वि के गोकाक

(वि.कृ.गोकाकः इत्यस्मात् पुनर्निर्दिष्टम्)

कन्नडाभाषायाः पञ्चमज्ञानपीठिषु विनायक कृष्ण गोकाकः (Vinayak Krishna Gokak) (कन्नडभाषा - ವಿನಾಯಕ ಕೃಷ್ಣ ಗೋಕಾಕ) पञ्जमः साहित्यकारः । अस्य कन्नडप्रतिभाशलिग्रन्थकर्तुः क्रि.श.१९९१तमे वर्षे ज्ञानपीठप्रशस्तिः आगतम् । वि.कृ.गोकाकमहोदयः कन्नडाङ्ग्लभाषयोः समानं प्रभुत्वं प्राप्तवान् । सः स्वस्य जीवतवधौ एव यथायोगयं सम्माननम् अनुरूपां ख्यातिं च प्राप्तवान् । विनायकमहोदयः पूर्वं कन्नडभाषायाः ज्ञानपीठप्रशस्तिसमितेः अध्यक्षः अपि आसीत् ।

वि.कृ.गोककः
ವಿ.ಕೃ.ಗೋಕಾಕ
जननम् (१९०९-२-२) ९, १९०९ (आयुः ११०)
सवणूरु धारवाडमण्डलम्, कर्णाटकराज्यम्
वृत्तिः साहित्यकारः कविः
राष्ट्रीयता भारतीयः
उच्चशिक्षा आक्स्फर्डविश्वविद्यालयः
प्रकारः कथा
साहित्यकान्दोलनम् गोकाकान्दोलनम्
प्रमुखकृतयः भारतसिन्धुरश्मि १९८३

जीवनम्सम्पाद्यताम्

स्वस्य विविधसाधनैः कन्नडभाषायाः अन्ताराष्टियख्यातिम् आनीतवान् विनायक कृष्ण गोकाकः क्रि.श.१९०९तमे वर्षे अगष्टमासे नवमे दिने धारवाडमण्डलस्य सवणूरु इति ग्रामे अजायत । अस्य पिता कृष्णरायः न्यायवादी आसीत् । विनायकस्य बाल्यकाले सवणूरुग्रामः कस्यचित् नवाबस्य (मुसल्मानराजः) संस्थानम् आसीत् । अस्य अध्ययनं स्वग्रामे धारवाडनगरे च अभवत् । प्रौढशिक्षायाः काले यदा एषः धारवाडे आसीत् तदा कन्नडस्य वरकविः इत्येव ख्यातस्य द.रा.बेन्द्रेमहोदयस्य सम्पर्कः प्राप्तः। तत्र एव अरब्धा अस्य साहित्यकृषिः बेन्द्रेमहोदयस्य मार्गदर्शनेन प्रोत्साहनेन संवृद्धा । वरकविः बेन्द्रे मम काव्यगुरुः मर्गदर्शकः आसीत् इति बहुत्र विनायकः उक्तवान् । आङ्ग्लभाषायां स्नातकोत्तरपदवीं प्रथमश्रेण्याम् उत्तीर्य पुण्यपत्तनं (पुणे) गत्वा फर्ग्यूसन् महाविद्यालये उपन्यासकस्य उद्योगं प्राप्तवान् । स्वस्य वृत्तौ स्वयं सम्पूर्णतया निमज्जितवान् । अस्य फलरूपेण स्वछात्रान् मराठीबालन् अकृष्टवान् । अस्य कक्ष्यायाम् अन्यमहाविद्यालयस्य छात्राः अपि आगत्य उपविशन्ति स्म । पर्ग्यूसन् महाविद्यलस्य प्रशासनसमितिः एव विनायकमहोदयम् उन्नताध्ययनार्थम् आक्स्फर्ड् विश्वविद्यालयं पैषयत् । गोकाकः तत्र आङ्ग्लसाहित्यम् अपठत् । परीक्षां प्रथमश्रेण्या उत्तीर्यः तादृशः प्रथमः भारतीयः इति ख्यातः अभवत् । इङ्ग्लेण्डतः प्रत्यागतः गोकाकः माहारष्ट्रस्य साग्लीनगरस्य विल्लिङ्ग्डन् महाविद्यालस्य प्रांशुपालस्थानं समलङ्कारोत्। एषः पुण्यपत्तनस्य (पुणेनगरस्य) फर्गूसन् महाविद्यले, वीसनगरस्य महाविद्यालये, कोल्हापुरस्य राजाराममहाविद्याये, धारवाडास्य कर्णाटकमहाविद्यालये, उस्मानियाविश्वविद्यालये, हैदराबादनगरस्य विदेशीभाषाध्ययनकेन्द्रे,शिम्लायाः उन्नताध्ययसंस्थायां, च विविधपदेषु सेवां कृत्वा बेङ्गळूरुविश्वविद्यालयस्य श्री सत्यसायी उन्नताध्ययनसंस्थायाः च उपकुलपतिः चाभवत् । भारतस्य सांस्कृतिकप्रतिनिधित्वेन गोकाकमहोदयः जपानदेशं, अमेरिकादेशं, इङ्ग्लेण्डदेशं, ग्रीसदेशं, पूर्वाफ्रिकादेशं, च सन्दृष्टवान् । विनायकमहोदयः स्वजीवनान्तं कन्नडाभाषायाः कीर्तिपताकं देशस्यान्तः बहिः च विस्तारितवान् । क्रि.श.१९९२तमे वर्षे एप्रिल् मासस्य २८दिनाङ्के मुम्बैनगरे अस्य देहान्तः अभवत् |

