङ्गप्रान्ते केन्दुलाख्येकेन्दुबिल्वाख्ये ग्रामेऽभवत् । दुर्दैववशाद्बाल्ये एव तस्य मातापितरौ दिवङ्गतौ । जयदेवो जगन्नाथपुरीमागत्य न्यवसत् । कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थितः । ततोऽनन्तरं तस्य विवाहः सम्पन्नः । पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत् । इतोऽपि तस्य दुर्दैवं न समाप्तम् । यौवने एव तस्य भार्या मृता । अतीव खिन्नः स यशोदानन्दनस्य शिष्यत्वमङ्गीकृतवान् । मृत्योः पूर्वं स स्वग्रामं प्राप्तः । तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत् । अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते । तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति ।
 
==परिचयः==
संस्कृतसाहित्यशृङ्गारगेयकाव्यस्य रचयिता जयदेवः । नादभावयोः माधुर्यार्थं प्रसिद्धस्य जगद्विख्यातस्य [[गीतगोविन्दम्|गीतगोविन्द]]काव्यस्य कर्ता अस्ति अयम् । अस्य माता रामादेवी, पिता च श्रीभोजदेवः । इमम् अंशं सः स्वस्य २४ तमे गीते प्रकाशयति -
:श्री भोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
:पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकविंत्वमस्तु ॥
जयदेवस्य भार्या भवति पद्मावती । स्वयं जयदेवः '''पद्मावतीचारणचक्रवर्ती''' इति '''वाग्देवताचरितचित्रितचित्तसद्मा''' इति च गीतगोविन्दे कथयामास ।
==जन्मस्थानम्==
ओरिस्साराज्यस्यओडिसाराज्यस्य पुरिमण्डले प्राचीनद्याः तीरे स्थिते केण्डुबिल्वग्रामेकेन्दुबिल्वग्रामे जयदेवः जन्म प्राप्नोत् । इमम् अंशं सः स्वस्य सप्तमे गीते सूचयति -
 
:वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
:किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्