वीरधर्मदर्पणस्य प्रणेता परशुरामनारायणपाटणकरोऽस्ति । कविः अयम् अपरान्तविद्यापीठतो लब्ध बी. ए.-स्नातकोपाधिः प्रयागविद्यापीठतश्च लब्ध एम. ए.-स्नातकोत्तरोपाधिविद्वद्वर्यः । पाटणकरस्य जन्म भीमानद्याः तटे रत्नागिरिनामके स्थाने समभूत् । नारायणशर्मास्य जनक आसीत् । कविना १६०५ ख्रीष्टाब्देऽस्य नाटकस्य रचना कृता।

वीरधर्मदर्पणम्  
सञ्चिका:Death of Jayadratha.jpg
पशुपतास्त्रेण जयद्रथस्य वधम्
लेखकः परशुरामनारायणपाटणकरः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कथावस्तु सम्पादयतु

महाभारतीययुद्धे भीष्मो मरणासन्नः वीरशय्यायां वर्त्तते । अर्जुनस्तं प्रणम्य आशीर्वचो गृह्णाति -

चिरं जीव चिरं जीव वह गुर्वी धराधुराम्।

स्मरावतरणमात्मानं नरं भूमारहारिणम्।।

पुनश्च भीष्मेण कथितं यन् मत्तः परं द्रोणाचार्येण सेनापतिना भाव्यम्। न कश्चित्तं जेतुं प्रभवति । तदेव संवृत्तम् । द्रोणाचार्यस्य सेनापतित्वे तद्रचितचक्रव्यूहपरिवृतः अभिमन्युर्जयद्रथेन हतः । जयद्रथस्तु गवन्धः आसीत् । कर्णं विहाय सर्वेऽपि तस्य वीरतां प्राशंसन् । जयद्रथस्य विजयपूजा समायोजिता । । चतुर्थेऽङ्के शङ्कुकर्णः कृष्णमर्जुनं च हन्तुं जयद्रथेन सङ्गतो भवति । शङ्कुकर्णः खड्गम् आदाय घोरान्धकारे गच्छतोः कृष्णार्जुनयोः रथमनुजगाम । सोऽचिन्तयद् यद्, अहं पृष्ठतो मार्जार इवाक्रम्य खड्गेनार्जुनस्य कण्ठं विदारयिष्यामि इति।

तस्मिन्नेव समये दूतेन सूचितं यद् अभिमन्युर्युद्धे वीरगतिं प्राप्तवान् इति। एतत् समाकर्यार्जुनः करुणविलापं कुर्वन्नेव मूर्च्छितः । सुसमयं समीक्ष्य शङ्कुकर्णः खड्गमादाय तमाचक्राम । कृष्णेन प्रत्याक्रान्तः स जीवनदानार्थं प्रार्थयामास जयद्रथस्य च सर्वमपि रहस्यं प्राकाशयत्। जयद्रथस्य दुर्वृत्तं ज्ञात्वार्जुनेन प्रतिज्ञातम् -

नियतमुदितैवैषा सन्ध्या श्व इव जयद्रथम्

प्रतिविधिकलायाहं हन्तास्म्यनस्तमिते रवौ।

अथ स भगवानस्तं यायाद् वचो मुधयन्मम

स्वतनुमकलां सद्यो होष्याम्यहं खलु पावके।।

अर्जुनो जयद्रथस्य वधार्थं कृतसङ्कल्पोऽस्ति प्रतिज्ञापरायणः । तस्याभिमानमपहर्तुं कृष्णेन अकालसन्ध्या समुपस्थापिता । युद्धं विश्रान्तमभूत् । द्रोणेन विज्ञापितम् — मोघः पार्थस्य सङ्गरः। विषण्णेनार्जुनेन धनुस्त्यक्तम्। स प्रतिज्ञाभङ्गापमानम् असहमानः पावकप्रवेशाय समुद्यतः । दृश्यमेतत् करुणमेव । सर्वे नरनार्योः रोदितुं प्रारेभिरे । युधिष्ठिरोऽपि विलपन्नेवं ब्रवीति -

'हा हा कृतान्त एव बलवान् सत्त्वं न भूत्यै भुवि'।

पुनर्माधवेन माया दूरीकृता। पार्थस्य प्राणाः रक्षिताः । सर्वेऽपि सानन्दा बभूवुः । नाटकमिदं सर्वथा परम्परानुवर्ति वर्तते । अस्य कथावस्तुनो विकासः प्राचीननाटकवद् विलसति | चरितनायकाश्चादर्शपरायणाः सन्ति । अर्जुनोऽभिमन्योः अप्यधिकतरं कर्तव्यपालनं मन्यते । एकोक्तीनां बाहुल्यं वर्तते । कर्णस्यैकोक्तिनितरां प्रभावशालिनी यथा -

अदृष्टकुलसम्भवं रणरसैकबद्धस्पृहः

स्वमाण्डलिकमण्डनां ननु निनाय यो मां पुरा।

कृतान्तगतिविक्लवं न यदहं तमुत्साहये

धिगस्तु ननु जन्म मे बत कृतघ्नतादूषितम्।।

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणानि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वीरधर्मदर्पणम्&oldid=429906" इत्यस्माद् प्रतिप्राप्तम्