पञ्चतन्त्रम्

विष्णुशर्मनस्य ग्रन्थ:

पञ्चतन्त्रं (Panchatantra) कश्चन कथाग्रन्थः विद्यते। अस्य ग्रन्थस्य कर्ता अस्ति विष्णुशर्मा। महिलारोप्यस्य राज्ञः अमरशक्तेः बहुशक्तिः रुद्रशक्तिः अनन्तशक्तिः इत्येतान् त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते। पञ्चतन्त्रे गद्यं पद्यं चापि अस्ति। प्रायः कथाभागं निरूपयति गद्यम्। पद्यं च नीतिं निरूपयति।

विष्णुशर्मरचितम्
पञ्चतन्त्रम्  
Syrischer Maler von 1354 001.jpg
लेखकः विष्णुशर्मा
देशः भारतम्
भाषा संस्कृतम्
प्रकारः गद्यपद्यमिश्रशैली

प्राचीनकाले वेदपाई-नामकेन ब्राह्मणेन 'करकटदमनक'-नामकस्य नीतिग्रन्थस्य रचना कृता आसीत्। तस्य विस्तृतग्रन्थस्य आधारं स्वीकृत्य 'पञ्चतन्त्र'स्य रचना अभवत् इति मन्यते। पञ्चतन्त्राद् विश्वस्य अनेके ग्रन्थाः प्रभाविताः सन्ति। पञ्चतन्त्रं तु वैदिकपरम्परायाः प्रभावितः ग्रन्थः। भारतीयपरम्परायां बहुत्र प्राणिकथाः प्राप्यन्ते। ऋग्वेदे देवानां कुक्कुरी वणिजम् उपदिशयति यत्, धनादीनां दानं करोतु इति। उपनिषत्सु छान्दोग्योपनिषदि प्रदर्शितम् अस्ति यत्, हंसः, मद्गुः (कश्चन चलचरः प्राणी) च जाबालपुत्राय सत्यकामाय ब्रह्मविद्यायाः ज्ञानं यच्छतः इति।[१] एतादृश्यः पशुकथाः एव पञ्चतन्त्रस्य मूलं बीजं वा विद्यते।

पञ्चतन्त्रम् अनेकान् भारतीय-वैदेशिक-लेखकान् योग्यम्, ऐतिहासिकं, सांस्कृतिकं च साहित्यं लेखितुं प्रैरयत्। पञ्चतन्त्रस्य प्रसिद्धिः न केवलं भारतीयसंस्कृतौ अपि तु युरोपियन्, अरेबियन् इत्यादिसंस्कृतिषु अपि अस्ति। 'हेरी पॉटर्', 'अरेबियन् नाइट्स्' इत्यादिषु समकालीनकथासु अपि पञ्चतन्त्रस्य प्रभावः बहुधा दरीदृश्यते। पञ्चतन्त्रग्रन्थः आङ्ग्लभाषायाः अनेकेषाम् उपन्यासानाम्, अरबी-भाषायाः उपन्यासानां च पिता अस्ति। ब्रिटिश-लेखकानां, पश्चिमीसभ्यतायाः लेखकानाम्, अरबी-सभ्यातायाः लेखकानाम् उपरि रचनात्मकोदाहरणानां, रचनात्मकप्रभावस्य श्रेयः पञ्चतन्त्रग्रन्थाय गच्छति। सम्पूर्णे विश्वे प्रप्रथमबालसाहित्यत्वेन पञ्चतन्त्रस्य आकर्षणं सर्वदा वर्धते। पञ्चतन्त्रस्य अनुवादाः विश्वस्य अनेकासु भाषासु प्राप्यन्ते। तेषाम् अनुवादानाम् आधारेण अनेके लेखकाः स्वपुस्तकानि अलिखन्। तेषु लेखकेषु जेम्स् अट्किन्सन्, एड्वर्ड् लेन्, विलियम्स् गिब्ब्, रिचर्ड् बर्टन्, गोड्फ्रेरे पिग्गिन्स् च अन्तर्भवन्ति। तैः सर्वैः प्रत्यक्षाप्रत्यक्षरीत्या पञ्चतन्त्रसंस्कृतेः गहनाध्ययनं कृत्वा पञ्चतन्त्रसंस्कृतेः प्रचारः कृतः। 

पञ्चतन्त्रस्य विदेशीयबालसाहित्ये प्रभावःसम्पाद्यताम्

जर्मनी-देशीयः विद्वान् जोहानिस हर्टेल (Johannes Hertel)-महोदयः स्वपुस्तके पञ्चतन्त्रात् प्रेरितानां रचनानाम् आवलिं निर्मितवान् [२]। तस्याः आवल्याः अनुसारं स्पष्टं भवति यत्, क्रिष्टाब्दं १९१४ यावत् अखिले विश्वे अनेके रचयितारः पञ्चतन्त्रात् प्रेरणां प्राप्य द्विशताधिकाः स्वरचनाः कृतवन्तः इति। ताः रचनाः विभिन्नासु पञ्चाशत् भाषासु आसन्। तासु पञ्चाशत् भाषासु चतुर्थांशप्रतिशत (द्वादश उत त्रयोदश भाषाः) भाषाः अभारतीयाः आसन्। एकादश्याः शताब्द्याः (१६०० ई. पू.) प्रागेव युरोपमहाद्वीपस्य ग्रिक-स्पेनिष्-इटालियन्-जर्मन्-आङ्ग्ल-पुरातनस्लेवोनिक्-चेक(czech)भाषासु पञ्चतन्त्रस्य उत पञ्चतन्त्रादनूदितरचनायाः च अनुवादं जातम् आसीत्। ततः जावा-तः आइस्लैण्ड-पर्यन्तम् अपि पञ्चतन्त्रस्य अनुवादः अभवत्।

पञ्चतन्त्रस्य अनुवादाःसम्पाद्यताम्

पञ्चतन्त्रस्य मानवतावादिदृष्टिकोणः अस्ति, अत एव पञ्चतन्त्रस्य लोकप्रियता सर्वाधिका अस्ति। प्राचीनकाले एव पञ्चतन्त्रस्य कथाः देशविदेशेषु प्रसिद्धाः आसन्। येषु देशेषु लिखितसाहित्यं नासीत्, तत्र परम्परायाः माध्यमेन पञ्चतन्त्रस्य कथाः तु आसन् एव। बाइबल्-ग्रन्थं विहाय पञ्चतन्त्रस्य विश्वस्य सर्वाधिकासु भाषासु अनुवादः अभवत्। परन्तु पञ्चतन्त्रस्य अनुवादपृष्ठे धर्मप्रचारस्य भावना नासीत्। पञ्चतन्त्रस्य द्विशताधिकाः (२००) अनुवादाः उपलभ्यन्ते।[३]

पहलवी-भाषायाम् अनुवादःसम्पाद्यताम्

पञ्चतन्त्रस्य प्रप्रथमवारं पहलवी-भाषायाम् अनुवादः अभवत्। पहलवी-भाषा प्राचीनफारसीभाषा इति प्रसिद्धा। सा प्राचीनफारसीभाषा संस्कृतात् प्रभाविता। पहलवी-भाषायां पञ्चतन्त्रस्य यः अनुवादः अभवत्, तस्य काचित् कथा प्रचलिता अस्ति। ईरान-प्रदेशस्य राजा 'शाह खुसरो' इत्येषः (५३१-५७९)। तस्य 'अनूशीरवाँ', 'खुसरो प्रथम' इत्यादीनि नामान्तराणि। सः ईरानराजः कुत्रचिद् अपठत् यत्, भारतस्य कस्मिंश्चित् पर्वते काचित् ओषधिः लभ्यते। तस्याः ओषध्याः सेवनेन मृतः मनुष्यः अपि जीवितः भवति इति। अतः ईरान-राजः 'बजीर बुर्जुए' इत्याख्यं राजवैद्यं ताम् ओषधिं स्वीकर्तुं भारतं प्रैषयत्। सः 'बजीर बुर्जुए' इत्याख्यः ईरान-राजवैद्यः भारतस्य विभिन्नेषु पर्वतस्थलेषु अटन् तस्याः ओषध्याः अन्वेषणं कुर्वन् आसीत्। परन्तु सः तस्मिन् अन्वेषणकार्ये विफलः अभवत्। ततः सः कञ्चन भारतीयविद्वांसं तस्याः ओषधेः विषये अपृच्छत्। सः विद्वान् उदतरत् यत्, भवान् सुष्ठु अशृणोत्। विद्वान् एव पर्वतः अस्ति, यस्मिन् ज्ञानरूपी सञ्जीवनी उत्पद्यते। तस्याः सेवनेन अज्ञानी, मूर्खः च नवजीवनं प्राप्नोति इति। सा सञ्जीवनी इत्युक्ते 'पञ्चतन्त्रम्' इति।

पञ्चतन्त्रस्य एकां प्रतिं नीत्वा 'बुर्जुए' इत्येषः ईरान्-प्रदेशं प्रत्यगच्छत्। ईरान-राजस्य आज्ञानुसारं सः तस्य ग्रन्थस्य पहलवीभाषायाम् अनुवादम् अपि अकरोत्। पञ्चतन्त्रस्य कथाः श्रुत्वा ईरान्-राजः अत्यन्तः प्रफुल्लितः अभवत्। सः पञ्चतन्त्रस्य अनूदितायै प्रत्यै विशेषं कक्षं निर्मापितवान्। पहलवी-भाषायाम् एव पञ्चतन्त्रस्य प्रप्रथमवारम् अनुवादः अभवत्। ततः अनेके अनुवादकाः एतस्माद् अनुवादात् स्वस्य भाषायाम् अनुवादम् अकुर्वन्।

सीरियाई-भाषायम् अनुवादःसम्पाद्यताम्

पहलवी-भाषायाम् अनूदितात् पञ्चतन्त्रात् सर्वप्रथमवारम् अपरः अनुवादः सीरियाई-भाषायाम् अभवत्। ५७० ई. समीपे पहलवी-तः सीरियाई-भाषायाम् अनुवादः अभवदिति एकविंशेऽब्दे जर्मनदेशस्य विद्वद्भिः अन्विष्टम्।[४]

