विषयेन्द्रियसंयोगाद्...


श्लोकः सम्पादयतु

 
गीतोपदेशः
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टात्रिंशत्तमः(३८) श्लोकः ।

पदच्छेदः सम्पादयतु

विषयेन्द्रियसंयोगात् यत् तदग्रे अमृतोपमम् परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

अन्वयः सम्पादयतु

यत् तत् विषयेन्द्रियसंयोगात् अग्रे अमृतोपमं परिणामे विषमिव तत् सुखं राजसं स्मृतम् ।

शब्दार्थः सम्पादयतु

विषयेन्द्रियसंयोगात् = विषयेन्द्रियसम्बन्धात्
अग्रे = आदौ
अमृतोपमम् = अमृतसदृशम्
परिणामे = अन्ते
स्मृतम् = अभिहितम् ।

अर्थः सम्पादयतु

विषयेन्द्रियसम्बन्धात् जातं यत् सुखं तत् आदौ अमृतसदृशम् अन्ते विषसदृशं च भवति । तत् सुखं राजसम् अभिहितम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु