"बुद्धजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
 
पङ्क्तिः ६:
 
बुद्धपौर्णिमायां समग्रजगतः बौद्धानुयायिनः बोधगयाम् आगत्य प्रार्थनां कुर्वन्ति । बिहारराज्ये स्थितं बोधगया इति क्षेत्रं बौद्धधर्मानुयायिनां पवित्रं तीर्थक्षेत्रम् अस्ति । गृहत्यागात् परं सिद्धार्थेन सत्यस्य अन्वेषणार्थं सप्तवर्षं यावत् तीव्रा साधना तपः च आचरतम् । ततः बोधगयायां बोधिवृक्षस्य अधः सः बुद्धत्वम् अथवा ज्ञानप्राप्तिम् अलभत । एषा घटना वैशाखपौर्णिमायां जाता । तदाराभ्य एषः दिवसः बुद्धपौर्णिमा इति नामा विख्यातः अस्ति । बुद्धपौर्णिमासमये कुशीनगरे महापरिनिर्वाणविहारे एकमासं यावत् तथागतबुद्धस्य स्मरणं क्रियते । इदं स्थलं यद्यपि गौतमबुद्धेन सम्बद्धम् अस्ति तथापि परिसरे विद्यमानाः अन्ये जनाः अपि अत्र महता प्रमाणेन आगत्य अत्रत्ये बुद्धविहारे श्रद्धया पूजनं कुर्वन्ति । अस्य विहारस्य माहात्म्यं बुद्धस्य महापरिनिर्वाणेन सम्बद्धम् अस्ति । अस्य विहारस्य स्थापत्यं अजिण्ठागुहायाः विहारसदृशम् अस्ति । अस्मिन् विहारे अन्तिमक्षणे मृत्युशय्यायां स्थितस्य बुद्धस्य ६.१ मीटर् दीर्घा मूर्तिः (भूस्पर्शमुद्रायाः) अस्ति । एषा मूर्तिः रक्तमृत्तिकया निर्मिता अस्ति । यस्मात् स्थलात् मूर्तेः कृते मृदाहरणं कृतं तस्मिन् स्थले एव एषः विहारः निर्मितः अस्ति । विहारस्य पूर्वस्यां दिशि एकः स्तूपः अस्ति । तत्र गौतमबुद्धस्य अन्तिमसंस्कारः जातः ।
 
{{gap}} बौद्धजन्मपर्वणि बौद्धानुयायिनः गृहे दीपान् ज्वालयन्ति । पुष्पैः गृहाणि अलङ्कुर्वन्ति । बौद्धपरम्परायाः धार्मिकग्रन्थानां पठनं वाचनं च क्रियते । विहारस्थानां गृहे विद्यमानानां च बौद्धमूर्तीनां पुष्पैः दीपैः च पूजनं क्रियते । बोधिवृक्षः अपि पूज्यते । तस्य शाखाः पताकाभिः अलङ्क्रियन्ते । वृक्षं परितः दिपाः प्रज्वाल्यन्ते । वृक्षस्य मूले दुग्धं सुगन्धि जलं च समर्प्यते । अस्मिन् दिने कृतैः सत्कर्मभिः पुण्यार्जनं भवति इति जनानां श्रद्धा अस्ति ।
{{gap}}बुद्धपौर्णिमायां देहल्यां सङ्ग्रहालये विद्यमानानि बुद्धस्य अस्थीनि सर्वेषां दर्शनार्थं बहिः स्थाप्यन्ते । तत्रापि आगत्य जनाः प्रार्थनां कुर्वन्ति । अस्मिन् दिने बौद्धधर्मानुयायिनः लुम्बिनी, सारनाथः, गया, कुशीनगरं, दीक्षाभूमिः इत्यादीनि पवित्रबौद्धक्षेत्राणि गत्वा प्रार्थनां पूजां च कुर्वन्ति । बौद्धधर्मसम्बद्धानां सूत्राणां त्रिपिटकानां भागस्य वाचनं पाठनं च क्रियते । व्रतस्य भागरूपेण अस्मिन् दिने उपवासः क्रियते । दानधर्मः क्रियते । अस्मिन् दिने बहुविधाः कार्यक्रमाः आयोज्यन्ते । श्रीलङ्कायाम् अन्येशु आग्नेयदेशेषु अयम् उत्सवः ‘वेसक-उत्सवः’ इति नाम्ना आचर्यते । वेसक पदं वैशाखपदस्य अपभ्रंशः अस्ति । अस्मिन् दिने बौद्धगृहेषु दीपाः प्रज्वाल्यन्ते पुष्पैः गृहम् अलङ्क्रियते ।
अस्मिन् दिने बौद्धगृहेषु दीपाः प्रज्वाल्यन्ते पुष्पैः गृहम् अलङ्क्रियते ।
 
*बौद्धधर्मग्रन्थानाम् अखण्डं वाचनं पठनं च क्रियते ।
*बौद्धविहारेषु (बौद्धमन्दिरेषु) च धूपाः ज्वाल्यन्ते । बुद्धमूर्तयः पुष्पैः फलैः च अलङ्क्रियन्ते दीपैः च पूज्यन्ते ।
Line १६ ⟶ १७:
*पक्षिणः पञ्जरात् मुक्ताकाशे मोच्यन्ते ।
*दीनानां कृते भोजनं वस्राणि च दीयन्ते ।
*बौद्धानुयायिनः तत्रागत्य प्रार्थनां कुर्युः अतः देहल्यां सङ्ग्रहालये विद्यमानानि बुद्धस्य अस्थीनि बहिः स्थाप्यन्ते ।
 
==भारतस्य बुद्धजन्मोत्सवस्य इतिहासः==
डा.बाबासाहेब अम्बेडकरमहोदयस्य अध्यक्षतायां १९५० वर्षे मे मासस्य द्वितीयदिनाङ्के भारते प्रथमवारं देहल्यां बुद्धजन्मोत्सवः आचरितः । अस्मिन् प्रसङ्गे अम्बेडकरमहोदयेन बुद्धस्य जीवनकार्यसम्बद्धाः विचाराः उपस्थापिताः । अस्मिन् समारोहे विभिन्नदेशानां विधिज्ञाः प्रतिनिधयः भिक्षुसमुदायः इति एतेषाम् आहत्य विंशतिसहस्त्रजनानां समुदायः उपस्थितः आसीत् । एवंप्रकारेण भारते बुद्धजन्मोत्सवः आरब्धः ।
"https://sa.wikipedia.org/wiki/बुद्धजयन्ती" इत्यस्माद् प्रतिप्राप्तम्