अरबी-भाषायाम् अनुवादःसम्पाद्यताम्

कदाचित् द्विशतं वर्षानन्तरं पहलवी-भाषायाः पञ्चतन्तस्य द्वितीयः अनुवादः अरबी-भाषायाम् अभवत्। अरबी-भाषायाम् इब्न्-उल्-मुकफ्फा इत्याख्यः जनः अनुवादम् अकरोत्। मुकफ्फा इत्येषः मूलतः ईरान-देशीयः एव आसीत्। परन्तु ईरान-देशस्योपरि मुस्लिमशासनत्वात् सः मुस्लिमधर्मम् अङ्ग्यकरोत्। पञ्चतन्त्रस्य प्रथमतन्त्रस्य प्रमुखौ पात्रौ करटकः, दमनकश्च स्तः। तयोः नाम्ना एव मुकफ्फा इत्येषः 'कलीला-व-दिमना' इति स्वस्य अनुवादस्य नामकरणम् अकरोत्।

अरबी-भाषायां पञ्चतन्त्रस्य अनुवादस्य पृष्ठे मुकफ्फा इत्यस्य उद्देशः प्रशासनिकाधिकारिभ्यः शिक्षादानस्य आसीत्। परन्तु सः अनुवादः जनसामान्येषु अपि लोकप्रियः अभवत्। इतिहासविदां मते पञ्चतन्त्रस्य एषः अनुवादः अतीव महत्त्वपूर्णः इति। किञ्च एतस्य अनुवादस्य अनन्तरमेव पञ्चतन्त्रस्य कथाः मुस्लिम-जगतः लोकसाहित्यस्य अङ्गम् अभवत्। ततोधिकम् एतस्य अनुवादस्य आधारेण एव यूरोप-देशीयासु भाषासु पञ्चतन्त्रस्य अनुवादकार्यम् अभवत्।

यूनानी-भाषायाम् अनुवादःसम्पाद्यताम्

एकादशेऽब्दे अरबी-भाषायाः पञ्चतन्त्रस्य अनुवादः यूनानी-भाषायाम् अभवत्। यूरोप-देशीयभाषासु एषः प्रप्रथमः पञ्चतन्त्रस्य अनुवादः आसीत्। यूनानी-भाषायां पञ्चतन्त्रस्य अनुवादोत्तरं विभिन्नासु यूरोप-देशीयभाषासु पञ्चतन्त्रस्य अनुवादः स्पर्धात्मकः अभवत्।

रूसी-भाषायां, स्लावा-भाषायां च अनुवादःसम्पाद्यताम्

यूनानी-भाषायाः पञ्चतन्त्रात् रूसी-भाषायां, स्लावा-भाषायां च अनेके अनुवादाः अभूवन्। पश्चिमयूरोप-देशस्य अनेके भाषातज्ज्ञाः एतयोः भाषयोः पञ्चतन्त्रस्य अनुवादेन प्रभाविताः। तस्य परिणामस्वरूपं लैटिन्, इतालवी, जर्मन इत्यादिषु भाषासु पञ्चतन्त्रस्य अनुवादः अभवत्।

हिब्रू-स्पैनिश-भाषयोः अनुवादःसम्पाद्यताम्

त्रयोदशेऽब्दे अरबी-भाषायाः पञ्चतन्त्रस्य प्राचीनस्पैनिश-भाषायाम् अनुवादः अभवत्। परन्तु एतस्माद् अनुवादात् प्रागेव कश्चन अज्ञातः कविः पञ्चतन्त्रस्य अरबीभाषायाः हिब्रू-भाषायाम् अनुवादम् असाधयत्। हिब्रू-भाषायाः पञ्चतन्त्रस्य यः अनुवादः अस्ति, सः अपि अतीव महत्त्वपूर्णः मन्यते। यतो हि तस्य अनुवादस्य आधारेण एव सर्वेषां ज्ञानम् अभवत् यत्, लैटिन-भाषायाम् अपि पञ्चतन्त्रस्य अनुवादः जातः इति।

लैटिन-भाषायाम् अनुवादःसम्पाद्यताम्

लैटिन-भाषायां पञ्चतन्त्रस्य अनुवादः हिब्रू-भाषायाः अनुवादोत्तरमेव प्रकाशं लब्धः। १२६० तमे दशके कपुआ-नामकस्य नगरस्य जॉन्-आख्यः यहूदी-नागरिकः लैटिनभाषायां पञ्चतन्त्रस्य अनुवादम् अकरोत्। तस्य लैटिन्-अनुवादस्य नाम 'कलीला-व-दिमना – मानवजीवनस्य ज्ञानकोषः' इति। मध्यकाले यूरोपदेशे लैटिन-भाषायाः पञ्चतन्त्रस्य अतीव प्रसिद्धिः अभवत्। ततः यूरोपस्य अनेकासु भाषासु अपि लैटिन-भाषायाः पञ्चतन्त्रस्य अनुवादः वेगवान् अभत्। लैटिन-भाषायाः अनुवादादेव स्पेनी, चेक, इतालवी इत्यादिषु भाषासु पञ्चतन्त्रस्य अनुवादः अभवत्। १५५२ तमाद् वर्षाद् उत्तरं मुद्रणयन्त्रस्य आविष्कारत्वात् इटली-देशे इतालवी-भाषायां पञ्चतन्त्रस्य प्रकाशनम् अभवत्। इतालवीभाषायां लैटिन्-भाषातः अनुवादः कृतः आसीत्। तस्य अनुवादस्य नाम 'ल मॉरेल् फिलॉसॉफिका' अर्थात् नैतिकदर्शनम् इति आसीत्। तस्य पुस्तकस्य अनुवादकः 'दोनी' इत्याख्यः आसीत्। एतस्य पुस्तकस्य आधारेण १५७० तमे वर्षे थॉमस् नॉर्थ् इत्याख्येन पञ्चतन्त्रस्य आङ्ग्लसंस्करणं सम्पादितम्। तस्य अनुवादस्य नाम 'मॉरल् फिलॉसॉफिका ऑफ् दोनी' इति आसीत्। अर्थात् दोनी इत्यस्य नैतिकदर्शनम्। एवं सिद्ध्यति यत्, शेक्सपियर् इत्यस्य कालेऽपि संस्कृतसाहित्यस्य वज्रः पञ्चतन्त्रम् उपलब्धम् आसीद् इति।

भाषायाम् अनुवादः [५]सम्पाद्यताम्

१४८० तमे दशके लैटिन-भाषायाः पञ्चतन्त्रस्य अनुवादः जर्मन-भाषायाम् अभवत्। सः अनुवादः अतीव लोकप्रियः अभवत्। तस्मात् जर्मन-अनुवादाद् एव डेनमार्क्, हॉलैण्ड, आइसलैण्ड इत्यादीनां देशानां भाषासु अपि पञ्चतन्त्रस्य अनुवादः अभवत्।

नवदशेऽब्दे यदा यूरोपीयन-देशेषु संस्कृताध्ययनं चरमसीमायाम् आसीत्, तदा पञ्चतन्त्रस्य सर्वाधिकानुवादाः जर्मन-भाषायाम् अभूवन्। १८०२ तमे वर्षे वेबर-कृतः अनुवादः, १८०३ तमे वर्षे वोलग्राफ्-कृतः अनुवादः, १८२९ तमे वर्षे मथाई-कृतः अनुवादः, १८३५ तमे वर्षे जेड-कृतः अनुवादः च प्रकाशितः। १८५९ तमे वर्षे जर्मनी-देशस्य प्रसिद्धः संस्कृतविद्वान् थियोडोर बेनफी (Theodor Benfey) इत्येषः पञ्चतन्त्रस्य कश्मीरिपाठस्य मूलसंस्कृतात् जर्मनभाषायाम् अनुवादम् अकरोत्। संस्कृतभाषातः साक्षात् अनुवादौ द्वौ एव मन्येते। प्रथमः पहलीभाषायाः अनुवादः, द्वितीयः थियोडोर-महोदयस्य जर्मनीभाषायाः अनुवादः।

फारसी-भाषायम् अनुवादःसम्पाद्यताम्

अरबी-तः यूनानी-भाषायाम् अनुवादोत्तरं यूरोपीय-देशेषु यथा पञ्चतन्त्रस्य प्रसिद्धिः अभवत्, तथैव अरबी-तः अन्ये अनुवादाः अपि यूरोप-देशात् बहिः जायमानाः आसन्। अरबी-भाषायाः 'कलीला-व-दिमना' इत्याख्यात् अनुवादात् फारसीभाषायां पञ्चतन्त्रस्य अनुवादः अभवत्। ११२१ तमे वर्षे नसरुल्ला इत्याख्यः कश्चन फारसी-गद्यस्वरूपेण पञ्चतन्त्रस्य अनुवादम् अकरोत्। त्रयोदशेऽब्दे कानिल इत्येषः पञ्चतन्त्रस्य फासरी-काव्यानुवादम् अकरोत्। पुनः पञ्चदशेऽब्दे हुसेन इब्न् अली इत्याख्यः अरबीभाषायां पञ्चतन्त्रस्य अनुवादम् अकरोत्। तस्य अनुवादस्य नाम 'अनवार सुलेही' इति। सः अनुवादः अपि 'कलीला-व-दिमना' इतिवत् प्रसिद्धः अभवत्।

तूर्की-भाषायाम् अनुवादःसम्पाद्यताम्

षोडशेऽब्दे 'अनवार सुलेही' इत्यस्मात् पञ्चतन्त्रानुवादात् तूर्कीभाषायां 'हुमायूँनामा' इत्याख्यः पञ्चतन्त्रानुवादः जातः।

फ्रांसीसी-भाषायाम् अनुवादःसम्पाद्यताम्

१६४४ तमे वर्षे फारसी-भाषायाः 'अनवरी सुहेली' इत्यस्माद् अनुवादादेव फ्रेंच-भाषायां पञ्चतन्त्रानुवादः अभवत्। तस्य अनुवादस्य नाम 'पिलपई' इति आसीत्। अद्यापि सः अनुवादः पिलपई-महोदयस्य कथाः इति प्रसिद्धः।[६]  विकिपीडिया-जालेऽपि अनेन नाम्ना पुनर्निर्देशनं प्रदत्तम् अस्ति।[७]

