विष्णुशर्मा

पंचतंत्रीय लेखक
पञ्चतन्त्रस्य पारसिकानुवादस्य दलः

परिचयः सम्पादयतु

पञ्चतन्त्रम् इत्यस्य कथाग्रन्थस्य नाम यः न श्रुतवान् तादृशः प्रायः कोऽपि नास्ति । तादृशस्य अतिप्रसिद्धस्य पञ्चतन्त्रस्य रचयिता विष्णुशर्मा । विष्णुशर्मा काश्मीरदेशीयः । ब्राह्मणोऽयं श्रुतिस्मृतिपुराणेतिहासेषु कृतभूरिपरिश्रमः आसीत् । तस्य विषये श्रूयमाणः श्लोकः कश्चन एवमस्ति -

मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥
सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥

कालविचारः सम्पादयतु

क्रि.श. पञ्चमशतमाने विद्यमानस्य भर्तृहरेः सुभाषितेषु विद्यमानाः अनेके श्लोकाः द्वित्रपदभेदेन पञ्चतन्त्रे दृश्यन्ते । क्रि श ५३१ तः - ७९पर्यन्तं पर्षियादेशं शासितवान् खुस्रु अनुशरिवान् इत्येतस्य आज्ञानुसारं आगैपेह्लविभाषया अयं ग्रन्थः अनूदितः अस्ति । एतैः कारणैः विष्णुशर्मा अपि पञ्चमशतमाने भर्तृहरेः अनन्तरकाले आसीदिति वक्तुं शक्यते ।

फलश्रुतिः सम्पादयतु

महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते । तस्य ग्रन्थस्य फलश्रुतिश्लोकः एवं वर्तते -

अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च ।
न पराभवमाप्नोति शक्रादपि कदाचन ॥
"https://sa.wikipedia.org/w/index.php?title=विष्णुशर्मा&oldid=457187" इत्यस्माद् प्रतिप्राप्तम्