"अम्बुबाची-उत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २९:
 
अम्बुबाची-समये शक्तिपूजास्थानेषु आयोजितः उत्सवः हिन्दुधर्मीयैः "अम्बुबाची-उत्सवः" इत्युच्यते। भारतदेशस्य असमराज्यस्य गुयाहाटि-नगरस्य कामाख्या-देव्याः मन्दिरे प्रतिवत्सरम् अम्बुबाची-उत्सवः आयोज्यते। अम्बुबाची-उत्सवस्य आरम्भदिवसादेव देव्याः दर्शनं निषिद्धं भवति, अतः अस्मिन् काले मन्दिरस्य द्वारं पिधीयते। चतुर्थदिवसे देव्याः स्नानपूजाद्यवसाने सति मातृदर्शनस्य अनुमतिः दीयते। भारतस्य विभिन्नप्रान्तेभ्यः समागताः भक्ताः(वर्तमानकाले पाश्चात्त्या अपि) मन्दिरस्य चतुर्दिक्षु उपविश्य मातरं स्तुवन्ति। मन्दिरात् बहिः धूपद्वीपादिप्रज्वलनेन देवीं प्रणमन्ति च। अम्बुबाचीनिवृत्तेः परं पूजकाः भक्तेभ्यः रक्तवस्त्राणि उपहरन्ति। देवीपीठस्यास्य रक्तवस्त्रधारणेन मनोरथः पूर्तिं प्राप्नोति इति भक्तानां विश्वासः। इदं च रक्तवस्त्रं पुरुषाः दक्षिणहस्ते कण्ठे वा परिदधति, किञ्च महिलाः वामहस्ते कण्ठे वा परिदधति। रक्तवस्त्रमिदं परिधाय श्मशाने मृतस्य गृहे वा गमनं निषिद्धम्। आन्तर्जातीयस्तरे जातीयस्तरे च सम्प्रीतिरक्षायै कामाख्या-धाम्नः अम्बुबाची-उत्सवस्य विशिष्टमवदानमस्ति।
 
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/अम्बुबाची-उत्सवः" इत्यस्माद् प्रतिप्राप्तम्