आङ्ग्लानुवादाःसम्पाद्यताम्

१८५४ तमे वर्षे ईस्ट विक-कृतः अनुवादः, १८७७ तमे वर्षे वॉस्टन्-कृतः अनुवादः अपि प्रकाशितः। तौ अनुवादौ आङ्ग्लभाषायाम् आस्ताम्। 'लोइट्स् ऑफ् कैनोपस्' इति तयोः अनुवादयोः शीर्षकम् आसीत्। विंशेऽब्दे आङ्ग्लभाषायां द्वौ उल्लेखनीयौ अनुवादौ प्रकाशितौ। १९२४ तमे वर्षे स्टैनली राईस्-कृतः, १९२५ तमे वर्षे आर्थर् डब्ल्यू राइडर्-कृतश्च अनुवादः प्रकाशितः।[८] आर्थर् इत्येषः अमेरिका-देशस्य प्रसिद्धः प्राच्यवादी आसीत्। तस्य अनुवादः अधिकां प्रसिद्धिं प्रापत्। एतस्य अनुवादस्य वैशिष्ट्यम् आसीद् यत्, पञ्चतन्त्रे यथा गद्यस्य, पद्यस्य च उपयोगः कृतः अस्ति, तथैव आर्थर् इत्यनेन आङ्ग्लानुवादे गद्यपद्ययोः तादात्म्यं साधितम् अस्ति। १५७० तमे वर्षे थॉमस् नॉर्थ् इत्याख्येन पञ्चतन्त्रस्य आङ्ग्लसंस्करणं सम्पादितम् इति पुरा उक्तम्।

अन्ये अनुवादाःसम्पाद्यताम्

१६५४ तमे वर्षे ब्रूती इत्याख्यस्य स्पेनी-भाषायाम् अनुवादः प्रकाशितः। १७२४ तमे वर्षे तूर्की-भाषायाः अनुवादात् (हुमायुँनामा इत्यस्मात्) फ्रेंच-भाषायाम् अनुवादः अभवत्। तस्य नाम 'बिदपई' इति आसीत्।[९] वैदेशिकपाठशालासु अपि उक्तेन नाम्ना तस्य प्रसिद्धिः।[१०] तस्य विस्तृतं नाम 'विदपई इत्यस्य भारतीयकथाः' इति। अष्टादशेऽब्दे यूरोपीय-भाषासु पञ्चतन्त्रस्य अनेके अनुवादाः प्रकाशिताः। १७४५ तमे वर्षे वाइल्ट इत्यस्य स्वीडिश-भाषायाम् अनुवादः, १७४५ तमे वर्षे एव अज्ञातकविना जर्मन-भाषायाम् अनुवादः कृतः। १७६२ तमस्य वर्षस्य र्यूबेंस् इत्यस्य स्वीडिश-भाषायाम् अनुवादः प्राप्यते। १७७० तमे वर्षे अज्ञातकविना पोलिश-भाषायाम् अनुवादः कृतः। १७८१ तमे वर्षे स्पोंडेल-भाषातः डच-भाषायाम् अपि पञ्चतन्त्रस्य अनुवादः प्रकाशितः। १७८१ तमे वर्षे हंगापियाई-भाषायां, यूनानी-भाषायां च पञ्चतन्त्रानुवादः जातः।

एवं पञ्चतन्त्रस्य अनुवादपरम्परा पहलवी-तः अरबी, अरबीतः हिब्रू, हिब्रूतः लैटिन् ततः इटालवी अन्ते आङ्गलं यावत् अचलत्। सा अनुवादपरम्परा अद्यापि अविरता अस्ति। कदाचित् अस्मिन् समये विश्वस्य कश्चन सम्पादकः, लेखकः उत अनुवादकः पञ्चतन्त्रस्य प्रकाशनाय सज्जः भवेत्। एतावता ये पञ्चतन्त्रस्य अनुवादाः अभारतीयाभाषासु अभूवन्, तेषु द्वौ पहलीभाषायाः, जर्मनी-देशीयविदुषः थियोडोर-महोदयस्य जर्मनभाषायाः अनुवादौ साक्षात् संकृतात् अभवताम्। अधिकतमाः अनुवादाः तु अनुवादस्य अनुवादाः आसन्। तेषु मुख्यतया पहलीभाषायाः अनुवादाः अधिकाः आसन्। विभिन्नानां संस्कृतीनाम् अनुरूपं पञ्चतन्त्रस्य कथायाः कायाकल्पः जातः स्यात्। 

पञ्चतन्त्रस्य भारतीयबालसाहित्ये प्रभावःसम्पाद्यताम्

विश्वस्य अधिकतमभाषासु संस्कृतस्य प्रभावः इति सर्वविदितम्।[११] एवमेव विविधासु भाषासु यत् बालसाहित्यम् उपलभ्यते, तस्मिन् पञ्चतन्त्रस्य प्रभावः अस्त्येव। पञ्चतन्त्रस्य २०० अधिकाः अनुवादाः अद्यत्वे समग्रे विश्वे सन्ति। एतेषु अनुवादेषु प्रमुखः प्रभावः तदा प्रत्यक्षः भवति यत्, स्रोतोभाषायाः मूलग्रन्थानुसारमेव लक्ष्यभाषायां पद्यगद्ययोः सम्मेलनेन अनुवादकार्यं भवति इति। यथा यदि संस्कृतभाषायां कोऽपि विषयः श्लोकमाध्यमेन उपस्थापितः, तर्हि अनूद्यमानायां भाषायाम् अपि पद्यमाध्यमेन एव तस्य विषयस्य उपस्थापनं भवति। आङ्ग्लानाम् आगमनोत्तरं भारतवर्षे महत्तमस्य बालसाहित्यस्य रचना शालाशिक्षणस्य हेतुं साधयितुम् एव अभवत्। तेषु हिन्दी, बंगाली, कनडा, तमीळ इत्यादयः भाषाः अन्तर्भवन्ति।

हिन्दीभाषासम्पाद्यताम्

भारतस्य स्वातन्त्र्योत्तरं हिन्दीभाषायाः बालसाहित्येषु पुरावत् स्थितिः दृश्यते। यतो हि भारतीयशिक्षापद्धत्यां हिन्द्याः समावेशः राजभाषात्वेन अभवत्, तथा च अनिवार्या भाषा इति अभवत्। राज्यसर्वकाराः, केन्द्रसर्वकारश्च हिन्दीसाहित्यस्य कृते पर्याप्तम् अनुदानम् अपि यच्छन्ति स्म। एवं हिन्दीभाषायां साहित्यनिर्माणे स्वाभाविकतया एव वेगः सम्प्राप्तः। तस्मिन् साहित्ये बालसाहित्यस्य निर्माणम् आधिक्येन अभवत्। यतो हि शालायां हिन्द्याः प्राथमिकज्ञानाय पाठ्यपुस्कानि आवश्यकानि आसन्। तस्मिन् काले पञ्चतन्त्रस्य कथाः, हितोपदेशस्य कथाः, ध्रुवचरितं, प्रह्लादचरितं, हरिश्चन्द्रचरितम् इत्यादीनां संस्कृताख्यानानां बालभोग्यरीत्या अनुवादः अभवत्। अद्यत्वे बालसाहित्यस्य रचना न केवलं धर्मप्रचारस्य कार्यम्, अपि तु व्यवसायकार्यम् अपि अभवत्। इ. १८७४ तः १९०० पर्यन्तं हिन्दीसाहित्यस्य कालः भारतेन्दुः इति प्रसिद्धः। तस्मिन् काले यस्य बालसाहित्यस्य रचना अभवत्, तस्य पारम्परिकतया रचना नाभवत्। अतः तस्मिन् साहित्ये उपदेशेन सह मनोरञ्जनस्यापि समावेशः अभवत्। ततः हिन्दीबालसाहित्ये वैज्ञानिकपुस्तकानां प्रसिद्धिः अवर्धत। तस्याः प्रसिद्धेः पृष्ठे 'बालविनोद', 'शिशु', 'बालसखा', 'बालभारती', 'नन्दन', 'पराग' इत्यादीनां सामयिकानां मुख्यं योगदानम् आसीत्।

वङ्गभाषासम्पाद्यताम्

इ. १८०२ तमे वर्षे 'बत्रीश सिंहासन', १८०८ तमे वर्षे 'हितोपदेश' इत्येतयोः ग्रन्थयोः वङ्गभाषायाम् अनुवादः अभवत्। ततः १८४७ तमे वर्षे ईश्वरचन्द्रः विद्यासागरः 'वेतालपञ्चविंशतिः' इत्यस्मात् कथाग्रन्थात् वेतालकथानां वङ्गभाषायां भाषान्तरम् अकरोत्। वङ्गभाषायां रवीन्द्रनाथठाकुरस्य योगदानम् अद्वितीयम्। तेन अनेकधा वङ्गबालसाहित्यं समृद्धं कृतम्। ठाकुरमार झूली-ग्रन्थस्य रचयिता दक्षिणारञ्जनः इत्याख्यस्य वङ्गप्रदेशस्य स्थानीयकथानां सङ्ग्रहणं कृतवान् अस्ति। वङ्गप्रेदशस्य प्रसिद्धस्य बालसाहित्यकारस्य विषये प्रसिद्धिः अस्ति यत्, बालाकाः यं ज्ञात्वा पठितुं प्रभवन्ति, तादृशः एकः लेखकः सत्यजितरायः एव इति।[१२]  

असमियाभाषासम्पाद्यताम्

संस्कृतभाषायां रचितानां पौराणिकाख्यानानाम् आधारेण असमियाभाषायां बालसाहित्यस्य आरम्भः अभवत् इति स्पष्टम् अस्ति। अस्यां भाषायां शिशुविज्ञानकोषः अपि उपलभ्यते।