कृतयःसम्पाद्यताम्

अस्य शातकस्य अग्रगण्यकन्नडाभाषा लेखकेषु अन्यतमः वि.कृ.गोकाकमहोदयस्य लेखाः व्यापकाः विपुलाः च सन्ति । गोकाकः कन्नडाङ्ग्लयोः कृतीः रचितवन् । आङ्ग्लभाषया ३०अधिकाः कृतयः रचितवान् । अस्य प्रथमा कन्नडभाषाकृतिः "कलोपासकरु "(ಕಲೋಪಾಸಕರು) एषः समुद्रमार्गेण इङ्ग्लेण्डदेशं गत्वा स्वस्य प्रवासनुभवम् अधृत्य "समुद्रगीतेगळु "(ಸಮುದ್ರ ಗೀತೆಗಳು", "ಸಮುದ್ರದಾಚೆಯಿಂದ) "समुद्रदाचेयिन्द " इति महाकृती । कन्नडभाषायां "नव्य" इति नूतनप्रकारः विनायक गोकाकमहोदयेन एव समारब्धः । अनेन नटकानि, प्रबन्धाः, प्रवसकथनानि, विमर्शालेखनानि च लिखितानि । कन्नडस्य बृहत्कथाग्रन्थेषु अस्य "समरसवे जीवन " (ಸಮರಸವೇ ಜೀವನ) कृतिः प्रसिद्धा अस्ति । "जननायक "(ಜನನಾಯಕ) अस्य प्रसिद्धं नाटकम् । अनेन रचितं भारतसिन्धुरश्मि ऋग्वेदकालस्य जनजीवनविषयकं द्वादशखण्डैः ३५सहस्रपादैः सुशोभितं महाकाव्यम् । विश्वामित्रः अस्याः कथायाः नायकः ।

