विष्णुतत्त्वनिर्णयस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। दशप्रकरणग्रन्थेषु विष्णुतत्त्वनिर्णयः अतीव विस्तृतग्रन्थः। केचन एवं भावयन्ति, समग्रस्य सिद्धान्तस्य संक्षिप्तपरिचयात्मकः ग्रन्थः भवति इति। श्री जयतीर्थस्य अणुव्याख्यानम् इति टीका विद्यते। अस्य सिद्धान्तस्य प्रधानप्रमेयस्य विष्णुतत्त्वस्य विवरणं निरूपितम् अस्ति अस्मिन् ग्रन्थे। विष्णुतत्त्वनिर्णये त्रयः परिच्छेदाः सन्ति।

सारःसम्पाद्यताम्

क्रमशः भगवतः सदागमैकविज्ञेयत्त्वम्, समतीतक्षराक्षरत्त्वम्, निर्दोषाशेषसद्गुणपूर्णत्वादि त्रीणि वेशेषणानि प्रतिपादितानि सन्ति। भगवद्विषयकज्ञानाय सदागमाः एव प्रमुखाधाराः भवन्ति। सकलसदागमाः अस्य सर्वोत्तमत्त्वं प्रतिपादयन्ति। ऋग्वेदादि चत्वारो वेदाः, महाभारतम्, मूलरामायणम्, पञ्चरात्राणिच मुख्याः सदागमाः भवन्ति। एतेषां सहाय्येनैव भगवन्तं ज्ञातुं शक्यते। न केवलं युक्त्या तथा प्रत्यक्षादिना भगवन्तं ज्ञातुं शक्यते। विष्णोः परमप्रसादेन मुक्तिः प्राप्यते। प्रसादप्राप्तये उत्तमत्त्वज्ञानस्य, भेदज्ञानस्य च अपेक्षा अस्ति। अस्मिन् ग्रन्थे जीवेश्वराभेदः न सिद्ध्यति इति, एवं तत्त्वमसि, अहम्ब्रह्मास्मि, नेह नानास्ति किञ्चनादि आगमाः भेदमेव बोधयन्ति न तु अभेदम् इति निरूप्य विष्णोः सर्वोत्तमत्त्वं निरूपितं भवति। “युक्तं च विष्णोः, सर्वोत्तमत्वे एव महातात्पर्यं सर्वागमानाम्” इति च उक्तमस्ति अस्मिन् ग्रन्थे।

प्रथमपरिच्छेदःसम्पाद्यताम्

अस्मिन् प्रथमपरिच्छेदे वेदापौरुषेयत्वम्, वर्णनित्यत्त्वम्, प्रामाण्यस्वतस्त्वम्, आगमानां सिद्धार्थबोधकत्वम्, तत्वमस्याद्यागमानां भेदभोदकत्वम्, जीवेश्वरस्यैक्यस्य अस्वारस्यादिकाः विषयाः निरूपिताः भवन्ति।

द्वितीयपरिच्छेदःसम्पाद्यताम्

अस्मिन् द्वितीयपरिच्छेदे वर्णिताः विषयाः क्रमशः भवन्ति। लक्ष्मीदेवी अक्षरचेतना भवति। ब्रह्मरुद्रादि समस्तचेतनाः क्षरपुरुषाः भवन्ति। श्रीहरिः आभ्याम् उभयविधपुरुषाभ्यां विलक्षणः उत्तमश्च भवति। अतः सः पुरुषोत्तमः भवति।

तृतीयपरिच्छेदःसम्पाद्यताम्

अस्मिन् तृतीयपरिच्छेदे श्रीहरिः दिषदूरत्वं तथा गुणपूर्णत्वादिकं निरूपितम् अस्ति। भगवते, जन्म, मरणम्, रोगाः, वियोगाः न सन्ति इति स्पष्टं निरूपितमस्ति।