उडियाभाषासम्पाद्यताम्

उडियाभाषायां बालसाहित्यस्य आरम्भः केशव कोईली इत्याख्यस्य कवेः गीतात्मककवितया अभवत् इति मन्यते। तस्यां कवितायां हितोपदेशस्य साक्षात् प्रभावः दृश्यते।

कन्नडभाषासम्पाद्यताम्

कथासाहित्यस्य कन्नडभाषायां बाहुल्यम् अस्ति। एतस्यां भाषायां साक्षात् संस्कृतभाषायाः अनूदिताः कथाः उपलभ्यन्ते। तथा च तस्यानुवादस्य आधारेण नवीनाः रचनाः अपि अभूवन्। कन्नडभाषायां बालसाहित्यस्य उपलब्ध्यै पञ्जे मङ्गेशराव, श्रीमती आर् कल्याणम्मा, शिवराम कारन्त इत्यादीनां मुख्यतया उल्लेखः भवति। डॉ. कारन्त इत्यनेन रचितः 'बाळप्रपञ्च' इत्याख्यः बालविश्वकोषः बालेषु विद्यमानानां विविधानां जिज्ञासानाम् उपशमनं करोति।

सिन्धीभाषासम्पाद्यताम्

अन्यभाषावत् सिन्धीभाषायां बालसाहित्यस्य आरम्भः अनूदितात् साहित्यादेव अभवत्। सिन्धीबालसाहित्यस्य विकासाय 'श्रेष्ठ साहित्यमाला' इत्याख्यायाः प्रकाशकस्य अधिकं योगदानं दृश्यते।

मराठीभाषा सम्पाद्यताम्

मराठीभाषायां बालसाहित्यस्य प्रारम्भः आङ्ग्लविरुद्धं प्रचारस्य उद्देशेन अभवत् इति इतिहासे प्रत्यक्षम् अस्ति। १८२२ तमे वर्षे 'बोम्बे नेटिव एज्युकेशन् सोसाइटी' इत्याख्यायाः संस्थायाः आरम्भः अभवत्। तस्याः संस्थायाः परिश्रमेण संस्कृतात् अनेके ग्रन्थाः मराठीभाषायाम् अनूदिताः। तेषु ग्रन्थेषु मुख्यतया नीतिग्रन्थानां, नीतिकथानां च बाहुल्यम् आसीत्। उक्तायाः संस्थायाः स्थापनायाः प्रागेव तया संस्थया अनेकेषां संस्कृतग्रन्थानाम् अनुवादकार्यम् आरब्धम् आसीत्। यतो हि १८१५ तमे वर्षे वैजनाथशास्त्रिणा अनूदिते 'पञ्चतन्त्रः', 'हितोपदेशः' च पुस्तके उपलभ्येते। ततः १९०६ तमे वर्षे आरब्धेन 'आनन्द' इत्याख्येन बालसामयिकेन मराठीबालेभ्यः बालसाहित्यस्य भण्डारः उद्घाटितः। तस्य बालसामयिकस्य सम्पादकः वासुदेव गोविन्द आप्टे इत्याख्यः साहित्यकारः आसीत्। १९२० इ. पश्चात् मराठीभाषायाः बालसाहित्ये मौलिकरचनानाम्, अनूदितग्रन्थानां च प्रकाशने वेगः दृश्यते।[१३] गतद्वादशवर्षेषु 'अरगडे-आणि-कुलकर्णी'-प्रकाशन-संस्थया त्रिंशदधिकानि (३००) बालपुस्तकानि प्रकाशितानि।[१४]  

गुजरातीभाषासम्पाद्यताम्

गुजरातीभाषायाः बालसाहित्यं मुख्यत्वे विभागद्वये विभक्तम् अस्ति।     

१) मध्यकालीनं बालसाहित्यम् (१८५० पर्यन्तम्),

२) अर्वाचीनकालीनं बालसाहित्यम् (१८५१ तः) इति।

मध्यकाले धर्मकथानां, दृष्टान्तकथानां, नीतिकथानां, संसारकथानां च माध्यमेन संस्कारसिञ्चनस्य, मनोरञ्जनस्य च साधनत्वेन बालसाहित्यस्य रचना अभवत्। तस्मिन् समये केवलं मौखिककथायाः एव प्रचलनम् आसीत्। तासु कथासु जातककथायाः, बृहत्कथायाः, कथासरित्सागरस्य, तरङ्गवत्याः, तरङ्गलोलायाः, वसुदेवहिण्डायाः, दशकुमारचरितस्य, सिंहासनद्वात्रिंशिकायाः, वैतालपञ्चविशंत्याः, शुकसप्तत्याः, पञ्चतन्त्रस्य, हितोपदेशस्य, भोजप्रबन्धस्य च प्रभावः दरीदृश्यते। संस्कृत-प्राकृत-अपभ्रंशभाषासु विद्यमानस्य कथाभण्डारस्य मध्यकालीनसाहित्ये सुलभप्रचारः अभवत्। अर्वाचीकालेऽपि पञ्चतन्त्रादीनां पद्यकथानामेव अवलम्बनं कृत्वा बालभोग्यसाहित्यस्य रचना जाता।

अत्र बोध्यं यत् मध्यकाले यावतः साहित्यस्य रचना अभवत्, तावति साहित्ये स्वल्पं साहित्यं बालसाहित्ये अन्तर्भवति इति उचितम् अस्ति। परन्तु तस्य साहित्यस्य रचना बालम् उद्देशीकृत्य अभवत् इति वक्तुं न शक्नुमः। यतो हि नरसिंहमहेता इत्यस्य महाकवेः रचनाः बालेभ्यः आनन्ददायिन्यः आसन्, परन्तु तासां रचनानाम् उद्देश्यं बालरञ्जनं नासीत्। तस्मिन् साहित्ये बालानां रुचित्वादेव तत् बालसाहित्येषु अन्तर्भवति। स्वातन्त्र्योत्तरं तु बालसाहित्यस्य निर्माणं शिक्षणानुगुणम् एव अभवत्।[१५] रामायण-महाभारत-पञ्चतन्त्र-हितोपदेश-विक्रमादित्य-भोजादीनां कथाः पौनःपुन्येन लेखकैः लिखिताः। परन्तु तासु कथासु सर्वैः अनुवादकैः, लेखकैः, सम्पादकैश्च बोधपाठः पृथग्रीत्या उक्तः।

पञ्चतन्त्रस्य गुर्जरभाषायां विविधानि नामानि सन्ति। यथा – पञ्चाख्यान, पञ्चोपाख्यान, पञ्चोपाखीयान इत्यादीनि। १८२४ तमे वर्षे 'मुम्बई समाचार प्रेस' इत्यनया संस्थया प्रकाशिते 'पञ्चोपाखीयान' इत्यस्मिन् ग्रन्थे पञ्चतन्त्रस्य सर्वेषां तन्त्राणाम् अनुवादः उपलभ्यते। स एव ग्रन्थः १८४४ तमे वर्षे 'मुम्बई नेटिव एज्युकेशन सोसाइटी' इत्यस्मादपि प्रकाशितः। १८७८ तमे वर्षे 'सखाराम भीकशेटे' इत्याख्येन चित्रैः सह 'पञ्चोपाखीयान' इत्यस्य ग्रन्थस्य सम्पूर्णतया गद्यात्मकतया प्रकाशनं कृतम्। १८९८ तमे वर्षे प्राणजीवनशास्त्रिणा पञ्चतन्त्रस्य सरलभाषायाम् अनुवादः कृतः आसीत्। १८९८ तमे वर्षे एव छोटालाल नरभेराम भट्ट-महोदयेन पञ्चतन्त्रस्य अनुवादः गुजरातीभाषायां कृतः। तस्मिन् अनुवादे विशेषता आसीत् यत्, पञ्चतन्त्रे यत्र गद्यत्वेन वर्णनम् अस्ति, तस्य अनुवादेऽपि गद्यत्वेन अनुवादः कृतः। तथैव यस्य पद्यत्वेन विषयोपस्थापनम् अस्ति, तस्य पद्यत्वेन एव गुर्जरभाषायाम् अनुवादः कृतः। १८९४ वर्षात् प्रागेव मणिशङ्करभट्टेन रचितं 'पञ्चोपाख्यानम्' अपि अन्यततम्। शिलाछाप-मुद्रणकेन्द्रेण प्रकाशिते पञ्चतन्त्रस्य द्वे पुस्तके उपलभ्येते। एतेषु सर्वेषु अनुवादेषु बालभोग्यता अस्ति इति वक्तुं न शक्नुमः। परन्तु एतैः अनुवादैः बालभोग्यकथानां विशालसमुदायः जनितः इति निश्चितम् अस्ति। १९३९ तः १९४३ पर्यन्तं 'कुमार' इत्याख्ये बालसामयिके श्रीवालदी गोविन्दजी देसाई-महोयेन 'પંચતન્ત્રની વાર્તાઓ' इति क्रमशः अङ्कः प्रकाशितः। तस्य प्रकाशनेन पञ्चतन्त्रस्य गुर्जरप्रदेशे प्रभावः प्रबलः अभवत्।[१६] गुजरातराज्यस्य प्रसिद्धप्रकाशनेन 'सस्तु साहित्य' इत्यनेन तेषाम् अङ्कानां सङ्कलनं कृत्वा 'तन्त्रकथा' इतिनाम्ना पुस्तिकात्वेन प्रकाशनं कृतम्।

पञ्जाबी, मलयालम, काश्मीरी, तेलुगु इत्यादिषु भाषासु बालसाहित्यस्य विकासः विलम्बेन अभवत्। तासु अधिकतमासु भाषासु भारतस्वातन्त्र्योत्तरमेव बालसाहित्यस्य क्षेत्रे विकासः अभवत्। उपर्यक्तासु सर्वासु भाषासु प्राप्तसूचनायाः आधारेण प्रत्यक्षम् अस्ति यत्, भारतवर्षस्य राजभाषासु काश्चिदेव राजभाषाः एकोनविंशेऽब्दे बालसाहित्येषु विकासं साधितवत्यः। विंशेऽब्दे तथा च स्वातन्त्रोत्तरं सर्वासु भाषासु बालसाहित्यक्षेत्रे उल्लेखनीयः विकासः अभवत्। भारतीयभाषासु बालसाहित्यक्षेत्रे यः स्वल्पः वा अधिकः विकासः साधितः, तत्र सर्वाधिकमहत्त्वपूर्णः विषयः अस्ति यत्, तासु सर्वासु भाषासु बालसाहित्यस्य आरम्भः कथासाहित्यस्य रचनया अभवत्। तस्य कथासाहित्यस्य आधारः पञ्चतन्त्रं, हितोपदेशः, पौराणिककथाः च आसन्। तेषाम् अनुवादं कृत्वा एव भारतीयभाषासु बालसाहित्यं विपुलातां प्रापत्। 