प्रशस्तिपुरस्काराःसम्पाद्यताम्

विनायक कृष्ण गोकाकस्य साहित्यसंस्कृतिसेवां परिगणय्य सर्वकारः अपि तस्मै यथोचितं प्रशस्तीः पुरस्कारान् च दत्त्वा सममानयत् । गोकाकमहोदयः क्रि.श.१९५८तमे वर्षे बळ्ळारिनगरे प्रचालितस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षः अभवत् । क्रि.श.१९६७तमे वर्षे कर्णाटकविश्वविद्यालयेन क्रि.श.१९७९तमे वर्षे क्यलिफोर्नियायाः फेसिफिक् विश्वविद्यालयेन च अस्मैः गौरवेण डाक्टरेट् उपधिः दत्ता । भारतस्य केन्द्रसर्वकारेण गोकाकाय पद्मश्रीप्रशस्तिः प्रदत्ता । केन्द्रसाहित्याकदम्याः अध्यक्षपदम्, भारतीयज्ञानपीठस्य समितेः अध्यपदम्, च अनेन समलङ्कृतम् । अस्य मेरुकृतेः भारतसिन्दुरश्मि इत्यस्य विषये कर्णाटकसाहित्याकादमी प्रशस्तिः भारतीयविद्याभावनस्य प्रशस्तिः, ऐ.बि.एच्.प्रशस्तिः च अनेन प्राप्ताः । अस्य द्यावा पृथिवी इति पद्यसङ्कलनेन क्रि.श. १९६०तमे वर्षे केन्द्रसाहित्याकादमीप्रशस्तिः अपि प्राप्ता । अस्मै ज्ञानपीठप्रशस्तिप्रदानावसरे अस्य कापि कृतिः न निर्दिष्टा । क्रि.श. १९६९तमवर्षात् क्रि.श.१९८४तमवर्षपर्यन्तं कन्नडसारस्वतलोकाय अस्य योगदानं समालक्ष्य अस्मै ज्ञानपीठप्रशस्तिः प्रदत्ता । किन्तु बहवः भावयन्ति यत् अस्य भारतसिन्धुरश्मिग्रन्थार्थमेव इयं प्रदत्ता । सामान्यतः इयं प्रशस्तिः देहलीनगरे दीयते । किन्तु अस्मै भारतस्य प्रधानमन्त्री मुम्बैनगरम् अगत्य समर्पितवान् । एतत् अस्य ग्रन्थकारस्य गरिमां सूचयति ।

गोकाकवृत्तम्सम्पाद्यताम्

स्वस्य पाण्डित्येन साहित्यलोके प्रसिद्धस्य विनायककृष्ण गोकास्य सामान्यजनेषु अपि प्रसिद्धिम् आप्तुं कश्चन अवसरः आगतः । कार्णाटकसर्वकरः क्रि.श. १९८०तमे वर्षे प्रौढशलापाठ्यक्रमे भाषायाः सथानं निश्चेतुं गोककस्य आध्यक्ष्ये समितिमेकाम् अरचयत् । अनया समित्या दत्तं वृत्तं कन्नडभाषायाः हिते आसीत् । किन्तु सर्वकारः वृत्तमेतत् अङ्गीकर्तुं सर्वकारः असन्नद्धः अभवत् । तदा कन्नडजानाः एककण्ठेन गोकाकवृत्तम् अनुष्ठाने आगच्छतु इति सर्वकारम् आग्रहं कर्तुं आन्दोलनम् अकुर्वन् । एतादृशं माहान्दोलनं कर्णाटके कदापि नाभवत् । अतः कर्णाटकस्य इतिहासे "गोकाकान्दोलनम्" महत्तरं स्थानमवाप्नोत् । अस्य फलरूपेण कर्णाटाके इदानीमपि कन्नडभाषा तृतीयक्ष्यातः दशमक्ष्यापर्यन्तम् अनिरार्यरूपेण पठनीया अस्ति । गोकाकः स्वस्य लेखनेन बोधनेन च कन्नडभाषायाः गौरवम् अवर्धयत् । अपि च गोकाकान्दोलनस्य नेता भूत्वा कन्नडाय न्यायं दापयत् । एवं महाकार्यद्वस्य कारणेन कन्नडजानाः विनायक कृष्ण गोकाकाय सदा कृतज्ञाः भवन्ति ।

बाह्यनुबन्धाःसम्पाद्यताम्

अस्य विषये कन्नडाभाषालेखनार्थम् अयम् अनुबन्धः - http://kannadaratna.com/achievers/gokak.html

"https://sa.wikipedia.org/w/index.php?title=वि_के_गोकाक&oldid=359101" इत्यस्माद् प्रतिप्राप्तम्