पञ्चतन्त्रस्य शाखाभेदःसम्पाद्यताम्

दक्षिणापथप्रथिते, नेपालदेशीये च पञ्चतन्त्रे पञ्चतन्त्रमिति नाम समानम्। अतो मूलभूतं पुस्तकं पञ्चतन्त्रनामकमासीदिति वक्तुं सुशकम्। तन्त्रपदेन अध्याया उच्यन्ते, 'तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम्' इति स्मरणात्।

पञ्चतन्त्रं नाम नैकं पुस्तकमपि तु शास्त्रमिदम्। अत्र शास्त्रे समानाभिधेयाः, समानोद्देश्यानि, समानबहुलांशाश्च बहवः ग्रन्थाः सन्ति। पञ्चतन्त्रस्य शाखा बहुविस्तरा। तत्र अर्धाधिकः भागः विदेशेषु प्रसिध्दः।

पञ्चतन्त्रस्य शाखाःसम्पाद्यताम्

सर्वासामपि शाखानामेकं समानं मूलम्। शाखास्तु –

(१) नेपालीयं पञ्चतन्त्रम्

(२) दक्षिणापथीयं पञ्चतन्त्रम्,

(३) हितोपदेशः,

(४) बृहत्कथान्तर्गतं पञ्चतन्त्रं यत् क्षेमेन्द्रेसोमदेवेन च वर्णितम्,

(५) तन्त्राख्यायिका,

(६) सरलग्रन्थः

(७) पूर्णभद्रप्रणीतः, पञ्चतन्त्रग्रन्थश्च।

  1. नेपालीयं पञ्चतन्त्रम्- नेपालीयपञ्चतन्त्रस्य अनेकानि हस्तलिखितपुस्तकानि अधिगतानि। एषां मध्ये एकस्मिन् पद्यभागमात्रं विद्यते, अपरस्मिन् पद्यभागेन समं गद्य भागोऽपि। अत्र कालिदासीयमेकं पद्यमुद्धृतमिति कालिदासात् अर्वाग्भवत्वम् अस्य प्रतीयते। इतोऽधिकमस्य रचनाकालसम्बन्धे कथयितुं न शक्यते। नेपाले हितोपदेशस्यैकं १३७३ क्रैष्टलिखितं पुस्तकं प्राप्तम्। भट्टारकवारशब्दप्रयोगात् ९०० क्रैष्ट-तः अर्वाऽवग्भवमायाति। माघात् कामन्दकीयनीतिसाराच्च। बहुविषयादानात्ततोऽर्वाग्भवत्वमायति। तदेवं सकलवस्तु पर्यालोचनयाऽस्य कालः १००० क्रैष्टमितः प्रत्ययो भवति।
  2. दक्षिणापथीयं पञ्चतन्त्रम्- अत्रापि कालिदासीयमेकं पद्यमुदधृतमिति ततोऽर्वाग्भवत्वमस्य सिद्ध्यति। अस्मिन् यावान् मौलिकपञ्चतन्त्रांशः न तावान् सरलग्रन्थे तन्त्राख्यायिकायां वा। अस्मिन् बहवः कथाः प्रक्षिप्ता अपि सन्ति।
  3. हितोपदेशःनारायणनामकेन केनापि पण्डितेनायं सङ्ग्रहः कृतः। अत्र स्वयमुक्तं –‘पञ्चतन्त्रात्तयान्यस्माद् ग्रन्थादाकृष्य लिख्यते ’ इति। तेनास्य पञ्चतन्त्ररुपान्तरत्वमुक्तं भवति। आचारशिक्षाऽस्य ग्रन्थस्य मुख्यमुद्देश्यम्। अत्रत्याः कथाः नानाग्रन्थेभ्यो गृहीताः, यथा- मुनिमूषिककथा महाभारतात् गृहीता, चतुरमतिस्त्रीकथा शुकसप्ततितो गृहीता, वीरवरकथा वेतालपञ्चविंशतिकातो गृहीता।
  4. बृहत्कथान्तर्गतं पञ्चचन्त्रम् –बृहत्कथायां तस्य पञ्चतन्त्रस्य यद्रव्यमासीत्तदेव काश्मीरेषु समुपचितं सद् बृहत्कथामञ्जर्यां कथासरित्सागरे चावर्ण्यत क्षेमेन्द्रेण । मञ्जर्यां सोमदेवेन कथासरित्सागरे चास्यैव पञ्चतन्त्रस्य कथाभागो वर्णित इति विदुषामाशयः। अत्र क्वचित् सङ्क्षिप्तत्वं क्वचिद् रुपान्तरितत्वमपि दृश्यते।
  5. तन्त्राख्यायिका – पञ्चतन्त्रस्यैव रूपविशेषः तन्त्राख्यायिकानाम्ना प्रसिध्दः। काश्मीरदेशे शार्दालप्यामस्यैकमेव पुस्तकमधुनावधि प्राप्तम्। तन्त्राख्यायिकायामाद्य पञ्चतन्त्रस्य यावानंशः सुरक्षितो विद्यते तावानंशो नान्यत्र। अत्र बहव्यः कथाः प्रक्षिप्ताः अपि सन्ति, यथा - नीलशृगालस्य, चतुरजम्बुकस्य, सोमिलकतन्तुवायस्य, कुटिलकुट्टिन्याः, नृपशिवेः, वृध्दहंसस्य, लशुनचौरस्य, वीरवेषधारिणश्च कथाः। अस्य रचनाकालो निश्चित्य वक्तुमशक्यः।
  6. सरलग्रन्थः – अयमपि पञ्चतन्त्राधारकस्तद्रूपान्तरभूतो वा ग्रन्थः। अस्य तन्त्राख्यायिकया सह महत्साम्यं वर्तते। अत्र वैदिकमुनीनां नामानि नोपलभ्यन्ते, जैनमतप्रसिध्दानां दिगम्बरनग्नकक्षपणकधर्मं देशनानप्रभृतीनां शब्दानां प्रयोगस्य दर्शनेन "जैनः कश्चिदस्य ग्रन्थस्य रचयितेति तर्कयन्ति कतिपये। अत्रमाघकाव्यात् पद्यानि उद्धृतानि पूर्णभद्रश्चामुं स्मरति, तदयं ग्रन्थः क्रैष्टीयैकादशशतकसम्भवः स्यादिति विश्वसन्ति।
  7. पूर्णभद्रस्य पञ्चतन्त्रम् (पञ्चाख्यानकम्)- पञ्चाख्यानकनाम्ना प्रसिध्दः पूर्णभद्रकृतोऽयं ग्रन्थः तन्त्राख्यायिकान् अन्यानपि च तद्विषयकग्रन्थान् विलोक्य कृतः प्रतीयते। सोमाख्यस्य कस्यचिन्मन्त्रिणः प्रसन्नतायै पूर्णभद्रेणा ११९९ तमे क्रैष्टीये ग्रन्थोऽयं लिखितः।

मूलपञ्चतन्त्रप्रणेतासम्पाद्यताम्

पञ्चतन्त्रस्य रचयिता कः इत्यस्य सामान्यप्रश्नस्य उत्तरम् अस्ति यत्, "पण्डितः विष्णुशर्मा" इति पञ्चतन्त्रे एव स्पष्टं भवति। श्लोको यथा –

सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरैतच्चकार सुमनोहरं शास्त्रम् ॥ [१७]

गद्येपि वष्णुशर्मा एव पञ्चतन्त्रस्य रचयिता उक्तः।[१८] तस्य वयः अशीतिः आसीत्, यदा तेन एतस्य ग्रन्थस्य रचना कृता।[१९] परन्तु एतत्तु केवलं प्राथमिकं ज्ञानं मन्यते। वास्तव्येन पञ्चतन्त्रस्य रचयितुः विषये अनेके तर्काः सन्ति। यतो हि आचार्यचाणक्यस्यापि विष्णुशर्मा इति नाम प्रसिद्धम् आसीत्, अतः केचन आचार्यचाणक्यमेव एतस्य ग्रन्थस्य रचयितृत्वेन आमनन्ति। परन्तु पञ्चतन्त्रस्य प्रस्तावनायामेव विष्णुशर्मा आचार्यचाण्यक्यं स्मृत्वा नमस्करोति।[२०] अतः विभिन्नाः विद्वांसः तर्कयन्ति यत्, वस्तुतः पञ्चतन्त्राख्यस्यास्य मूलग्रन्थस्य रचना तु आचार्यचाणक्येनैव कृता स्यात्, परन्तु ततः केनचित् आचार्यचाणक्यस्य स्तुत्यकः श्लोकः निक्षेपितः स्यादिति। ते स्वतर्के योजयन्ति यत्, एतादृशस्य ज्ञानगहनस्य ग्रन्थस्य रचनां केवलम् आचार्यचाणक्यसदृशः विद्वान् एव कर्तुं प्रभवतीति। पञ्चतन्त्रस्य प्रस्तावनास्तुत्यां यद्यपि आचार्यचाणक्यस्य उल्लेखः अस्ति, तथापि उक्तस्य तर्कस्य समर्थकाः अनेके सन्ति। आचार्यचाणक्यमेव पञ्चतन्त्रस्य रचयितृत्वेन ये विद्वांसः तर्कयन्तः सन्ति, तेषु आर्थर् कीथ (Arthur Keith), फ्रेङ्कलिन् एजरटन् (Franklin Edgerton) (एषः भ्रमितः सन् हर्टेल् इत्यस्यैवान्धानुकरणं कुर्वन् अस्ति।[२१]) इत्यादयाः प्रमुखाः।

डॉ जायसवाल-महोदयस्य मतानुसारं तु डॉ कीथ इत्यस्य प्रयासः आसीत् यत्, पञ्चतन्त्रग्रन्थस्य रचनाकालः क्रीष्टाब्द्योत्तरम् उपस्थापनीयः इति। तस्य पृष्ठे कीथ इत्यस्य कः उद्देशः आसीत् इति तु स्पष्टतया ज्ञातुं न शक्यते। परन्तु डॉ कीथ पञ्चतन्त्रस्य पुरातत्वं खण्डयितुं प्रयासम् अवश्यम् अकरोत्। प्रत्युत डॉ. जायसवाल-महोदयः तस्य विरुद्धम् अनेकान् तर्कान् उपस्थाप्य डॉ कीथ इत्यस्य तर्काणां खण्डनं कृतवान्।[२२] डॉ कीथ इत्यस्य मतानुसारं तु "कौटिलीयम् अर्थशास्त्रम्" इत्येषः महान् ग्रन्थः आचार्यचाणक्येन न लिखितः। सः ग्रन्थः तु मिथ्या अस्ति इति। परन्तु डॉ. जायसवाल-महोदयेन तस्य सर्वेषां तर्काणां खण्डनं कृतम् अस्ति। डॉ. कीथ इत्यस्य वचनानां श्रीजयचन्दः विद्यालङ्कारः अपि खण्डनं करोति। 'भारतीय इतिहास की रूपरेखा' इत्याख्ये स्वग्रन्थे विस्तारेण तर्कान् दत्तवान् सः।[२३]

केचन तु प्रस्तावनायाम् आचार्यचाणक्यस्य उल्लेखे सति विष्णुशर्माणम् आचार्यचाणक्यात् भिन्नम् एव कथयन्ति। एतेषु जोहानिस हर्टेल (Johannes Hertel), डॉ. जायसवाल, श्रीजयचन्दः विद्यालङ्कारः इत्यादयाः प्रमुखाः।[२४]

हस्त्यश्वादियानसाधनं विहायात्रोष्ट्राऽसकृद्वर्णित इति काश्मीरदेश्योऽयं विष्णुशर्मा सम्भाव्यते।

रचनाकालःसम्पाद्यताम्

एतावता पञ्चतन्त्रस्य निश्चितं कालं तु ज्ञातुं कोऽपि न शक्तवान्। एतस्य ग्रन्थस्य प्राचीनतायाः विषये अनेकेषाम् इतिहासविदां विभिन्नानि मतानि सन्ति। पञ्चतन्त्रस्य रचनाकालः तृतीयशताब्दी (BC), रचनाप्रदेशः काश्मीरश्च मन्यते।[२५] गुणाढ्यरचिते 'बृहत्कथा'-ग्रन्थे पञ्चन्त्रस्य पाठः लभ्यते। बृहत्कथायाः रचनाकालः ७८ ई. मन्यते। अतः अनेकेषां विदुषां मते पञ्चन्त्रस्य रचकालः ३०० ई.पू. अस्ति। केचन २०० ई.पू. अपि स्वीकुर्वन्ति। यदि एतस्य ग्रन्थस्य रचयिता आचार्यचाणक्यः अस्ति, तर्हि तेन स्वस्य वृद्धावस्थायामेव एतस्य ग्रन्थस्य रचना कृता स्यादिति अनेकैः अनुमीयते।

उद्देशःसम्पाद्यताम्

बालसाहित्ये सर्वं विस्तृतं, विस्मयपूर्णं च आवश्यकम्। देशकालयोः प्रवाहग्रस्तं बालसाहित्यं सततं परिवर्तनशीलं भवति। परन्तु कालक्रमे तेषां प्रयोजने अन्तरं न भवति। बालसाहित्यस्य मुख्यप्रयोजनेषु बालानन्दः, भाषाविकासः, मूल्यविकासः, संस्कारसिञ्चनं, नीतिविवेकश्च मुख्यतया स्मर्यन्ते। तेषु मुख्यतमं तु आनन्दः एव कथ्यते। यतो हि आनन्दस्य माध्यमेनैव बालेभ्यः अन्यप्रयोजनानां सिद्धिः शक्यते। पञ्चतन्त्रस्य कथामुख एव विष्णुशर्मा स्वग्रन्थस्य उद्देशं सिंहनादेन सह उद्घोषयति। राजा अमरशक्तिः यदा स्वपुत्रान् पाठयितुं विष्णुशर्मणे साग्रहं निवेदयति, तदा विष्णुशर्मा सरस्वतीविनोदः, न्यायशास्त्रज्ञानदानम् इत्येतौ उद्देशौ कथयति।[२६] विष्णशर्मणः उद्देशयोः बालसाहित्यस्य कार्यं प्रत्यक्षं भवति। बालकानां जीवने बालसाहित्यं विनोदसाधनं, मार्गदर्शकं, कल्पनाशक्तौ निमज्जनसाधनम्, आकाशे स्वतन्त्रतया डयितुं विमानं च भवति। साहित्यं प्रति आकर्षिताः बालाः सानन्दं स्वविकासस्य आधारशीलायाः रचनां कुर्वन्ति।पञ्चतन्त्रस्य प्रमुखः उद्देशः बालकेषु नैतिक-व्यावहारिकशिक्षायाः सिञ्चनम् आसीत्। एतस्य कृते एव रचनाकारः कथायां पशुपक्षिणां माध्यमेन नयरूपसिद्धान्तान् वदति। पञ्चतन्त्रे याः कथाः सन्ति, तेषु लेखकस्य उद्देशः स्पष्टः भवति। पञ्चतन्त्रस्य सर्वासु कथासु वाग्व्यवहारः, करणीयाकरणीययोः उपदेशः, कर्तव्यपालनं, मित्ररक्षा, वचनपालनम् इत्यादयः गुणाः वर्णिताः सन्ति। लेखकः कथायाः माध्यमेन बालेषु न केवलं व्यवाहरबुद्धिं सम्पादयितुम् इच्छति, अपि तु समाजे व्याप्तानां दोषाणां प्रति अपि ज्ञानबुद्धिं सम्पादयितुं प्रयतते। अत एव पञ्चतन्त्रस्य कथासु छल-कपट-अहङ्कार-छद्मपूर्णव्यवहारादीनां दोषाणाम् अपि वर्णनं प्राप्यते।

भाषा, शैली चसम्पाद्यताम्

पञ्चतन्त्रस्य रचना गद्यपद्यमिश्रतया जाता अस्ति। अत्र नैतिकोपदेशात्मकः भावः पद्यमाध्यमेन, तथा च कथाभागः गद्यमाध्यमेन उपस्थापितः अस्ति। कुत्रचित् पद्यमाध्यमेनापि कथाभागस्य दर्शनं भवति। पञ्चतन्त्रे पद्यानां यः उपयोगः अभवत्, तेन ग्रन्थकारस्य नयरूपसिद्धान्ताः सूर्यवत् दरीदृश्यन्ते। पञ्चतन्त्रस्य भाषा सूक्तिभिः परिपूर्णा वर्तते। हासपरिहासपूर्णा, ललिता, हृदयग्राह्या च पञ्चतन्त्रस्य भाषा। वाक्यविन्यासः अपि सरलः सुबोध्यः एवास्ति। कुत्रापि क्लिष्टशब्दानां, दुर्बोधशब्दानां च उपयोगः न जातः अस्ति। विषयस्य उपस्थापनरूपिणी या भाषा आवश्यकी भवति, तादृश्यां शैल्याम् एव विषयोपस्थापनम् अपि जातम् अस्ति।

नयशास्त्रे व्यङ्ग्यस्य उपयोगः सामान्यः मन्यते। परन्तु अस्मिन् नयशास्त्रे तु व्यङ्ग्यात्मपाठैः सह आलङ्कारिकशैल्याः अपि बहुधा प्रयोगः विद्यते। ब्राह्मणानाम् आडम्बरः, भृत्यानां कपटपूर्णव्यवहारः, राज्ञां विवेकहीनता, स्त्रीणां चरित्रभङ्गः इत्यादयः विषयाः व्यङ्ग्यशैल्याम् आलङ्कारिकतया प्रदर्शिताः। बहुत्र लघुवाक्यानि वार्तालापशैल्यापि निबद्धानि सन्ति।

विवरणम्सम्पाद्यताम्

१. मित्रभेदः

२. मित्रसम्प्राप्तिः

३. काकोलूकीयम्

४. लब्धप्रणाशः

५. अपरीक्षितकारकम्  

पञ्चतन्त्रस्य रचना उक्तेषु पञ्चतन्त्रेषु विभक्ता अस्ति। एतेषां तन्त्राणाम् आरम्भाय कश्चित् कथामुखः अपि विद्यते। सः कथामुखः पञ्चतन्त्रस्य रचनायाः पूर्वपीठिकाम् उपस्थापयति। 

प्रतितन्त्रम् एका प्रधानकथा भवति। नीतिबोधनार्थं पुनः तत्र बह्व्यः उपकथाः भवन्ति। पञ्चतन्त्रस्य शैली अतीव सरला। कासुचित् कथासु लघुहास्यम् अपि दृश्यते। भारतीयसंस्कृतिः सर्वासु कथासु स्फुटतया दृश्यते। अयं ग्रन्थः काश्मीरलिप्या लिखितः अस्ति। अस्य प्राचीनप्रतिकृतिषु 'तन्त्राख्यायिका' इति नाम दृश्यते। इदं गुप्तशासनकाले लिखितमिति श्रूयते। अयं ग्रन्थः नवरसैः युक्तः चमत्कारगर्भितः लोकानुभवपूर्णश्च अस्ति।

कथामुखःसम्पाद्यताम्

शास्त्रज्ञानशून्येभ्यः, विवेकहीनेभ्यः, दुर्व्यसनेभ्यः च स्वमूर्खपुत्रेभ्यः दुःखिनः राज्ञः अमरशक्तेः कथा अस्ति। सः राजा विष्णुशर्मणे स्वबालकानां शिक्षायाः उत्तरदायित्वं यच्छति। यतो हि विष्णुशर्मा प्रतिज्ञां करोति यत्, अहं षण्मासेषु एव भवतः पुत्रान् राजनीतिशास्त्रे एवं नीतिशास्त्रे पारङ्गतान् करिष्ये इति।

मित्रभेदःसम्पाद्यताम्

एतस्मिन् तन्त्रे एका प्रमुखा कथा अस्ति। तस्याः प्रमुखायाः कथायाः उपकथात्वेन त्रयोविंशतिः कथाः सन्ति। मुख्यकथायाः अन्तर्गततया पिङ्गलक-नामकः वनराजः सिंहः आपत्तिकाले स्वस्वामिना परित्यक्तस्य सञ्जीवक-नामकस्य वृषभस्य रक्षां करोति। सः वनराजः सिंहः स्वस्य विश्वस्तमन्त्रिणोः इच्छाविरुद्धं तं सञ्जीवकं स्वस्य मित्रत्वेन घोषयति। तयोः मन्त्रिणोः नाम क्रमेण करटकः, दमनकश्च। तौ मन्त्रिणौ शृगालौ आस्ताम्। ततः तौ उभौ शृगालौ छलं, प्रपञ्चं च कुर्वन्तौ अनेकानि उपाख्यानानि वदतः। तेषाम् उपाख्यानानाम् आधारेण तौ सिंहवृषभयोः मध्ये अविश्वासभावं जनयतः। अर्थात् तयोः मित्रयोः मध्ये भेदं जनयतः। तत्पश्चात् ताभ्यां प्रेरितः सिंहः वृषभस्य हत्यां करोति। किन्तु दमनाख्यः शृगालः युक्तिभिः सिंहाय सान्त्वनां दत्त्वा स्वस्य प्रधानमन्त्रिपदे सुस्थिरो भवति।

मित्रयोः भेदोपस्थापनम् एव एतस्य तन्त्रस्य उद्देश्यम् अस्ति। तयोः शृगालयोः माध्यमेन याः उपकथाः सन्ति, तासु पशु-पक्षिणां मनोहारि, नीतिप्रदं, हृदयाह्लाददायकं च वर्णनं विद्यते।

मित्रसम्प्राप्तिःसम्पाद्यताम्

एतस्मिन् तन्त्रे एका मुख्यकथा अस्ति। तस्याः मुख्यकथायाः सप्त उपकथाः सन्ति। चित्रग्रीव-नामकः कपोतराजः व्याधस्य जाले बद्धस्य स्वदलस्य अन्यान् कपोतान् जालेन सह डयितुं कथयति। सः स्वदलेन सह डयित्वा स्वस्य प्रियमित्रस्य हिरण्यक-आख्यस्य मूषकस्य गृहं गच्छति। एवं सः कपोतराजः मूषकैः स्वदलं जालात् मोचयति। यदा हिरण्यकः चित्रग्रीवं बन्धनाद् विमोचयितुं स्वदलेन सह प्रस्तुतः अभवत्, तदा चित्रग्रीवः तं कथयति यत्, हे मूषकराज ! पूर्वं मे अनुचरान् बन्धनात् मोचयतु इति।

मूषकेन कपोताः बन्धनमुक्ताः अभूवन्। ततः लघुपतनक-नामकस्य काकस्य मूषकराजेन हिरण्यकेन सह, मन्थरक-नामकेन कूर्मेण सह च मित्रता भवति। मूषकराजः हिरण्यकः स्वस्य पूर्वतनस्य गृहस्य त्यागस्य कथां कथयति। सः कथयति यत्, कश्चन ताम्रचूड-नामकः सन्न्यासी आसीत्। सः मूषकेभ्यः स्वभिक्षान्नं रक्षितुम् अविरतं प्रयासं करोति स्म। तथापि अहं तस्य भिक्षान्नं खादामि स्म। संन्यासिनः किञ्चन मित्रं तम् अकथयद् यत्, निश्चयेन मूषकस्य पार्श्वे एतस्य बलस्य कारणं स्यात् इति। ततः सन्न्यासी मूषकस्य बलकारणम् अन्विष्यति। सन्न्यासी स्वस्य संशोधने प्राप्तवान् यत्, मूषकस्य बलं सञ्चितः स्वर्णभण्डारः अस्ति इति। स्वर्णभण्डारे अपाकृते मूषकः दूर्बलः भवति। ततः स्वसेवकानां पोषणं, संरक्षणं च कर्तुम् असमर्थः मूषकराजः स्वसेवकैः परित्यक्तः भवति।

ततः चित्राङ्गाख्यः कश्चन मृगः मूषकस्य मित्रं भवति। एकदा विचरन् मृगः एकस्मिन् जाले बद्धः। तत्पश्चात् मुक्तेः दीर्घकालं यावत् प्रतीक्षां कुर्वन् सः स्वस्य मित्राणां साहाय्येन येन केन प्रकारेण मुक्तः भवति। तस्य मित्राणि इत्युक्ते  कपोतः, मूषकः, काकः, कच्छपश्च। परन्तु तस्मिन् एव काले व्याधः तत्र सम्प्राप्नोति। व्याधं दृष्ट्वा कच्छपः बिभेति। एवं मृगः युक्त्या मृतवत् भवति। उचितं समयं दृष्ट्वा मृगः मुक्तः सन् कच्छपम् अपि मोचयति।

एतस्मिन् तन्त्रे कपोतः, मूषकः, कच्छपः, काकः, हरिणः इत्येतेषां परस्परं मित्रभावः आसीत्। एकस्मिन् सदस्ये आपतितायां विपत्त्यां सत्यां परस्परस्य साहाय्येन विपत्तेः विमुक्ताः अभूवन्। अत एव एतस्य तन्त्रस्य मित्रसम्प्राप्तिः इति अन्वर्था सञ्ज्ञा। अन्ततः मित्रस्य माहात्म्येन तन्त्रस्यास्य समाप्तिः भवति।

काकोलूकीयम्सम्पाद्यताम्

एतस्मिन् तन्त्रे एका मुख्यकथा अस्ति। तस्याः मुख्यकथायाः सप्तदश उपकथाः सन्ति। एतस्मिन् तन्त्रे विग्रहस्य (युद्धस्य) तथा सन्धेः वर्णनम् अस्ति। एतस्मिन् मुख्यकथा मेघवर्ण-नामकस्य काकराजस्य, अरिमर्दन-नामकस्य उलूकराजस्य च अस्ति। एकस्मिन् वटवृक्षे काकानां राजा मेघवर्णः स्वदलेन सह निवसति स्म। समीपस्थायाः गिरिकायाः गुहायां उलूकानां राजा अरिमर्दनः स्वदलेन सह निवसति स्म। प्रतिदिनं रात्रिकाले दिवान्धः उलूकराजः वटवृक्षं परितः डयित्वा चञ्च्वाघातेन कस्यचित् एकस्य काकस्य प्राणान् हरति स्म एव। उलूकानाम् आक्रमणेभ्यः त्रस्तः मेघवर्णः स्वमित्रैः सह विमर्शं करोति। सः कथयति यत्, एते उलूकाः किमर्थम् अकारणमेव अस्माभिः सह वैरभावं पालयन्ति ? तेषां प्रतीकाराय अस्माभिः अपि साम-दानादिषु उपायेषु कस्यचिद् उपायस्य अनुपालनं करणीयम् ? इति। तस्यां सभायाम् उपस्थितः स्थिरजीवी इत्याख्यः काकमन्त्री उलूकानाम् अकराणेन आक्रमणस्य कारणं वदति। सः कथयति यत्, पूर्वकाले पक्षिणां राजपदाय निर्वाचनम् आसीत्। तस्मिन् निर्वाचने यदा सर्वसम्मत्या उलूकः पक्षिराजः भवेत् इति प्रस्तावः अभवत्, तदा काकः उलूकस्य भयावहत्वं सिद्धयित्वा उलूकानां पक्षिराजत्वेन विरोधं अकरोत्। एवं सर्वान् पक्षिणः सः काकः स्वपक्षे कृत्वा उलूकस्य राज्याभिषेकम् अस्थगयत्। तदा उलूकः काकविरुद्धं प्रतिशोधस्य सङ्कल्पं अकरोत् इति। तस्याः घटनायाः अनन्तरम् अस्माभिः सह उलूकानां वंशपरम्परागतः वैरभावः उद्भूतः अस्ति इति उक्त्वा स्थिरजीवी व्यरमत्।

तत्पश्चात् स्थिरजीवी उलूकानां सम्मुखं शरणागतत्वेन उपस्थातुं युक्तिं करोति। यदा राज्ञः मेघवर्णात् तस्याः युक्तेः कार्यान्वयाय अनुमतिः प्राप्यते, तदा स्थिरजीवी मेघवर्णेन सह कृत्रिमं युद्धं कृत्वा आत्मानं रक्तरञ्जितं करोति। ततः स्वराज्ञः, अन्यकाकानां च तस्मात् आश्रयस्थलात् अन्यत्र स्थानान्तरणोत्तरं स्थिरजीवी उलूकराजस्य शरणम् अगच्छत्। स्थिरजीवी युक्त्या एवं बुद्ध्या तस्य उलूकस्य विश्वासम् आर्जयत्। तत्पश्चात् गुहायां स्वस्मै नीडस्य निर्माणाय अनुमतिं प्राप्नोत्। नीडनिर्माणस्य स्वाङ्गं कृत्वा स्थिरजीवी तृणसमूहम् एकत्र्यकरोत्। ततः अवसरं प्राप्य तं तृणसमूहम् अग्निमयं कृत्वा उलूकानां (शत्रूणां) गृहस्य अनुचरसहितं नाशम् अकरोत्। काकराजः अपि स्वस्य मन्त्रिणे अनेकानि पुरस्काराणि दत्त्वा स्वस्य वटवृक्षरूपरी गृहे निश्चिन्ततया दीर्घकालं यावद् अवसत्। अनेकेषां नीतिप्रदश्लोकानाम् उपस्थापनोत्तरम् एतस्य तन्त्रस्य समाप्तिः भवति।

लब्धप्रणाशःसम्पाद्यताम्

एतस्मिन् तन्त्रे एका प्रधानकथा अस्ति। तस्याः प्रधानकथायाः एकादश उपकथाः सन्ति। एतस्य तन्त्रस्य प्रधानकथा करालमुख-नामकस्य मकरस्य, रक्तमुख-नामकस्य वानरस्य च अस्ति। वानरः प्रतिदिनं मकराय जम्बूफलं यच्छति स्म। मकरोऽपि तानि जम्बूफलानि भुक्त्वा दीर्घकालं यावत् वानरेण सह वार्तालापं करोति स्म। ततः मकरः अवशिष्टानि जम्बूफलानि स्वस्य गृहं नीत्वा पत्न्यै अपि यच्छति स्म। वानरमकरयोः प्रगाढं मैत्रीं दृष्ट्वा मकरी एकदा अवदत् यत्, हे नाथ ! यः सदैव एतादृशानि अमृततुल्यानि फलानि खादति, तस्य हृदयम् अपि अमृततुल्यम् एव भवेत्। अतः यदि त्वं मां स्वपत्नीत्वेन अङ्गीकरोषि, तर्हि तस्य वानरस्य हृदयम् आनीय मह्यं दद। तेन जरामरणयोः पाशात् विमुक्ता अहं त्वया सह दीर्घकालं यावद् उपभोगं कर्तुं शक्नुयाम् इति। मकरः प्रत्युत्तरति यत्, हे प्रिये! वानरे अहं मे भ्रातरं पश्यामि। सः तुभ्यं फलं दत्त्वा त्वयि उपकरोति एव। अतः अहं तं मारयितुम् असमर्थः इति। परन्तु मकरस्य विधर्मिणी पत्नी तस्य वचनं नाङ्ग्यकरोत्। स्त्रीहठं कृत्वा सा आत्महत्यायाः विभिषीकाम् अपि प्रादर्शयत्। विवशः मकरः दुःखम् अनुभवन् वानरस्य समीपम् अगच्छत्। अनेकैः नीतिवाक्यैः सः वानरं स्वगृहम् आगन्तुम् आमन्त्रयत्। वानरः अपि तेन सह गन्तुं सज्जः अभवत्। ततः वानरः मकरस्य पृष्ठभागे स्थितवान्। परन्तु मध्यपथि एव वानरः मकरस्य योजनाम् अजानत्। तदा प्रत्युत्पन्नमतिः वानरः मकरं कथयति यत्, अहं जम्बूवृक्षस्य एकस्मिन् स्थाने मे हृदयं सुरक्षिततया स्थापयामि। मकरः अपि सानन्दं वानरं पुनः जम्बूवृक्षं प्रति प्रापयति। तत्र प्राप्य वानरः दीर्घलङ्घनेन जम्बूवृक्षम् आरोहति। ततः सः अचिन्तयत्, भयवशात् मे प्राणरक्षणं तु अभवदिति। मकरः पुनः तस्मात् हृदयं याचते। परन्तु वानरः हसन् भर्त्सनापूर्वकं प्रत्युत्तरति यत्, मूर्ख ! विश्वासघातिन् ! त्वां धिक्कारः अस्ति। किं कस्यापि पार्श्वे द्वे हृदये भवतः खलु ? एतस्माद् वृक्षाद् अधस्तात् गच्छ। पुनः कदापि अत्र नागच्छ इति।

मकरः वानरेण सह पुनः मैत्रीं साधयितुं प्रयतते। परन्तु वानरः अनेकैः उपाख्यानैः, नीतवाक्यैः च मकरं धिक्कारयति। अन्ततो गत्वा पुरुषार्थजन्याः लक्ष्म्याः माहात्म्येन सह तन्त्रस्य समाप्तिः भवति।

अपरीक्षितकारकम्सम्पाद्यताम्

एतस्य तन्त्रस्य अन्तर्गततया एका मुख्यकथा, चतुर्दश उपकथाः च सन्ति। मुख्यकथायाः माध्यमेन विचारपूर्वकं सुपरीक्षितकार्यं कर्तुं नीतेः एव चर्चा अस्ति। योग्यतया विचारम् अकृत्वा एवमेव दृष्टम् उत श्रुतं कार्यं ये कुर्वन्ति, तेषाम् असफलतायाः वर्णनम् अस्ति। अविचार्य कार्ये कृते सति कष्टयुक्ता स्थितिः उद्भवति।

स्वदरिद्रतायाः दुःखी, चिन्तातुरः मणिभद्राख्यः कश्चन वणिक् रात्रौ स्वप्नं पश्यति। तस्मिन् स्वप्ने सः आदेशं प्राप्नोति यत्, श्वः प्रातः तव समीपं यः जैनसन्न्यासी आगमिष्यति, तस्य वधं करोतु इति। सः संन्यासी तव पूर्वजैः सञ्चितधनम् एव अस्ति। मरणोत्तरं सः स्वर्णराशित्वेन परिणतः भविष्यति इति। अपरस्मिन् दिने मणिभद्रस्य स्त्री स्वस्य ग्रामस्य नापितारं पादप्रक्षालनाय आहूतवती। तस्मिन् एव काले स्वप्ने दृष्टः सन्न्यासी तत्र प्रकटितः। मणिभद्रोऽपि हर्षितः सन् समीपस्थेन दण्डेन सन्न्यासिनः शिरसि आघातम् अकरोत्। सः सन्न्यासी अपि स्वर्णराशिः सन् भूमौ अपतत्। एषा घटना नापितुः सम्मुखम् एव जाता आसीत्। अतः सः स्वस्य गृहं गत्वा जैनसन्न्यासिनः वधस्य युक्तिं पुनरावर्तयति। परिणामस्वरूपं तेन मारितः जैनसन्न्यासी स्वर्णराशिः तु न भवति। प्रत्युत सः नापिता क्रुद्धात् न्यायाधीशात् मृत्युदण्डं प्राप्नोति। ततः एतस्मिन् तन्त्रे अनेकाः नीतियुक्ताः, व्यवहारिकाः उपकथाः सन्ति। अन्तिमे श्लोके मानवमात्रेभ्यः शिक्षा उल्लिखिता अस्ति यत्,

मन्त्रे तीर्थे द्विजे देवे, दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य, सिद्धिर्भवति तादृशी ।।

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. छान्दोग्योपनिषद्, ४.५,७,८
  2. Das Pancatantra, page - 451
  3. The Fables of Bidpai, Introduction
  4. Kalilah and Dimnah; or, The fables of Bidpai; being an account of their literary history, Introduction, p. xiv
  5. History of the Migration of Panchatantra, Vijay Bedekar, Institute for Oriental Study, Thane, Saturday, the 27th December 2008
  6. Tales Within Tales – adapted from the fables of Pilpai पुस्तकनाम्ना एव ज्ञायते
  7. https://en.wikipedia.org/w/index.php?title=Pilpai&redirect=no
  8. Harvard Oriental Series. Department of Sanskrit and Indian Studies, Harvard University, 2009
  9. The Fables of Pilpay, Introduction
  10. A Curriculum for English, Page – 109 (https://archive.org/stream/ERIC_ED013810#page/n128/mode/1up/search/bidpai)
  11. The Sanskrit language (in Norwegian), (http://www.languagecomparison.com/en/difference-between-sanskrit-and-norwegian/comparison-33-27-997
  12. ભારતીય ભાષાઓમાં બાળસાહિત્ય, પૃ. १६४  
  13. हिन्दी बालसाहित्य – एक अध्ययन, डॉ. हरिकृष्ण देवसरे, इ. १९६९
  14. ભારતીય ભાષાઓમાં બાળસાહિત્ય, પૃ. १६२
  15. અર્વાચીન બાલસાહિત્ય કેવળવણીખાતાની આંગળીએ આંગળીએ ચાલતું થયું. તેમાં સાહિત્યનાં તત્ત્વો કરતાં પણ શિક્ષણનાં તત્ત્વો વિશેષ હતાં., જ્ઞાનગંગોત્રી-ગ્રંથશ્રેણી-10, ઇ. 1972, 'બાળકિશોર સાહિત્ય', મૂળશઙ્કર ભટ્ટ, પૃ. 223
  16. પંચતંત્ર, પૃ. 55-56
  17. पञ्चतन्त्रम्, श्लो. ०.३
  18. तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः। तस्मै समर्पयतु एतान्। स नूनं द्राक् प्रबुद्धान् करिष्यति इति । (पञ्चतन्त्रस्य ९ श्लोकोत्तरमेतद्गद्यम्)
  19. ममाशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनम् । (पञ्चतन्त्रस्य ९ श्लोकोत्तरमेतद्गद्यम्)
  20. मनवे वाचस्पतये शुक्राय पराशराय ससुताय। चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥०.२॥
  21. The Panchatantra Reconstructed, Page – 182, 183
  22. हिन्दूराजतन्त्र, परिशिष्ट, 'ग', खण्ड – १, पृ. ३२७-३६७
  23. भारतीय इतिहास की रूपरेखा, पृ. ५४७
  24. कौटिलीयम् अर्थशास्त्रम्, भूमिका – ६८-६९
  25. Jacobs 1888, Introduction, page xv; Ryder 1925, Translator's introduction, quoting Hertel : "the original work was composed in Kashmir, about 200 B.C. At this date, however, many of the individual stories were already ancient."
  26. श्रूयतां ममैष सिंहनादः । नाहमर्थलिप्सुर्ब्रवीमि । ममाषीतिवर्षस्य व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनम् । किन्तु त्वत्प्रार्थनासिद्ध्यर्थं "सरस्वतीविनोदं" करिष्यामि । .... । यद्यहं षण्मासाभ्यन्तरे तव पुत्रान् "नयशास्त्रं प्रत्यनन्यसदृशान्" न करिष्यामि, ततो नार्हति देवो देवमार्गं सन्दर्शयितुम् । (कथामुखस्य नवमश्लोकोत्तरं विष्णुशर्मा राजनं कथयति इदम्)
"https://sa.wikipedia.org/w/index.php?title=पञ्चतन्त्रम्&oldid=444407" इत्यस्माद् प्रतिप्राप्तम्